Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

छिन्नमस्ता स्तोत्रम्

ईश्वर उवाच स्तवराजमहं वन्दे वै रोचन्याश्शुभप्रदं नाभौ शुभ्रारविन्दं तदुपरि विलसन्मण्डलं चण्डरश्मेः संसारस्यैकसारां त्रिभुवनजननीं धर्मकामार्थदात्रीं तस्मिन्नध्ये त्रिभागे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां तां वन्दे छिन्नमस्तां शमनभयहरां योगिनीं योगमुद्राम् 1 नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् तन्मध्ये विपरीतमैथुनरत प्रद्युम्नसत्कामिनी पृष्ठंस्यात्तरुणार्य कोटिविलसत्तेजस्स्वरूपां भजे 2 वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां प्रत्यालीढपदां दिगन्तवसनामुन्मुक्त केशव्रजां छिन्नात्मीय शिरस्समच्चल दमृद्धारां पिबन्तीं परां बालादित्य समप्रकाश विलसन्नेत्रत्रयोद्भासिनीम् 3 वामादन्यत्र नालं बहुगहनगलद्रक्तधाराभिरुच्चै- र्गायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपां रक्तामारक्तकेशीमवगतवसनावर्णनीमात्मशक्तिं प्रत्यालीढोरुपादामरुणि तनयनां योगिनीं योगनिद्राम् 4 दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटा घोररूपां प्रचण्डां दम्ष्ट्रादुःप्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वाग्रभासां विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिनीं भीममूर्तिं सद्यः छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनी वर्धयन्तीम् 5 ब्रह्मेशानाच्युताद्यैश्शिरसि विनिहिता मन्दपादारविन्दै राज्ञैर्योगीन्द्रमुख्यैः प्रतिपदमनिशं चिन्तितां चिन्त्यरूपां संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्तां इष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि 6 उत्पत्ति स्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं त्रैगुण्याज्जगतोयदीयविकृति ब्रह्माच्युतश्शूलभृत् तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये यस्मात्म्सेरपदारविन्दयुगले लाभं भजन्ते नराः 7 अभिलषित परस्त्री योगपूजापरोऽहं बहुविधजन भावारम्भसम्भावितोऽहं पशुजनविरतोऽहं भैरवी संस्थितोऽहं गुरुचरणपरोऽहं भैरवोहं शिवोऽहम् 8 इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् 9 यःपठेत्प्रातरुत्थाय देव्यास्सन्निहितोपि वा तस्य सिद्धिर्भवेद्देवी वाञ्छितार्थ प्रदायिनी 10 धनं धान्यं सुतं जायां हयं हस्तिनमेव वसुन्धरां महाविद्यामष्टसिद्धिं लभेद्धृवम् 11 वैयाघ्राजिनरञ्जितस्वजघनेऽरण्ये प्रलम्बोदरे खर्वे निर्वचनीयपर्वसुभगे मुण्डावलीमण्डिते कर्तीं कुन्दरुचिं विचित्रवनितां ज्ञाने दधाने पदे मातर्भक्तजनानुकम्पिनि महामायेस्तु तुभ्यं नमः 12 इति श्री छिन्नमस्ता स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits