हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कूर्म स्तोत्रम्
मुनयः
ऊचुः
।
नमस्ते
कूर्मरूपाय
विष्णवे
परमात्मने
।
नारायणाय
विश्वाय
वासुदेवाय
ते
नमः
॥
1
॥
नमो
नमस्ते
कृष्णाय
गोविन्दाय
नमो
नमः
।
माधवाय
नमस्तुभ्यं
नमो
यज्ञेश्वराय
च
॥
2
॥
सहस्रशिरसे
तुभ्यं
सहस्राक्षाय
ते
नमः
।
नमः
सहस्रहस्ताय
सहस्रचरणाय
च
॥
3
॥
ओं
नमो
ज्ञानरूपाय
परमात्मस्वरूपिणे
।
आनन्दाय
नमस्तुभ्यं
मायातीताय
ते
नमः
॥
4
॥
नमो
गूढशरीराय
निर्गुणाय
नमोऽस्तु
ते
।
पुरुषाय
पुराणाय
सत्तामात्रस्वरूपिणे
॥
5
॥
नमः
साङ्ख्याय
योगाय
केवलाय
नमोऽस्तु
ते
।
धर्मज्ञानाधिगम्याय
निष्कलाय
नमोऽस्तु
ते
॥
6
॥
नमस्ते
व्योमरूपाय
महायोगेश्वराय
च
।
परावराणां
प्रभवे
वेदवेद्याय
ते
नमः
॥
7
॥
नमो
बुद्धाय
शुद्धाय
नमो
युक्ताय
हेतवे
।
नमो
नमो
नमस्तुभ्यं
मायिने
वेधसे
नमः
॥
8
॥
नमोऽस्तु
ते
वराहाय
नारसिंहाय
ते
नमः
।
वामनाय
नमस्तुभ्यं
हृषीकेशाय
ते
नमः
॥
9
॥
स्वर्गापवर्गदात्रे
च
नमोऽप्रतिहतात्मने
।
नमो
योगाधिगम्याय
योगिने
योगदायिने
॥
10
॥
देवानां
पतये
तुभ्यं
देवार्तिशमनाय
ते
।
भगवंस्त्वत्प्रसादेन
सर्वसंसारनाशनम्
॥
11
॥
अस्माभिर्विदितं
ज्ञानं
यज्ज्ञात्वामृतमश्नुते
।
श्रुतास्तु
विविधा
धर्मा
वंशा
मन्वन्तराणि
च
॥
12
॥
सर्गश्च
प्रतिसर्गश्च
ब्रह्माण्डस्यास्य
विस्तरः
।
त्वं
हि
सर्वजगत्साक्षी
विश्वो
नारायणः
परः
।
त्रातुमर्हस्यनन्तात्मा
त्वामेव
शरणं
गताः
॥
13
॥
इति
कूर्मपुराणे
उत्तरभागे
षट्चत्वारिंशोऽध्याये
मुनिभिः
कृतं
श्री
कूर्म
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits