Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अष्टादश शक्तिपीठ स्तोत्रम्

लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे 1 अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा 2 उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके 3 हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका 4 वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती अष्टादश सुपीठानि योगिनामपि दुर्लभम् 5 सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् 6

Recite with devotion and pure heart

Regular practice brings spiritual benefits