Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

भैरवी कवचम् - त्रैलोक्यविजयम्

श्री देव्युवाच ।
भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया ।
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ॥ 1 ॥
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारणम् ।
त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ॥ 2 ॥
ईश्वर उवाच ।
शृणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे ।
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ॥ 3 ॥
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् ।
जघान सकलान्दैत्यान्यद्धृत्वा मधुसूदनः ॥ 4 ॥
ब्रह्मा सृष्टिं वितनुते यद्धृत्वाभीष्टदायकम् ।
धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः ॥ 5 ॥
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन ॥ 6 ॥
पुत्रेभ्यः किमथान्येभ्यो दद्याच्चेन्मृत्युमाप्नुयात् ।
ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरेव च ॥ 7 ॥
विराट् छन्दो जगद्धात्री देवता बालभैरवी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ 8 ॥
अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः ।
भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः ॥ 9 ॥
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा ।
भालं पातु कुमारीशा सर्गहीना कुमारिका ॥ 10 ॥
दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु ।
कामबीजं सदा पातु घ्राणयुग्मं परावतु ॥ 11 ॥
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा ।
हस्रैं कण्ठं हसकलरीं स्कन्धौ पातु हस्रौ भुजौ ॥ 12 ॥
पञ्चमी भैरवी पातु करौ हसैं सदावतु ।
हृदयं हसकलीं वक्षः पातु हसौः स्तनौ मम ॥ 13 ॥
पातु सा भैरवी देवी चैतन्यरूपिणी मम ।
हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा ॥ 14 ॥
कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा ।
ऐं ईं ओं वं मध्यदेशं बीजविद्या सदावतु ॥ 15 ॥
हस्रैं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा ।
पातु हसौं करौ पातु षट्कूटा भैरवी मम ॥ 16 ॥
सहस्रैं सक्थिनी पातु सहसकलरीं सदावतु ।
गुह्यदेशं हस्रौं पातु जानुनी भैरवी मम ॥ 17 ॥
सम्पत्प्रदा सदा पातु हैं जङ्घे हसक्लीं पदौ ।
पातु हंसौः सर्वदेहं भैरवी सर्वदावतु ॥ 18 ॥
हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु ।
हसौं मे दक्षिणे पातु भैरवी चक्रसंस्थिता ॥ 19 ॥
ह्रीं क्लीं ल्वें मां सदा पातु निरृत्यां चक्रभैरवी ।
क्रीं क्रीं क्रीं पातु वायव्ये हूं हूं पातु सदोत्तरे ॥ 20 ॥
ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु ।
ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु मामधः स्थले ॥ 21 ॥
दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी ।
ओं ह्रीं स्त्रीं हूं फट् सा तारा सर्वत्र मां सदावतु ॥ 22 ॥
सङ्ग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे ।
खड्गकर्त्रिधरा सोग्रा सदा मां परिरक्षतु ॥ 23 ॥
इति ते कथितं देवि सारात्सारतरं महत् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ 24 ॥
यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात् ।
स्पर्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत्ततः ॥ 25 ॥
यः शत्रुभीतो रणकातरो वा
भीतो वने वा सलिलालये वा ।
वादे सभायां प्रतिवादिनो वा
रक्षःप्रकोपाद्ग्रहसकुलाद्वा ॥ 26 ॥
प्रचण्डदण्डाक्षमनाच्च भीतो
गुरोः प्रकोपादपि कृच्छ्रसाध्यात् ।
अभ्यर्च्य देवीं प्रपठेत्त्रिसन्ध्यं
स स्यान्महेशप्रतिमो जयी च ॥ 27 ॥
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् ।
विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि ॥ 28 ॥
कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च ॥ 29 ॥
लक्ष्मीः सरस्वती तस्य निवसेद्भवने मुखे ।
एतत्कवचमज्ञात्वा यो जपेद्भैरवीं पराम् ।
बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात् ॥ 30 ॥
इति श्री रुद्रयामले देवीश्वरसंवादे त्रैलोक्यविजयं नाम भैरवी कवचं समाप्तम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits