Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री रुद्रं लघुन्यासम्

ओं अथात्मानग्ं शिवात्मानं श्री रुद्ररूपं ध्यायेत् शुद्धस्फटिक संकाशं त्रिनेत्रं पंच वक्त्रकम् गंगाधरं दशभुजं सर्वाभरण भूषितम् नीलग्रीवं शशांकांकं नाग यज्ञोप वीतिनम् व्याघ्र चर्मोत्तरीयं वरेण्यमभय प्रदम् कमंडल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् ज्वलंतं पिंगलजटा शिखा मुद्द्योत धारिणम् वृष स्कंध समारूढं उमा देहार्थ धारिणम् अमृतेनाप्लुतं शांतं दिव्यभोग समन्वितम् दिग्देवता समायुक्तं सुरासुर नमस्कृतम् नित्यं शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् सर्व व्यापिन-मीशानं रुद्रं-वैँ विश्वरूपिणम् एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् अथातो रुद्र स्नानार्चनाभिषेक विधिं-व्याँ᳚क्ष्यास्यामः आदित एव तीर्थे स्नात्वा, उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा, आत्मनि देवताः स्थापयेत् प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्​हरस्तिष्ठतु बाह्वोरिंद्रस्तिष्टतु जठरेऽअग्निस्तिष्ठतु हृद॑ये शिवस्तिष्ठतु कंठे वसवस्तिष्ठंतु वक्त्रे सरस्वती तिष्ठतु नासिकयो-र्वायुस्तिष्ठतु नयनयो-श्चंद्रादित्यौ तिष्टेताम् कर्णयोरश्विनौ तिष्टेताम् ललाटे रुद्रास्तिष्ठंतु मूर्थ्न्यादित्यास्तिष्ठंतु शिरसि महादेवस्तिष्ठतु शिखायां-वाँमदेवास्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्​श्वयोः शिवाशंकरौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला-परिवृतस्तिष्ठतु सर्वेष्वंगेषु सर्वा देवता यथास्थानं तिष्ठंतु माग्ं रक्षंतु अ॒ग्निर्मे॑ वा॒चि श्रि॒तः वाघृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि वा॒युर्मे᳚ प्रा॒णे श्रि॒तः प्रा॒णो हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि सूर्यो॑ मे॒ चक्षुषि श्रि॒तः चक्षु॒र्​हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि चं॒द्रमा॑ मे॒ मन॑सि श्रि॒तः मनो॒ हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः श्रोत्र॒ग्ं॒ हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि आपोमे॒ रेतसि श्रि॒ताः रेतो हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता शरी॑र॒ग्ं॒ हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि ओ॒ष॒धि॒ व॒न॒स्पतयो॑ मे॒ लोम॑सु श्रि॒ताः लोमा॑नि॒ हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि इंद्रो॑ मे॒ बले᳚ श्रि॒तः बल॒ग्ं॒ हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि प॒र्जन्यो॑ मे॒ मू॒र्द्नि श्रि॒तः मू॒र्धा हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि ईशा॑नो मे॒ म॒न्यौ श्रि॒तः म॒न्युर्​हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः आ॒त्मा हृद॑ये हृद॑यं॒ मयि॑ अ॒हम॒मृते᳚ अ॒मृतं॒ ब्रह्म॑णि पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा᳚त् पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः अं॒तस्ति॑ष्ठ॒त्वमृत॑स्य गो॒पाः अस्य श्री रुद्राध्याय प्रश्न महामंत्रस्य, अघोर ऋषिः, अनुष्टुप् छंदः, संकर्​षण मूर्ति स्वरूपो योऽसावादित्यः परमपुरुषः एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्री सांब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ओं अग्निहोत्रात्मने अंगुष्ठाभ्यां नमः दर्​शपूर्ण मासात्मने तर्जनीभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरूढ पशुबंधात्मने अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्​शपूर्ण मासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषट् निरूढ पशुबंधात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् सर्वक्रत्वात्मने अस्त्रायफट् भूर्भुवस्सुवरोमिति दिग्बंधः ध्यानं आपाताल-नभःस्थलांत-भुवन-ब्रह्मांड-माविस्फुरत्- ज्योतिः स्फाटिक-लिंग-मौलि-विलसत्-पूर्णेंदु-वांतामृतैः अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकांजपन् ध्याये-दीप्सित-सिद्धये ध्रुवपदं-विँप्रोऽभिषिंचे-च्चिवम् ब्रह्मांड व्याप्तदेहा भसित हिमरुचा भासमाना भुजंगैः कंठे कालाः कपर्दाः कलित-शशिकला-श्चंड कोदंड हस्ताः त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शांभवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चंतु सौख्यम् ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् महागणपतये॒ नमः शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं मे यं॒ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ मे॒ मह॑श्च मे सं॒​विँच्च॑ मे॒ ज्ञात्रं॑ मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ मे ल॒यश्च॑ ऋ॒तं च॑ मे॒ऽमृतं॑ मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं मे सु॒गं च॑ मे॒ शय॑नं मे सू॒षा च॑ मे॒ सु॒दिनं॑ मे ओं शांतिः॒ शांतिः॒ शांतिः॑