हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दत्तात्रेय घोर कष्टोद्धारण स्तोत्रम्
श्रीपाद
श्रीवल्लभ
त्वं
सदैव
श्रीदत्तास्मान्पाहि
देवाधिदेव
।
भावग्राह्य
क्लेशहारिन्
सुकीर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते
॥
1
॥
त्वं
नो
माता
त्वं
पिताऽऽप्तोऽधिपस्त्वं
त्राता
योगक्षेमकृत्सद्गुरुस्त्वम्
।
त्वं
सर्वस्वं
नो
प्रभो
विश्वमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते
॥
2
॥
पापं
तापं
व्याधिमाधिं
च
दैन्यं
भीतिं
क्लेशं
त्वं
हराशु
त्वदन्यम्
।
त्रातारं
नो
वीक्ष्य
ईशास्तजूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते
॥
3
॥
नान्यस्त्राता
नाऽपि
दाता
न
भर्ता
त्वत्तो
देव
त्वं
शरण्योऽकहर्ता
।
कुर्वात्रेयानुग्रहं
पूर्णराते
घोरात्कष्टादुद्धरास्मान्नमस्ते
॥
4
॥
धर्मे
प्रीतिं
सन्मतिं
देवभक्तिं
सत्सङ्गाप्तिं
देहि
भुक्तिं
च
मुक्तिम्
।
भावासक्तिं
चाखिलानन्दमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते
॥
5
॥
श्लोकपञ्चकमेतद्यो
लोकमङ्गलवर्धनम्
।
प्रपठेन्नियतो
भक्त्या
स
श्रीदत्तप्रियो
भवेत्
॥
6
॥
इति
श्रीमत्परमहंस
परिव्राजकाचार्य
श्रीमद्वासुदेवानन्दसरस्वति
यति
विरचितं
घोरकष्टोद्धारण
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits