हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
पंच रुद्रम्
हरिः॑
ओं
कद्रु॒द्राय॒
प्रचे᳚तसे
मी॒ळ्हुष्ट॑माय॒
तव्य॑से
।
वो॒चेम॒
शंत॑मं
हृ॒दे
॥
1.043.01
॥
यथा᳚
नो
अदि॑तिः॒
कर॒त्पश्वे॒
नृभ्यो॒
यथा॒
गवे᳚
।
यथा᳚
तो॒काय॑
रु॒द्रिय᳚म्
॥
1.043.02
॥
यथा᳚
नो
मि॒त्रो
वरु॑णो॒
यथा᳚
रु॒द्रश्चिके᳚तति
।
यथा॒
विश्वे᳚
स॒जोष॑सः
॥
1.043.03
॥
गा॒थप॑तिं
मे॒धप॑तिं
रु॒द्रं
जला᳚षभेषजम्
।
तच्छं॒योः
सु॒म्नमी᳚महे
॥
1.043.04
॥
यः
शु॒क्र
इ॑व॒
सूर्यो॒
हिर᳚ण्यमिव॒
रोच॑ते
।
श्रेष्ठो᳚
दे॒वानां॒
वसुः॑
॥
1.043.05
॥
शं
नः॑
कर॒त्यर्व॑ते
सु॒गं
मे॒षाय॑
मे॒ष्ये᳚
।
नृभ्यो॒
नारि॑भ्यो॒
गवे᳚
॥
1.043.06
॥
अ॒स्मे
सो᳚म॒
श्रिय॒मधि॒
नि
धे᳚हि
श॒तस्य॑
नृ॒णाम्
।
महि॒
श्रव॑स्तुविनृ॒म्णम्
॥
1.043.07
॥
मा
नः॑
सोमपरि॒बाधो॒
मारा᳚तयो
जुहुरन्त
।
आ
न॑
इन्दो॒
वाजे᳚
भज
॥
1.043.08
॥
यास्ते᳚
प्र॒जा
अ॒मृत॑स्य॒
पर॑स्मि॒न्धाम᳚न्नृ॒तस्य॑
।
मू॒र्धा
नाभा᳚
सोम
वेन
आ॒भूष᳚न्तीः
सोम
वेदः
॥
1.043.09
॥
इ॒मा
रु॒द्राय॑
त॒वसे᳚
कप॒र्दिने᳚
क्ष॒यद्वी᳚राय॒
प्र
भ॑रामहे
म॒तीः
।
यथा॒
शमस॑द्द्वि॒पदे॒
चतु॑ष्पदे॒
विश्वं᳚
पु॒ष्टं
ग्रामे᳚
अ॒स्मिन्न॑नातु॒रम्
॥
1.114.01
॥
मृ॒ळा
नो᳚
रुद्रो॒त
नो॒
मय॑स्कृधि
क्ष॒यद्वी᳚राय॒
नम॑सा
विधेम
ते
।
यच्छं
च॒
योश्च॒
मनु॑राये॒जे
पि॒ता
तद॑श्याम॒
तव॑
रुद्र॒
प्रणी᳚तिषु
॥
1.114.02
॥
अ॒श्याम॑
ते
सुम॒तिं
दे᳚वय॒ज्यया᳚
क्ष॒यद्वी᳚रस्य॒
तव॑
रुद्र
मीढ्वः
।
सु॒म्ना॒यन्निद्विशो᳚
अ॒स्माक॒मा
च॒रारि॑ष्टवीरा
जुहवाम
ते
ह॒विः
॥
1.114.03
॥
त्वे॒षं
व॒यं
रु॒द्रं
य॑ज्ञ॒साधं᳚
व॒ङ्कुं
क॒विमव॑से॒
नि
ह्व॑यामहे
।
आ॒रे
अ॒स्मद्दैव्यं॒
हेळो᳚
अस्यतु
सुम॒तिमिद्व॒यम॒स्या
वृ॑णीमहे
॥
1.114.04
॥
दि॒वो
व॑रा॒हम॑रु॒षं
क॑प॒र्दिनं᳚
त्वे॒षं
रू॒पं
नम॑सा॒
नि
ह्व॑यामहे
।
हस्ते॒
बिभ्र॑द्भेष॒जा
वार्या᳚णि॒
शर्म॒
वर्म॑
च्छ॒र्दिर॒स्मभ्यं᳚
यंसत्
॥
1.114.05
॥
इ॒दं
पि॒त्रे
म॒रुता᳚मुच्यते॒
वचः॑
स्वा॒दोः
स्वादी᳚यो
रु॒द्राय॒
वर्ध॑नम्
।
रास्वा᳚
च
नो
अमृत
मर्त॒भोज॑नं॒
त्मने᳚
तो॒काय॒
तन॑याय
मृळ
॥
1.114.06
॥
मानो᳚
म॒हान्त॑मु॒त
मानो᳚
अर्भ॒कं
मा
न॒
उक्ष᳚न्तमु॒त
मा
न॑
उक्षि॒तम्
।
मानो᳚
वधीः
पि॒तरं॒
मोत
मा॒तरं॒
मा
नः॑
प्रि॒यास्त॒न्वो᳚
रुद्र
रीरिषः
॥
1.114.07
॥
मा
न॑स्तो॒के
तन॑ये॒
मा
न॑
आ॒यौ
मा
नो॒
गोषु॒
मा
नो॒
अश्वे᳚षु
रीरिषः
।
वी॒रान्मा
नो᳚
रुद्र
भामि॒तो
व॑धीर्ह॒विष्म᳚न्तः॒
सद॒मित्त्वा᳚
हवामहे
॥
1.114.08
॥
उप॑ते॒
स्तोमा᳚न्पशु॒पा
इ॒वाक॑रं॒
रास्वा᳚
पितर्मरुतां
सु॒म्नम॒स्मे
।
भ॒द्रा
हिते᳚
सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚
व॒यमव॒
इत्ते᳚
वृणीमहे
॥
1.114.09
॥
आ॒रे
ते᳚
गो॒घ्नमु॒त
पू᳚रुष॒घ्नं
क्षय॑द्वीर
सु॒म्नम॒स्मे
ते᳚
अस्तु
।
मृ॒ळा
च॑
नो॒
अधि॑
च
ब्रूहि
दे॒वाधा᳚
च
नः॒
शर्म॑
यच्छ
द्वि॒बर्हाः᳚
॥
1.114.10
॥
अवो᳚चाम॒
नमो᳚
अस्मा
अव॒स्यवः॑
शऋ॒णोतु॑
नो॒
हवं᳚
रु॒द्रो
म॒रुत्वा᳚न्
।
तन्नो᳚
मि॒त्रो
वरु॑णो
मामहन्ता॒मदि॑तिः॒
सिन्धुः॑
पृथि॒वी
उ॒त
द्यौः
॥
1.114.11
॥
आते᳚
पितर्मरुतां
सु॒म्नमे᳚तु॒
मा
नः॒
सूर्य॑स्य
सं॒दृशो᳚
युयोथाः
।
अ॒भि
नो᳚
वी॒रो
अर्व॑ति
क्षमेत॒
प्र
जा᳚येमहि
रुद्र
प्र॒जाभिः॑
॥
2.033.01
॥
त्वाद॑त्तेभी
रुद्र॒
शंत॑मेभिः
श॒तं
हिमा᳚
अशीय
भेष॒जेभिः॑
।
व्य
स्मद्द्वेषो᳚
वित॒रं
व्यंहो॒
व्यमी᳚वाश्चातयस्वा॒
विषू᳚चीः
॥
2.033.02
॥
श्रेष्ठो᳚
जा॒तस्य॑
रुद्र
श्रि॒यासि॑
त॒वस्त॑मस्त॒वसां᳚
वज्रबाहो
।
पर्षि॑
णः
पा॒रमंह॑सः
स्व॒स्ति
विश्वा᳚
अ॒भी᳚ती॒
रप॑सो
युयोधि
॥
2.033.03
॥
मात्वा᳚
रुद्र
चुक्रुधामा॒
नमो᳚भि॒र्मा
दुष्टु॑ती
वृषभ॒
मा
सहू᳚ती
।
उन्नो᳚
वी॒राँ
अ॑र्पय
भेष॒जेभि॑र्भि॒षक्त॑मं
त्वा
भि॒षजां᳚
शऋणोमि
॥
2.033.04
॥
हवी᳚मभि॒र्हव॑ते॒
यो
ह॒विर्भि॒रव॒
स्तोमे᳚भी
रु॒द्रं
दि॑षीय
।
ऋ॒दू॒दरः॑
सु॒हवो॒
मा
नो᳚
अ॒स्यै
ब॒भ्रुः
सु॒शिप्रो᳚
रीरधन्म॒नायै᳚
॥
2.033.05
॥
उन्मा᳚
ममन्द
वृष॒भो
म॒रुत्वा॒न्त्वक्षी᳚यसा॒
वय॑सा॒
नाध॑मानम्
।
घृणी᳚व
च्छा॒याम॑र॒पा
अ॑शी॒या
वि॑वासेयं
रु॒द्रस्य॑
सु॒म्नम्
॥
2.033.06
॥
क्व
स्य
ते᳚
रुद्र
मृळ॒याकु॒र्हस्तो॒
यो
अस्ति॑
भेष॒जो
जला᳚षः
।
अ॒प॒भ॒र्ता
रप॑सो॒
दैव्य॑स्या॒भी
नु
मा᳚
वृषभ
चक्षमीथाः
॥
2.033.07
॥
प्र
ब॒भ्रवे᳚
वृष॒भाय॑
श्विती॒चे
म॒हो
म॒हीं
सु॑ष्टु॒तिमी᳚रयामि
।
न॒म॒स्या
क॑ल्मली॒किनं॒
नमो᳚भिर्गृणी॒मसि॑
त्वे॒षं
रु॒द्रस्य॒
नाम॑
॥
2.033.08
॥
स्थि॒रेभि॒रङ्गैः᳚
पुरु॒रूप॑
उ॒ग्रो
ब॒भ्रुः
शु॒क्रेभिः॑
पिपिशे॒
हिर᳚ण्यैः
।
ईशा᳚नाद॒स्य
भुव॑नस्य॒
भूरे॒र्न
वा
उ॑
योषद्रु॒द्राद॑सु॒र्य᳚म्
॥
2.033.09
॥
अर्ह᳚न्बिभर्षि॒
साय॑कानि॒
धन्वार्ह᳚न्नि॒ष्कं
य॑ज॒तं
वि॒श्वरू᳚पम्
।
अर्ह᳚न्नि॒दं
द॑यसे॒
विश्व॒मभ्वं॒
न
वा
ओजी᳚यो
रुद्र॒
त्वद॑स्ति
॥
2.033.10
॥
स्तु॒हि
श्रु॒तं
ग॑र्त॒सदं॒
युवा᳚नं
मृ॒गं
न
भी॒ममु॑पह॒त्नुमु॒ग्रम्
।
मृ॒ळा
ज॑रि॒त्रे
रु॑द्र॒
स्तवा᳚नो॒ऽन्यं
ते᳚
अ॒स्मन्नि
व॑पन्तु॒
सेनाः᳚
॥
2.033.11
॥
कु॒मा॒रश्चि॑त्पि॒तरं॒
वन्द॑मानं॒
प्रति॑
नानाम
रुद्रोप॒यन्त᳚म्
।
भूरे᳚र्दा॒तारं॒
सत्प॑तिं
गृणीषे
स्तु॒तस्त्वं
भे᳚ष॒जा
रा᳚स्य॒स्मे
॥
2.033.12
॥
यावो᳚
भेष॒जा
म॑रुतः॒
शुची᳚नि॒
या
शंत॑मा
वृषणो॒
या
म॑यो॒भु
।
यानि॒
मनु॒रवृ॑णीता
पि॒ता
न॒स्ता
शं
च॒
योश्च॑
रु॒द्रस्य॑
वश्मि
॥
2.033.13
॥
परि॑
णो
हे॒ती
रु॒द्रस्य॑
वृज्याः॒
परि॑
त्वे॒षस्य॑
दुर्म॒तिर्म॒ही
गा᳚त्
।
अव॑
स्थि॒रा
म॒घव॑द्भ्यस्तनुष्व॒
मीढ्व॑स्तो॒काय॒
तन॑याय
मृळ
॥
2.033.14
॥
ए॒वा
ब॑भ्रो
वृषभ
चेकितान॒
यथा᳚
देव॒
न
हृ॑णी॒षे
न
हंसि॑
।
ह॒व॒न॒श्रुन्नो᳚
रुद्रे॒ह
बो᳚धि
बृ॒हद्व॑देम
वि॒दथे᳚
सु॒वीराः᳚
॥
2.033.15
॥
सोमा᳚रुद्रा
धा॒रये᳚थामसु॒र्यं
प्र
वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु
।
दमे᳚दमे
स॒प्त
रत्ना॒
दधा᳚ना॒
शं
नो᳚
भूतं
द्वि॒पदे॒
शं
चतु॑ष्पदे
॥
6.074.01
॥
सोमा᳚रुद्रा॒
वि
वृ॑हतं॒
विषू᳚ची॒ममी᳚वा॒
या
नो॒
गय॑मावि॒वेश॑
।
आ॒रे
बा᳚धेथां॒
निरृ॑तिं
परा॒चैर॒स्मे
भ॒द्रा
सौ᳚श्रव॒सानि॑
सन्तु
॥
6.074.02
॥
सोमा᳚रुद्रा
यु॒वमे॒तान्य॒स्मे
विश्वा᳚
त॒नूषु॑
भेष॒जानि॑
धत्तम्
।
अव॑
स्यतं
मु॒ञ्चतं॒
यन्नो॒
अस्ति॑
त॒नूषु॑
ब॒द्धं
कृ॒तमेनो᳚
अ॒स्मत्
॥
6.074.03
॥
ति॒ग्मायु॑धौ
ति॒ग्महे᳚ती
सु॒शेवौ॒
सोमा᳚रुद्रावि॒ह
सु
मृ॑ळतं
नः
।
प्रनो᳚
मुञ्चतं॒
वरु॑णस्य॒
पाशा᳚द्गोपा॒यतं᳚
नः
सुमन॒स्यमा᳚ना
॥
6.074.04
॥
इ॒मा
रु॒द्राय॑
स्थि॒रध᳚न्वने॒
गिरः॑
क्षि॒प्रेष॑वे
दे॒वाय॑
स्व॒धाव्ने᳚
।
अषा᳚ळ्हाय॒
सह॑मानाय
वे॒धसे᳚
ति॒ग्मायु॑धाय
भरता
शऋ॒णोतु॑
नः
॥
7.046.01
॥
स
हि
क्षये᳚ण॒
क्षम्य॑स्य॒
जन्म॑नः॒
साम्रा᳚ज्येन
दि॒व्यस्य॒
चेत॑ति
।
अव॒न्नव᳚न्ती॒रुप॑
नो॒
दुर॑श्चरानमी॒वो
रु॑द्र॒
जासु॑
नो
भव
॥
7.046.02
॥
याते᳚
दि॒द्युदव॑सृष्टा
दि॒वस्परि॑
क्ष्म॒या
चर॑ति॒
परि॒
सा
वृ॑णक्तु
नः
।
स॒हस्रं᳚
ते
स्वपिवात
भेष॒जा
मा
न॑स्तो॒केषु॒
तन॑येषु
रीरिषः
॥
7.046.03
॥
मानो᳚
वधी
रुद्र॒
मा
परा᳚
दा॒
मा
ते᳚
भूम॒
प्रसि॑तौ
हीळि॒तस्य॑
।
आनो᳚
भज
ब॒र्हिषि॑
जीवशं॒से
यू॒यं
पा᳚त
स्व॒स्तिभिः॒
सदा᳚
नः
॥
7.046.04
॥
अ॒स्मे
रु॒द्रा
मे॒हना॒
पर्व॑तासो
वृत्र॒हत्ये॒
भर॑हूतौ
स॒जोषाः᳚
।
यः
शंस॑ते
स्तुव॒ते
धायि॑
प॒ज्र
इन्द्र॑ज्येष्ठा
अ॒स्माँ
अ॑वन्तु
दे॒वाः
॥
8.063.12
॥
त्वम॑ग्ने
रु॒द्रो
असु॑रो
म॒हो
दि॒वस्त्वं
शर्धो॒
मारु॑तं
पृ॒क्ष
ई᳚शिषे
।
त्वं
वातै᳚ररु॒णैर्या᳚सि
शंग॒यस्त्वं
पू॒षा
वि॑ध॒तः
पा᳚सि॒
नु
त्मना᳚
॥
2.001.06
॥
आवो॒
राजा᳚नमध्व॒रस्य॑
रु॒द्रं
होता᳚रं
सत्य॒यजं॒
रोद॑स्योः
।
अ॒ग्निं
पु॒रा
त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से
कृणुध्वम्
॥
4.003.01
॥
तव॑
श्रि॒ये
म॒रुतो᳚
मर्जयन्त॒
रुद्र॒
यत्ते॒
जनि॑म॒
चारु॑
चि॒त्रम्
।
प॒दं
यद्विष्णो᳚रुप॒मं
नि॒धायि॒
तेन॑
पासि॒
गुह्यं॒
नाम॒
गोना᳚म्
॥
5.003.03
॥
भुव॑नस्य
पि॒तरं᳚
गी॒र्भिरा॒भी
रु॒द्रं
दिवा᳚
व॒र्धया᳚
रु॒द्रम॒क्तौ
।
बृ॒हन्त॑मृ॒ष्वम॒जरं᳚
सुषु॒म्नमृध॑ग्घुवेम
क॒विने᳚षि॒तासः॑
॥
6.049.10
॥
तमु॑
ष्टुहि॒
यः
स्वि॒षुः
सु॒धन्वा॒
यो
विश्व॑स्य॒
क्षय॑ति
भेष॒जस्य॑
।
यक्ष्वा᳚
म॒हे
सौ᳚मन॒साय॑
रु॒द्रं
नमो᳚भिर्दे॒वमसु॑रं
दुवस्य
॥
5.042.11
॥
अ॒यं
मे॒
हस्तो॒
भग॑वान॒यं
मे॒
भग॑वत्तरः
।
अ॒यं
मे᳚
वि॒श्वभे᳚षजो॒ऽयं
शि॒वाभि॑मर्शनः
॥
10.060.12
॥
ओं
शान्तिः॒
शान्तिः॒
शान्तिः॑
॥