Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वामन स्तोत्रम् - श्रीमद्भागवते

अदितिरुवाच । यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवण मङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ 1 ॥ विश्वाय विश्वभवनस्थितिसम्यमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितवूर्णबोध- -व्यापादितात्मतमसे हरये नमस्ते ॥ 2 ॥ आयुः परं वपुरभीष्टमतुल्यलक्ष्मी- -र्द्यौभूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ 3 ॥ इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे सप्तदशोऽध्याये श्री वामन स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits