हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वराह कवचम्
आद्यं
रङ्गमिति
प्रोक्तं
विमानं
रङ्गसञ्ज्ञितम्
।
श्रीमुष्णं
वेङ्कटाद्रिं
च
सालग्रामं
च
नैमिशम्
॥
तोयाद्रिं
पुष्करं
चैव
नरनारायणाश्रमम्
।
अष्टौ
मे
मूर्तयः
सन्ति
स्वयंव्यक्ता
महीतले
॥
श्रीसूत
उवाच
।
श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा
।
सन्तुष्टा
पार्वती
प्राह
शङ्करं
लोकशङ्करम्
॥
1
॥
श्रीपार्वत्युवाच
।
श्रीमुष्णेशस्य
माहात्म्यं
वराहस्य
महात्मनः
।
श्रुत्वा
तृप्तिर्न
मे
जाता
मनः
कौतूहलायते
।
श्रोतुं
तद्देवमाहात्म्यं
तस्माद्वर्णय
मे
पुनः
॥
2
॥
श्रीशङ्कर
उवाच
।
शृणु
देवि
प्रवक्ष्यामि
श्रीमुष्णेशस्य
वैभवम्
।
यस्य
श्रवणमात्रेण
महापापैः
प्रमुच्यते
।
सर्वेषामेव
तीर्थानां
तीर्थराजोऽभिधीयते
॥
3
॥
नित्यपुष्करिणी
नाम्नी
श्रीमुष्णे
या
च
वर्तते
।
जाता
श्रमापहा
पुण्या
वराहश्रमवारिणा
॥
4
॥
विष्णोरङ्गुष्ठसंस्पर्शात्
पुण्यदा
खलु
जाह्नवी
।
विष्णोः
सर्वाङ्गसम्भूता
नित्यपुष्करिणी
शुभा
॥
5
॥
महानदी
सहस्रेण
नित्यदा
सङ्गता
शुभा
।
सकृत्
स्नात्वा
विमुक्ताघः
सद्यो
याति
हरेः
पदम्
॥
6
॥
तस्या
आग्नेयभागे
तु
अश्वत्थच्छाययोदके
।
स्नानं
कृत्वा
पिप्पलस्य
कृत्वा
चापि
प्रदक्षिणम्
॥
7
॥
दृष्ट्वा
श्वेतवराहं
च
मासमेकं
नयेद्यदि
।
कालमृत्युं
विनिर्जित्य
श्रिया
परमया
युतः
॥
8
॥
आधिव्याधिविनिर्मुक्तो
ग्रहपीडाविवर्जितः
।
भुक्त्वा
भोगाननेकांश्च
मोक्षमन्ते
व्रजेत्
ध्रुवम्
॥
9
॥
अश्वत्थमूलेऽर्कवारे
नित्यपुष्करिणीतटे
।
वराहकवचं
जप्त्वा
शतवारं
जितेन्द्रियः
॥
10
॥
क्षयापस्मारकुष्ठाद्यैः
महारोगैः
प्रमुच्यते
।
वराहकवचं
यस्तु
प्रत्यहं
पठते
यदि
॥
11
॥
शत्रुपीडाविनिर्मुक्तो
भूपतित्वमवाप्नुयात्
।
लिखित्वा
धारयेद्यस्तु
बाहुमूले
गलेऽथ
वा
॥
12
॥
भूतप्रेतपिशाचाद्याः
यक्षगन्धर्वराक्षसाः
।
शत्रवो
घोरकर्माणो
ये
चान्ये
विषजन्तवः
।
नष्टदर्पा
विनश्यन्ति
विद्रवन्ति
दिशो
दश
॥
13
॥
श्रीपार्वत्युवाच
।
तद्ब्रूहि
कवचं
मह्यं
येन
गुप्तो
जगत्त्रये
।
सञ्चरेद्देववन्मर्त्यः
सर्वशत्रुविभीषणः
।
येनाप्नोति
च
साम्राज्यं
तन्मे
ब्रूहि
सदाशिव
॥
14
॥
श्रीशङ्कर
उवाच
।
शृणु
कल्याणि
वक्ष्यामि
वाराहकवचं
शुभम्
।
येन
गुप्तो
लभेन्मर्त्यो
विजयं
सर्वसम्पदम्
॥
15
॥
अङ्गरक्षाकरं
पुण्यं
महापातकनाशनम्
।
सर्वरोगप्रशमनं
सर्वदुर्ग्रहनाशनम्
॥
16
॥
विषाभिचारकृत्यादिशत्रुपीडानिवारणम्
।
नोक्तं
कस्यापि
पूर्वं
हि
गोप्याद्गोप्यतरं
यतः
॥
17
॥
वराहेण
पुरा
प्रोक्तं
मह्यं
च
परमेष्ठिने
।
युद्धेषु
जयदं
देवि
शत्रुपीडानिवारणम्
॥
18
॥
वराहकवचाद्गुप्तो
नाऽशुभं
लभते
नरः
।
वराहकवचस्यास्य
ऋषिर्ब्रह्मा
प्रकीर्तितः
॥
19
॥
छन्दोऽनुष्टुप्
तथा
देवो
वराहो
भूपरिग्रहः
।
प्रक्षाल्य
पादौ
पाणी
च
सम्यगाचम्य
वारिणा
॥
20
॥
कृतस्वाङ्गकरन्यासः
सपवित्र
उदङ्मुखः
।
ओं
भूर्भवः
सुवरिति
नमो
भूपतयेऽपि
च
॥
21
॥
नमो
भगवते
पश्चात्
वराहाय
नमस्तथा
।
एवं
षडङ्गं
न्यासं
च
न्यसेदङ्गुलिषु
क्रमात्
॥
22
॥
नमः
श्वेतवराहाय
महाकोलाय
भूपते
।
यज्ञाङ्गाय
शुभाङ्गाय
सर्वज्ञाय
परात्मने
॥
23
॥
स्रवतुण्डाय
धीराय
परब्रह्मस्वरूपिणे
।
वक्रदंष्ट्राय
नित्याय
नमोऽन्तैर्नामभिः
क्रमात्
॥
24
॥
अङ्गुलीषु
न्यसेद्विद्वान्
करपृष्ठतलेष्वपि
।
ध्यात्वा
श्वेतवराहं
च
पश्चान्मन्त्रमुदीरयेत्
॥
25
॥
ध्यानम्
–
ओम्
।
श्वेतं
वराहवपुषं
क्षितिमुद्धरन्तं
शङ्घारिसर्ववरदाऽभययुक्तबाहुम्
।
ध्यायेन्निजैश्च
तनुभिः
सकलैरुपेतं
पूर्णं
विभुं
सकलवाञ्छितसिद्धयेऽजम्
॥
26
॥
कवचम्
–
वराहः
पूर्वतः
पातु
दक्षिणे
दण्डकान्तकः
।
हिरण्याक्षहरः
पातु
पश्चिमे
गदया
युतः
॥
27
॥
उत्तरे
भूमिहृत्
पातु
अधस्ताद्वायुवाहनः
।
ऊर्ध्वं
पातु
हृषीकेशो
दिग्विदिक्षु
गदाधरः
॥
28
॥
प्रातः
पातु
प्रजानाथः
कल्पकृत्
सङ्गमेऽवतु
।
मध्याह्ने
वज्रकेशस्तु
सायाह्ने
सर्वपूजितः
॥
29
॥
प्रदोषे
पातु
पद्माक्षो
रात्रौ
राजीवलोचनः
।
निशीन्द्रगर्वहा
पातु
पातूषः
परमेश्वरः
॥
30
॥
अटव्यामग्रजः
पातु
गमने
गरुडासनः
।
स्थले
पातु
महातेजाः
जले
पात्ववनीपतिः
॥
31
॥
गृहे
पातु
गृहाध्यक्षः
पद्मनाभः
पुरोऽवतु
।
झिल्लिकावरदः
पातु
स्वग्रामे
करुणाकरः
॥
32
॥
रणाग्रे
दैत्यहा
पातु
विषमे
पातु
चक्रभृत्
।
रोगेषु
वैद्यराजस्तु
कोलो
व्याधिषु
रक्षतु
॥
33
॥
तापत्रयात्
तपोमूर्तिः
कर्मपाशाच्च
विश्वकृत्
।
क्लेशकालेषु
सर्वेषु
पातु
पद्मापतिर्विभुः
॥
34
॥
हिरण्यगर्भसंस्तुत्यः
पादौ
पातु
निरन्तरम्
।
गुल्फौ
गुणाकरः
पातु
जङ्घे
पातु
जनार्दनः
॥
35
॥
जानू
च
जयकृत्
पातु
पातूरू
पुरुषोत्तमः
।
रक्ताक्षो
जघने
पातु
कटिं
विश्वम्भरोऽवतु
॥
36
॥
पार्श्वे
पातु
सुराध्यक्षः
पातु
कुक्षिं
परात्परः
।
नाभिं
ब्रह्मपिता
पातु
हृदयं
हृदयेश्वरः
॥
37
॥
महादंष्ट्रः
स्तनौ
पातु
कण्ठं
पातु
विमुक्तिदः
।
प्रभञ्जनपतिर्बाहू
करौ
कामपिताऽवतु
॥
38
॥
हस्तौ
हंसपतिः
पातु
पातु
सर्वाङ्गुलीर्हरिः
।
सर्वाङ्गश्चिबुकं
पातु
पात्वोष्ठौ
कालनेमिहा
॥
39
॥
मुखं
तु
मधुहा
पातु
दन्तान्
दामोदरोऽवतु
।
नासिकामव्ययः
पातु
नेत्रे
सूर्येन्दुलोचनः
॥
40
॥
फालं
कर्मफलाध्यक्षः
पातु
कर्णौ
महारथः
।
शेषशायी
शिरः
पातु
केशान्
पातु
निरामयः
॥
41
॥
सर्वाङ्गं
पातु
सर्वेशः
सदा
पातु
सतीश्वरः
।
इतीदं
कवचं
पुण्यं
वराहस्य
महात्मनः
॥
42
॥
यः
पठेत्
शृणुयाद्वापि
तस्य
मृत्युर्विनश्यति
।
तं
नमस्यन्ति
भूतानि
भीताः
साञ्जलिपाणयः
॥
43
॥
राजदस्युभयं
नास्ति
राज्यभ्रंशो
न
जायते
।
यन्नामस्मरणाद्भीताः
भूतवेतालराक्षसाः
॥
44
॥
महारोगाश्च
नश्यन्ति
सत्यं
सत्यं
वदाम्यहम्
।
कण्ठे
तु
कवचं
बद्ध्वा
वन्ध्या
पुत्रवती
भवेत्
॥
45
॥
शत्रुसैन्यक्षयप्राप्तिः
दुःखप्रशमनं
तथा
।
उत्पातदुर्निमित्तादिसूचितारिष्टनाशनम्
॥
46
॥
ब्रह्मविद्याप्रबोधं
च
लभते
नात्र
संशयः
।
धृत्वेदं
कवचं
पुण्यं
मान्धाता
परवीरहा
॥
47
॥
जित्वा
तु
शाम्बरीं
मायां
दैत्येन्द्रानवधीत्
क्षणात्
।
कवचेनावृतो
भूत्वा
देवेन्द्रोऽपि
सुरारिहा
॥
48
॥
भूम्योपदिष्टकवचधारणान्नरकोऽपि
च
।
सर्वावध्यो
जयी
भूत्वा
महतीं
कीर्तिमाप्तवान्
॥
49
॥
अश्वत्थमूलेऽर्कवारे
नित्य
पुष्करिणीतटे
।
वराहकवचं
जप्त्वा
शतवारं
पठेद्यदि
॥
50
॥
अपूर्वराज्यसम्प्राप्तिं
नष्टस्य
पुनरागमम्
।
लभते
नात्र
सन्देहः
सत्यमेतन्मयोदितम्
॥
51
॥
जप्त्वा
वराहमन्त्रं
तु
लक्षमेकं
निरन्तरम्
।
दशांशं
तर्पणं
होमं
पायसेन
घृतेन
च
॥
52
॥
कुर्वन्
त्रिकालसन्ध्यासु
कवचेनावृतो
यदि
।
भूमण्डलाधिपत्यं
च
लभते
नात्र
संशयः
॥
53
॥
इदमुक्तं
मया
देवि
गोपनीयं
दुरात्मनाम्
।
वराहकवचं
पुण्यं
संसारार्णवतारकम्
॥
54
॥
महापातककोटिघ्नं
भुक्तिमुक्तिफलप्रदम्
।
वाच्यं
पुत्राय
शिष्याय
सद्वृताय
सुधीमते
॥
55
॥
श्रीसूत
उवाच
।
इति
पत्युर्वचः
श्रुत्वा
देवी
सन्तुष्टमानसा
।
विनायकगुहौ
पुत्रौ
प्रपेदे
द्वौ
सुरार्चितौ
॥
56
॥
कवचस्य
प्रभावेन
लोकमाता
च
पार्वती
।
य
इदं
शृणुयान्नित्यं
यो
वा
पठति
नित्यशः
।
स
मुक्तः
सर्वपापेभ्यो
विष्णुलोके
महीयते
॥
57
॥
इति
श्री
वराह
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits