Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

छिन्नमस्ता हृदयम्

श्री पार्वत्युवाच श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्ज निस्सृतम् हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् 1 श्री महादेव उवाच नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे यत्त्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये 2 ओं अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमहामन्त्रस्य भैरव ऋषिः सम्राट् छन्दः -छिन्नमस्ता देवता हूं बीजम् ओं शक्तिः ह्रीं कीलकं शत्रुक्षयकरणार्थे जपे विनियोगः अथ करन्यासः ओं ओं अङ्गुष्ठाभ्यां नमः ओं हूं तर्जनीभ्यां नमः ओं ह्रीं मध्यमाभ्यां नमः ओं क्लीं अनामिकाभ्यां नमः ओं ऐं कनिष्ठिकाभ्यां नमः ओं हूं करतलकरपृष्ठाभ्यां नमः अथ करन्यासः ओं ओं हृदयाय नमः ओं हूं शिरसे स्वाहा ओं ह्रीं शिखायै वषट् ओं क्लीं नेत्रत्रयाय वौषट् ओं ऐं कवचाय हुम् ओं हूं अस्त्राय फट् भूर्भुवस्सुवरोमिति दिग्बन्धः ध्यानम् रक्ताभां रक्तकेशीं करकमललसत्कर्तृकां कालकान्तिं विच्छिन्नात्मीयमुण्डासृगरुणबहुलां चक्रधारां पिबन्तीम् विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि 1 वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां परां छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् 2 सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहां सेवे सकलसम्पत्यै छिन्नमस्तां शुभप्रदाम् 3 यज्ञानां योगयज्ञाय या तु जाता युगे युगे दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् 4 वैरोचनीं वरारोहां वामदेमविवर्धितां कोटिसूर्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् 5 निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः योगिनी गणसंस्तुत्या तस्याश्चरणमाश्रये 6 हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे 7 हूं स्वाहेति मनुं सम्यग्यस्स्मरत्यार्तिमान्नरः छिनत्ति छिन्नमस्ताया तस्य बाधां नमामि ताम् 8 यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् दूरे तस्य पलायन्ते छिन्नमस्तां भजामि ताम् 9 क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा छलयुतकलकक्षाच्छेदने क्षान्तिलक्ष्या क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा जयतु जयतु चाक्षा छिन्नमस्तारिभक्षा 10 कलिकलुषकलानां कर्तने कर्त्रिहस्ता सुरकुवलयकाशा मन्दभानुप्रकाशा असुरकुलकलापत्रासिकाकालमूर्ति- र्जयतु जयतु काली छिन्नमस्ता कराली 11 भुवनभरणभूरी भ्राजमानानुभावा भव भव विभवानां भारणोद्भातभूतिः द्विजकुलकमलानां भासिनी भानुमूर्ति- र्भवतु भवतु वाणी छिन्नमस्ता भवानी 12 मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण भवतु तव यशोऽलं छिन्धि शत्रून्कलान्मे मम परिदिशेष्टं छिन्नमस्ते क्षमस्व 13 छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादन क्षमा 14 वैरोचनी वरारोहा बलिदानप्रहर्षिता बलियोजितपादाब्जा वासुदेव प्रपूजिता 15 इति द्वादशनामानि छिन्नमस्ता प्रियाणि यः स्मरेत्प्रातस्समुत्थाय तस्य नश्यन्ति शत्रवः 16 यां स्मृत्वा सन्ति सद्यः सकलः सुरगणाः सर्वदा सम्पदाढ्याः शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति तस्याः सङ्कल्पवन्तः सरसिजचरणस्सन्ततं संश्रयन्ति साऽऽद्या श्रीशादिसेव्या सुफलतु सुतरां छिन्नमस्ता प्रशस्ता 17 हृदयमितिमज्ञात्वा हन्तुमिच्छति यो द्विषम् कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति 18 यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः छिन्नमस्ता प्रसन्नापि ददाति फलमीप्सितम् 19 शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् आयुरारोग्यदं चैव पठतां पुण्यसाधनम् 20 इति श्री नन्द्यावर्ते महादेवपार्वतीसंवादे श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits