Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

महान्यासम्

कलश प्रतिष्ठापन मन्त्राः ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ नाके॑ सुप॒र्ण मुप॒य-त्पत॑न्तग्ं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्ष-तत्वा हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तं-यँ॒मस्य॒ योनौ॑ शकु॒न-म्भु॑र॒ण्युम् आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् भवा॒ वाज॑स्य सङ्ग॒थे यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना-ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु 1 (अप उपस्पृश्य) इ॒दं-विँष्णु॒ र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् समू॑ढमस्य पाग्ं सु॒रे इन्द्रं॒-विँश्वा॑ अवीवृधन्-थ्समु॒द्रव्य॑चस॒-ङ्गिरः॑ र॒थीत॑मग्ं रथी॒नां-वाँजा॑ना॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् आपो॒ वा इ॒दंग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒माप॑-स्स॒म्राडापो॑ वि॒राडाप॑-स्स्व॒राडाप॒-श्छन्दा॒ग्॒श्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्याप॑-स्स॒त्यमाप॒-स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् 2 अ॒पः प्रण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति अ॒पः प्रण॑यति य॒ज्ञो वा आपः॑ य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति अ॒पः प्रण॑यति वज्रो॒ वा आपः॑ वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति अ॒पः प्रण॑यति आपो॒ वै र॑क्षो॒घ्नीः रक्ष॑सा॒मप॑हत्यै अ॒पः प्रण॑यति आपो॒ वै दे॒वाना᳚-म्प्रि॒य-न्धाम॑ दे॒वाना॑मे॒व प्रि॒य-न्धाम॑ प्र॒णीय॒ प्रच॑रति अ॒पः प्रण॑यति आपो॒ वै सर्वा॑ दे॒वताः᳚ दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति अ॒पः प्रण॑यति आपो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुचग्ं॑ शमयति दे॒वो वः॑ सवि॒तो-त्पु॑ना॒त्व-च्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ 3 कूर्चाग्रै र्राक्षसा-न्घोरान् छिन्धि कर्मविघातिनः त्वामर्पयामि कुम्भे-ऽस्मिन् साफल्य-ङ्कुरु कर्मणि वृक्षराज समुद्भूता-श्शाखायाः पल्लवत्व चः युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये नालिकेर-समुद्भूत त्रिनेत्र हर सम्मित शिखया दुरितं सर्व-म्पाप-म्पीडा-ञ्च मे नुद स॒ हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ त-म्भा॒ग-ञ्चि॒त्रमी॑महे (ऋग्वेद मन्त्रः) तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ओ-म्भूर्भुव॒स्सुव॒रोम् अस्मिन् कुम्भे वरुणमावाहयामि वरुणस्य इदमासनम् वरुणाय नमः सकलाराधनै-स्स्वर्चितम् रत्नसिंहासनं समर्पयामि पाद्यं समर्पयामि अर्घ्यं समर्पयामि आचमनीयं समर्पयामि मधुपर्क्कं समर्पयामि स्नानं समर्पयामि स्नानानन्तरं आचमनीयं समर्पयामि वस्त्रोत्तरीयं समर्पयामि उपवीतं समर्पयामि गन्धा-न्धारयामि अक्षतान् समर्पयामि पुष्पाणि समर्पयामि 1. ओं-वँरुणाय नमः 2. ओ-म्प्रचेतसे नमः 3. ओं सुरूपिणे नमः 4. ओं अपाम्पतये नमः 5. ओ-म्मकरवाहनाय नमः 6. जलाधिपतये नमः 7. ओ-म्पाशहस्ताय नमः 8. ओ-न्तीर्थराजाय नमः ओं-वँरुणाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि धूपं आघ्रापयामि दीप-न्दर्​शयामि धूपदीपानन्तरं आचमनीयं समर्पयामि ओ-म्भूर्भुवस्सुवः तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ योन॑ प्रचो॒दया᳚त् देव सवितः प्रसुवः सत्य-न्त्वर्तेन परिषिञ्चामि (रात्रौ - ऋत-न्त्वा सत्येन परिषिञ्चामि) ओं-वँरुणाय नमः अमृत-म्भवतु अमृतोपस्तरणमसि ओ-म्प्राणाय स्वाहा ओं अपानाय स्वाहा ओं-व्याँनाय स्वाहा ओं उदानाय स्वाहा ओं समानाय स्वाहा ओ-म्ब्रह्मणे स्वाहा कदलीफल-न्निवेदयामि मद्ध्येमद्ध्ये अमृतपानीयं समर्पयामि अमृतापिधानमसि नैवेद्यानन्तरं आचमनीयं समर्पयामि ताम्बूलं समर्पयामि कर्पूर नीराजन-म्प्रदर्​शयामि नीराजनानन्तरं आचमनीयं समर्पयामि मन्त्र पुष्पं समर्पयामि सुवर्ण पुष्पं समर्पयामि समस्तोपचारान् समर्पयामि 1. पञ्चाङ्ग रुद्रन्यासः अथातः पञ्चाङ्गरुद्राणा-न्न्यासपूर्वक-ञ्जप-होमा-र्चना-भिषेक-विधिं-व्याँख्यास्यामः अथातः पञ्चाङ्गरुद्राणा-न्न्यासपूर्वक-ञ्जप-होमा-र्चनाभिषेक-ङ्करिष्यमाणः हरिः ओं अथातः पञ्चाङ्ग रुद्राणाम् ओङ्कारमन्त्र सं​युँक्त-न्नित्य-न्ध्यायन्ति योगिनः कामद-म्मोक्षद-न्तस्मै ओङ्काराय नमो नमः नमस्ते देव देवेश नमस्ते परमेश्वर नमस्ते वृषभारूढ नकाराय नमो नमः ओ-न्नमो भगवते॑ रुद्रा॒य ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्नम् नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ या त॒ इषुः॑ शि॒वत॑मा शि॒व-म्ब॒भूव॑ ते॒ धनुः॑ शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ओ-न्नमो भगवते॑ रुद्रा॒य नं ओम् पूर्वाङ्ग रुद्राय॒ नमः (प्राच्यै दिश) महादेव-म्महात्मान-म्महापातकनाशनम् महापापहरं-वँन्दे मकाराय नमो नमः ओ-म्भूर्भुव॒स्सुवः॒ ओ-म्मम् ओ-न्निध॑नपतये॒ नमः निधनपतान्तिकाय॒ नमः ऊर्ध्वाय॒ नमः ऊर्ध्वलिङ्गाय॒ नमः हिरण्याय॒ नमः हिरण्यलिङ्गाय॒ नमः सुवर्णाय॒ नमः सुवर्णलिङ्गाय॒ नमः दिव्याय॒ नमः दिव्यलिङ्गाय॒ नमः भवायः॒ नमः भवलिङ्गाय॒ नमः शर्वाय॒ नमः शर्वलिङ्गाय॒ नमः शिवाय॒ नमः शिवलिङ्गाय॒ नमः ज्वलाय॒ नमः ज्वललिङ्गाय॒ नमः आत्माय॒ नमः आत्मलिङ्गाय॒ नमः परमाय॒ नमः परमलिङ्गाय॒ नमः एतत्सोमस्य॑ सूर्य॒स्य सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्र-म्पवि॒त्रम् ओ-न्नमो भगवते॑ रुद्रा॒य मं ओम् दक्षिणाङ्ग रुद्राय॒ नमः (दक्षिण दिश) शिवं शान्त-ञ्जगन्नाथं-लोँकानुग्रहकारणम् शिवमेक-म्परं-वँन्दे शिकाराय नमो नमः ओ-म्भूर्भुव॒स्सुवः॒ ओं शिम् अपै॑तुमृ॒त्युरमृत॑-न्न॒ आग॑न् वैवस्व॒तो नो॒ अ॑भय-ङ्कृणोतु प॒र्णं-वँन॒स्पतेरिवा॒भिनश्शीयताग्ं र॒यिस्सच॑ता-न्न॒श्शची॒पतिः॑ ओ-न्नमो भगवते॑ रुद्रा॒य शिं ओम् पश्चिमाङ्ग रुद्राय॒ नमः (पश्चिम दिश) वाहनं-वृँषभो यस्य वासुकी कण्ठभूषणम् वामे शक्तिधरं-वँन्दे वकाराय नमो नमः ओ-म्भूर्भुव॒स्सुवः॒ ओं-वाँम् प्राणाना-ङ्ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः तेनान्नेना᳚प्याय॒स्व ओ-न्नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ओ-न्नमो भगवते॑ रुद्रा॒य वां ओम् उत्तराङ्ग रुद्राय॒ नमः (उत्तर दिश) यत्र कुत्र स्थित-न्देवं सर्वव्यापिनमीश्वरम् यल्लिङ्ग-म्पूजयेन्नित्यं-यँकाराय नमो नमः ओ-म्भूर्भुव॒स्सुवः॒ ओं-यँम् यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ओ-न्नमो भगवते॑ रुद्रा॒य यं ओम् ऊर्ध्वाङ्ग रुद्राय॒ नमः (ऊर्ध्व दिश) 2. पञ्चमुख ध्यानम् ओ-न्नम् तत्पुरु॒षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचोदया᳚त् सं​वँर्ताग्नि तटित्प्रदीप्त कनक प्रस्पर्थि तेजोमयम् गम्भीरध्वनि सामवेदजनक-न्ताम्राधरं सुन्दरम् अर्धेन्दुद्युति लोलपिङ्गल जटाभारप्रबद्धोरगम् वन्दे सिद्ध सुरासुरेन्द्रनमित-म्पूर्व-म्मुखं शूलिनः ओ-न्नमो भगवते॑ रुद्रा॒य ओ-न्नम् पूर्व मुखाय॒ नमः अ॒घोरे᳚भ्यो-ऽथघो॒रे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः सर्वे᳚भ्यस्सर्व शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः कालाभ्रभ्रमराञ्जनद्युतिनिभं-व्याँवृत्त पिङ्गेक्षणम् कर्णोद्भासित भोगिमस्तक मणिप्रोद्गीर्ण दंष्ट्राङ्कुरम् सर्पप्रोत कपाल शुक्ति शकल व्याकीर्ण सच्छेखरम् वन्दे दक्षिणमीश्वरस्य कुटिल भ्रूभङ्ग रौद्र-म्मुखम् ओ-न्नमो भगवते॑ रुद्रा॒य ओ-म्मम् दक्षिण मुखाय॒ नमः स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् भ॒वो-द्भ॑वाय॒ नमः॑ प्रालेयाचलमिन्दुकुन्द धवल-ङ्गोक्षीरफेनप्रभम् भस्माभ्यक्तमनङ्ग देह दहन ज्वालावली लोचनम् ब्रह्मेन्द्रादि मरुद्गणैस्पुतिपदै रभ्यर्चितं-योँगिभिः वन्दे-ऽहं सकल-ङ्कलङ्करहितं स्थाणोर्मुख-म्पश्चिमम् ओ-न्नमो भगवते॑ रुद्रा॒य ओं शिम् पश्चिम मुखाय॒ नमः वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ गौर-ङ्कुङ्कुम पङ्किलं स्तिलकं-व्याँपाण्डु गण्डस्थलम् भ्रूविक्षेप कटाक्ष लसत्संसक्त कर्णोत्फलम् स्निग्ध-म्बिम्बफलाधर-म्प्रहसित-न्नीलालकाल-ङ्कृतम् वन्दे पूर्ण शशाङ्क मण्डलनिभं-वँक्त्रं हरस्योत्तरम् ओ-न्नमो भगवते॑ रुद्रा॒य ओं-वाँम् उत्तर मुखाय॒ नमः ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒ना॒-म्ब्रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् (कनिष्ठिकाभ्या-न्नमः) व्यक्ताव्यक्त गुणेतर-म्परतरं षट्त्रिंशतत्त्वात्मकम् तस्मादुत्तम तत्त्वमक्षरमिद-न्ध्येयं सदा योगिभिः ओङ्कारादि समस्त मन्त्रजनकं सूक्ष्मादि सूक्ष्म-म्परं शान्त-म्पञ्चममीश्वरस्य वदन-ङ्खं​व्याँप्ति तेजोमयम् ओ-न्नमो भगवते॑ रुद्रा॒य ओं-वाँम् ऊर्ध्व मुखाय॒ नमः दिङ्नमस्कारः पूर्वे पशुपतिः पातु दक्षिणे पातु शङ्करः पश्चिमे पातु विश्वेशः नीलकण्ठस्तदोत्तरे ईशान्या-म्पातु मे शर्वः आग्नेया-म्पार्वतीपतिः नैऋत्या-म्पातु मे रुद्रः वायव्या-न्नीललोहितः ऊर्ध्वे त्रिलोचनः पातु अधराया-म्महेश्वरः एताभ्यो दश दिग्भ्यस्तु सर्वतः पातु शङ्करः (ना रुद्रो रुद्रमर्चये᳚त् न्यासपूर्वक-ञ्जपहोमार्चना-ऽभिषेकविधि व्याख्यास्यामः ) 3. अङ्गन्यासः या ते॑ रुद्र शि॒वा त॒नूरघो॒रा-ऽपा॑पकाशिनी तया॑ स्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि शिखायै नमः 1 अ॒स्मि-न्म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑ तेषाग्ं॑ सहस्रयोज॒ने-ऽव॒धन्वा॑नि तन्मसि शिरसे नमः 2 स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् तेषाग्ं॑ सहस्र-योज॒ने-ऽव॒धन्वा॑नि तन्मसि ललाटाय नमः 3 ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थि-र्दुरोण॒सत् नृ॒षद्व॑र॒-सदृ॑त॒-सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् भ्रुवोर्मद्ध्याय नमः 4 त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता᳚त् नेत्राभ्या-न्नमः 5 नम॒-स्स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य नी॒प्या॑य कर्णाभ्या-न्नमः 6 मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते नासिकाभ्या-न्नमः 7 अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे नि॒शीर्य॑ श॒ल्याना॒-म्मुखा॑ शि॒वो नः॑ सु॒मना॑ भव मुखाय नमः 8 नील॑ग्रीवा श्शिति॒कण्ठा᳚-श्श॒र्वा अ॒धः, क्ष॑माच॒राः तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि कण्ठाय नमः 9.1 नील॑ग्रीवा-श्शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि उपकण्ठाय नमः 9.2 नम॑स्ते अ॒स्त्वायु॑धा॒या-ना॑तताय धृ॒ष्णवे᳚ उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒-न्तव॒ धन्व॑ने बाहुभ्या-न्नमः 10 या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ तया॒-ऽस्मान् वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज उपबाहुभ्या-न्नमः 11 परि॑णो रु॒द्रस्य॑ हे॒ति-र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः अव॑ स्थि॒रा म॒घव॑द्भ्यः तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय मणिबन्धाभ्या-न्नमः 12 ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि हस्ताभ्या-न्नमः 13 स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् भ॒वो-द्भ॑वाय॒ नमः॑ अगुंष्ठाभ्या-न्नमः 14.1 वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ तर्जनीभ्या-न्नमः 14.2 अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्र रू॑पेभ्यः मद्ध्यमाभ्या-न्नमः 14.3 तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् अनामिकाभ्या-न्नमः 14.4 ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒नां॒ रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् कनिष्ठिकाभ्या-न्नमः 14.5 नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यः हृदयाय नमः 15 नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑ पृष्ठाय नमः 16 नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमः॑ पार्​श्वाभ्या-न्नमः 17 विज्य॒-न्धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ जठराय नमः 18 हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम नाभ्यै नमः 19 मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑क॒-म्बिभ्र॒दाग॑हि कठ्यै नमः 20 ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि गुह्याय नमः 21 ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि अण्डाभ्या-न्नमः 22 स॒ शि॒रा जा॒तवे॑दा अ॒क्षर॑-म्पर॒म-म्प॒दम् वेदा॑ना॒ग्ं॒ शिर॑सि मा॒ता॒ आ॒यु॒ष्मन्त॑-ङ्करोतु॒ माम् अपानाय नमः 23 मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ऊरुभ्या-न्नमः 24 ए॒ष ते॑ रुद्रभा॒ग-स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्यव॑तत-धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः जानुभ्या-न्नमः 25 स॒ग्ं॒ सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हु-श॒र्ध्यू᳚र्ध्व ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒बाध॑मानः जङ्घाभ्या-न्नमः 26 विश्व॑-म्भू॒त-म्भुव॑न-ञ्चि॒त्र-म्ब॑हु॒धा जा॒त-ञ्जाय॑मान-ञ्च॒ यत् सर्वो॒ ह्ये॑ष रु॒द्र-स्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु गुल्फाभ्या-न्नमः 27 ये प॒था-म्प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि पादाभ्या-न्नमः 28 अद्ध्य॑वोच-दधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् अहीग्॑श्च॒ सर्वा᳚न् ज॒भं​यँ॒-न्थ्सर्वा᳚श्च यातु धा॒न्यः॑ कवचाय हुम् 29 नमो॑ बि॒ल्मिने॑ कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ श्रुतसे॒नाय॑ उपकवचाय हुम् 30 नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ अथो॒ ये अ॑स्य॒ सत्वा॑नो॒-ऽह-न्तेभ्यो॑-ऽकर॒न्नमः॑ तृतीय नेत्राय नमः 31 प्रमु॑ञ्च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒र्ज्याम् याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप अस्त्राय फट् 32 ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे तेषाग्ं॑॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि इति दिग्बन्धः 33 इति प्रथम न्यासः (शिखादि अस्त्रपर्यन्तं एकत्रिंशदङ्गन्यासः दिग्बन्ध सहितः प्रथमः) 4. दशाङ्ग न्यासः ओ-न्नमो भगवते॑ रुद्रा॒य इति नमस्कारा-न्न्यसे᳚त् ओं ओ-म्मूर्थ्ने नमः (मूर्ध्नि) ओ-न्न-न्नासिकायै नमः (नासिकाग्रः) ओ-म्मों-लँलटाय नमः (ललाटः) ओ-म्भ-म्मुखाय नमः (मुखाम्) ओ-ङ्ग-ङ्कण्ठाय नमः (कण्ठः) ओं-वंँ हृदयाय नमः (हृदयः) ओ-न्ते-न्दक्षिण हस्ताय नमः (दक्षिण हस्तः) ओं रुं-वाँम हस्ताय नमः (वाम हस्तः) ओ-न्द्रा-न्नाभ्यै नमः (नाभ्ही) ओं-यँ-म्पादाभ्या-न्नमः (पादौ) [अप उपस्पृश्य] इति द्वितीय न्यासः मूर्धादि पादान्त-न्दशाङ्ग न्यासः द्वितीयः 5. पञ्चाङ्ग न्यासः स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् भ॒वो-द्भ॑वाय॒ नमः॑ पादाभ्या-न्नमः 1 [अप उपस्पृश्य] वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒ स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ऊरुमध्यमाभ्या-न्नमः 2 अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः हृदयाय नमः 3 तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् मुखाय नमः 4 ईशान-स्सर्व॑विद्या॒ना॒-मीश्वरसर्व॑ भूता॒नां॒ ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् मूर्ध्ने नमः 5 5.1 हंस गायत्री अस्य श्री हंसगायत्री महामन्त्रस्य, अव्यक्त परब्रह्म ऋषिः, अनुष्टु-प्छन्दः, परमहंसो देवता हंसा-म्बीजम्, हंसीं शक्तिः हंसू-ङ्कीलकम् परमहंस प्रसाद सिद्ध्यर्थे जपे विनियोगः 1 करन्यासः हंसां अगुंष्ठाभ्या-न्नमः हंसी-न्तर्जनीभ्या-न्नमः हंसूं - मद्ध्यमाभ्या-न्नमः हंसैं - अनामिकाभ्या-न्नमः हंसौं - कनिष्ठिकाभ्या-न्नमः हंसः-करतल करपृष्ठाभ्या-न्नमः 2 हृदयादि न्यासः हंसां - हृदयाय नमः हंसीं - शिरसे स्वाहा हंसूं - शिखायै वषट् हंसैं - कवचाय हुम् हंसौं - नेत्रत्रयाय वौषट् हंसः - अस्त्राय फट् ओ-म्भूर्भुव॒स्सुव॒रोमिति दिग्बन्धः 3 ध्यानं गमागमस्थ-ङ्गमनादिशून्य-ञ्चि-द्रूपदीप-न्तिमिरापहारम् पश्यामि ते सर्वजनान्तरस्थ-न्नमामि हंस-म्परमात्मरूपम् 4 देहो देवालयः प्रोक्तो जीवो देव-स्सनातनः त्यजेदज्ञाननिर्माल्यं सो-ऽहम्भावेन पूजयेत् हं॒स हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि तन्नो॑ हंसः प्रचो॒दया᳚त् 5 (इति त्रिवार-ञ्जपित्वा) हंस हं॒सेति यो ब्रूया-धंसो (ब्रूयाद्धंसो) नाम सदाशिवः एव-न्न्यास विधि-ङ्कृत्वा तत-स्सम्पुटमारभेत् 6 5.2 दिक् सम्पुटन्यासः (सम्पुटीकरणम्) इन्द्रादी-न्दिक्षुविन्यस्य ओ-म्भूर्भुव॒स्सुवः॑ ओं ओम् त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ओ-न्नमो भगवते॑ रुद्रा॒य ओं ओम् पूर्वदिग्भागे इन्द्राय नमः 1 (तै.सं.1-6-12-50) ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्नम् त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडो-ऽव॑ यासिसीष्ठाः यजि॑ष्ठो॒ वह्नि॑तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ओ-न्नमो भगवते॑ रुद्रा॒य नं ओम् आग्नेयदिग्भागे अग्नये नमः 2 (तै.सं.2-5-12-72) ओ-म्भूर्भुव॒स्सुवः॑ ओ-म्मोम् सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ओ-न्नमो भगवते॑ रुद्रा॒य मों ओम् दक्षिणदिग्भागे यमाय नमः 3 (तै.ब्रा.3-1-2-11-23) ओ-म्भूर्भुव॒स्सुवः॑ ओ-म्भम् असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ओ-न्नमो भगवते॑ रुद्रा॒य भं ओम् निर्-ऋतिदिग्भागे निर्-ऋतये नमः 4 (तै.सं.4-2-5-21) ओ-म्भूर्भुव॒स्सुवः॑ ओ-ङ्गम् तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ओ-न्नमो भगवते॑ रुद्रा॒य गं ओम् पश्चिमदिग्भागे वरुणाय नमः 5 (तै.सं.2-1-11-65) ओ-म्भूर्भुव॒स्सुवः॑ ओं-वँम् नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ओ-न्नमो भगवते॑ रुद्रा॒य वं ओम् वायव्यदिग्भागे वायवे नमः 6 (तै.ब्रा.2-8-1-2) ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्तेम् व॒यग्ं सो॑म व्र॒ते तव॑ मन॑स्त॒नूषु॒ बिभ्र॑तः प्र॒जाव॑न्तो अशीमहि इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ओ-न्नमो भगवते॑ रुद्रा॒य तें ओम् उत्तरदिग्भागे कुबेराय नमः 7 (तै.ब्रा.2-4-2-7-18) ओ-म्भूर्भुव॒स्सुवः॑ ओं रुम् तमीशा᳚न॒-ञ्जग॑तस्त॒स्थुष॒स्पति᳚-न्धिय-ञ्जि॒न्वमव॑से हूमहे व॒यम् पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये᳚ ओ-न्नमो भगवते॑ रुद्रा॒य रुं ओम् ईशान्यदिग्भागे ईशानाय नमः 8 ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्द्राम् अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ य-श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मां अ॑वन्तु दे॒वाः ओ-न्नमो भगवते॑ रुद्रा॒य द्रां ओम् ऊर्ध्वदिग्भागे आकाशाय नमः 9 ओ-म्भूर्भुव॒स्सुवः॑ ओं-यँम् स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ ओ-न्नमो भगवते॑ रुद्रा॒य यं ओम् अधोदिग्भागे पृथिव्यै नमः 10 [अप उपस्पृश्य] 5.3 दशाङ्ग रौद्रीकरणम् ओ-म्भूर्भुव॒स्सुवः॑ ओं ओम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ओं ओम् पूर्वदिग्भागे ललाटस्थाने इन्द्राय नमः 1 (तै.सं.1-6-12-50) ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्नम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडो-ऽव॑ यासिसीष्ठाः यजि॑ष्ठो॒ वह्नि॑तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य नं ओम् आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः 2 (तै.सं.2-5-12-72) ओ-म्भूर्भुव॒स्सुवः॑ ओ-म्मोम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य मों ओम् दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः 3 (तै.ब्रा.3-1-2-11-23) ओ-म्भूर्भुव॒स्सुवः॑ ओ-म्भम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ असु॑न्वन्त॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य भं ओम् निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः 4 (तै.सं.4-2-5-21) ओ-म्भूर्भुव॒स्सुवः॑ ओ-ङ्गम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य गं ओम् पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः 5 (तै.सं.2-1-11-65) ओ-म्भूर्भुव॒स्सुवः॑ ओं-वँम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य वं ओम् वायव्यदिग्भागे नासिकास्थाने वायवे नमः 6 (तै.ब्रा.2-8-1-2) ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्तेम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ व॒यग्ं सो॑म व्र॒ते तव॑ मन॑स्त॒नूषु॒बिभ्र॑तः प्र॒जाव॑न्तो अशीमहि इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य तें ओम् उत्तरदिग्भागे जठरस्थाने कुबेराय नमः 7 (तै.ब्रा.2-4-2-7-18) ओ-म्भूर्भुव॒स्सुवः॑ ओं रुम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ तमीशा᳚न॒-ञ्जग॑तस्त॒स्थुष॒स्पति᳚-न्धिय-ञ्जि॒न्वमव॑से हूमहे व॒यम् पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये᳚ नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य रुं ओम् ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः 8 ओ-म्भूर्भुव॒स्सुवः॑ ओ-न्द्राम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ य-श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य द्रां ओम् ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः 9 ओ-म्भूर्भुव॒स्सुवः॑ ओं-यँम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य यं ओम् अधोदिग्भागे पादस्थाने पृथिव्यै नमः 10 [अप उपस्पृश्य] 5.4 षोडशाङ्ग रौद्रीकरणं ओ-म्भूर्भुव॒स्सुवः॑ ओं अम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य अं ओम् शिखास्थाने रुद्राय नमः 1 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं आम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य आं ओम् शिरस्थाने रुद्राय नमः 2 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं इम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ श्वा॒त्रो॑सि॒ प्रचे॑ता॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य इं ओम् मूर्ध्निस्थाने रुद्राय नमः 3 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ईम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ तु॒थो॑सि वि॒श्ववे॑दा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ईं ओम् ललाटस्थाने रुद्राय नमः 4 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं उम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ उ॒शिग॑सिक॒वी रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य उं ओम् नेत्रयोस्थाने रुद्राय नमः 5 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ऊम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अङ्घा॑रिरसि॒ बम्भा॑री॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ऊं ओम् कर्णयोस्थाने रुद्राय नमः 6 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ऋम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अ॒व॒स्युर॑सि॒ दुव॑स्वा॒-न्रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ऋं ओम् मुखस्थाने रुद्राय नमः 7 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ॠम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ शु॒न्ध्यूर॑सि मार्जा॒लीयो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ॠं ओम् कण्ठस्थाने रुद्राय नमः 8 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ऌम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ स॒म्राड॑सि कृ॒शानू॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ऌं ओम् बाह्वोस्थाने रुद्राय नमः 9 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ॡम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ प॒रि॒षद्यो॑सि॒ पव॑मानो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ॡं ओम् हृदिस्थाने रुद्राय नमः 10 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं एम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ प्र॒तक्वा॑-ऽसि॒ नभ॑स्वा॒-न्रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य एं ओम् नाभिस्थाने रुद्राय नमः 11 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ऐम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अस॑म्मृष्टोसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ऐं ओम् कटिस्थाने रुद्राय नमः 12 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं ओम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ऋ॒तधा॑मा-ऽसि॒ सुव॑र्ज्योती॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य ओं ओम् ऊरुस्थाने रुद्राय नमः 13 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं औम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य औं ओम् जानुस्थाने रुद्राय नमः 14 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं अम् नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अ॒जो᳚-ऽस्येक॑पा॒त् रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य अं ओम् जङ्घास्थाने रुद्राय नमः 15 (तै.सं.1-3-3-5) ओ-म्भूर्भुव॒स्सुवः॑ ओं अः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः नमः॑ श॒म्भवे॑ मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ शि॒वत॑राय च॒ ओ-न्नमो भगवते॑ रुद्रा॒य अः ओम् पादयो-स्स्थाने रुद्राय नमः 16 (तै.सं.1-3-3-5) [अप उपस्पृश्य] त्वगस्थिगतै-स्सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति ततो भूतप्रेत पिशाच बद्ध ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी हाकिनी शत्रु सर्प श्वापद तस्कर ज्वराद्युपद्रवजोपघाता-स्सर्वे ज्वलन्त-म्पश्यन्तु [कर्तस्य वचनम्] मां रक्षन्तु [पुरोहित वचनम्] यजमानग्ं रक्षन्तु इति तृतीयः न्यासः पादाति मूर्धान्त-म्पञ्चाङ्ग न्यासः 6. आत्मरक्षा 6.1 मनो ज्योतिः मनो॒ ज्योति॑ र्जुषता॒-माज्यं॒-विँच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ तास्सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ (गुह्याय नमः) 1 (तै. सं. 1.5.10.2) अबो᳚द्ध्य॒ग्नि-स्स॒मिधा॒ जना॑ना॒-म्प्रति॑धे॒नु-मि॑वाय॒ती मु॒षास᳚म् य॒ह्वा इ॑व॒ प्रव॒या-मु॒ज्जिहा॑नाः॒ प्रभा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ (नाभ्यै नमः) 2 (तै. सं. 4.4.4.2) अ॒ग्नि र्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् अ॒पाग्ं रेताग्ं॑सि जिन्वति (हृदयाय नमः) 3 (तै. सं. 1.5.5.1) मू॒र्धान॑-न्दि॒वो अ॑र॒ति-म्पृ॑थि॒व्या वै᳚श्वान॒र-मृ॒ताय॑ जा॒तम॒ग्निम् क॒विग्ं स॒म्राज॒-मति॑थि॒-ञ्जना॑ना-मा॒सन्ना पात्र॑-ञ्जनयन्त दे॒वाः (कण्ठाय नमः) 4 (तै. सं. 1.4.13.1) मर्मा॑णि ते॒ वर्म॑भिश्छा-दयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृ॑ते ना॒भिव॑स्ताम् उ॒रो र्वरी॑यो॒ वरि॑वस्ते अस्तु॒ ज॑यन्त॒-न्त्वा मनु॑मदन्तु दे॒वाः (मुखाय नमः) 5 (तै. सं. 4.6.4.5) जा॒तवे॑दा॒ यदि॑ वा पाव॒को-ऽसि॑ वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तो-ऽसि॑ श-म्प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् ऊर्ज॒-म्पुष्टि॒-न्दद॑ द॒भ्याव॑ वृथ्स्व (शिरसे नमः) 6 (तै. ब्रा. 3.10.5.1) 6.2 आत्मरक्षा (तै. ब्रा. 2.3.11.1 - तै. ब्रा. 2.3.11.4) ब्रह्मा᳚त्म॒न् वद॑सृजत तद॑कामयत समा॒त्मना॑ पद्ये॒येति॑ आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् दश॑हूतो-ऽभवत् दश॑हूतो ह॒वै नामै॒षः तं-वाँ ए॒त-न्दश॑हूत॒ग्ं॒ सन्त᳚म् दश॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः 1 आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् स॒प्तहू॑तो-ऽभवत् स॒प्तहू॑तो ह॒वै नामै॒षः तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् स॒प्तहो॒तेत्या च॑क्षते प॒रोक्षे॑ण प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः 2 आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् षड्ढू॑तो-ऽभवत् षड्ढू॑तो ह॒वै नामै॒षः तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् षड्ढो॒तेत्या च॑क्षते प॒रोक्षे॑ण प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः 3 आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑शृणोत् पञ्च॑हूतो-ऽभवत् पञ्च॑हूतो ह॒वै नामै॒षः तं-वाँ ए॒त-म्पञ्च॑हूत॒ग्ं॒ सन्त᳚म् पञ्च॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः 4 आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् चतु॑र्​हूतो-ऽभवत् चतु॑र्​हूतो ह॒वै नामै॒षः तं-वाँ ए॒त-ञ्चतु॑र्​हूत॒ग्ं॒ सन्त᳚म् चतु॑र्​हो॒तेत्या च॑क्षते प॒रोक्षे॑ण प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः 5 तम॑ब्रवीत् त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः त्वयै॑ नानाख्या॒तार॒ इति॑ तस्मा॒न्नुहै॑ना॒ग्॒-श्च॑तु र्​होतार॒ इत्याच॑क्षते तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः नेदि॑ष्ठो॒ हृद्य॑तमः नेदि॑ष्ठो॒ ब्रह्म॑णो भवति ए॒वं-वेँद॑ 6 (आत्मने॒ नमः॑) इति चतुर्थ न्यासः गुह्यादि मस्तकान्त षडङ्गन्यास-श्चतुर्थः 7. शिवसङ्कल्पाः (ऋग् वेद खिल काण्डं 4.11 9.1) येने॒द-म्भू॒त-म्भुव॑न-म्भवि॒ष्य-त्परि॑गृहीत-म॒मृते॑न॒ सर्व᳚म् येन॑ य॒ज्ञस्ता॑यते (य॒ज्ञस्त्रा॑यते) स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 1 येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ य-थ्स॒म्मित॒मनु॑ सं॒​यँन्ति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 2 येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वन्ति वि॒दथे॑षु॒ धीराः᳚ यद॑पू॒र्वं-यँ॒क्ष्मम॒न्तः प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 3 यत्प्र॒ज्ञान॑-मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑ र॒न्तर॒मृत॑-म्प्र॒जासु॑ यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 4 सु॒षा॒र॒थि-रश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्ने नी॒यते॑-ऽभी॒शु॑भि र्वा॒जिन॑ इव हृत्प्र॑तिष्ठं॒-यँद॑जिर॒-ञ्जवि॑ष्ठ॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 5 यस्मि॒न् ऋच॒स्साम॒-यजूग्ं॑षि॒ यस्मि॑-न्प्रतिष्ठि॒ता र॑थ॒नाभा॑ वि॒वाराः᳚ यस्मिग्ग्॑श्चि॒त्तग्ं सर्व॒मोत॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 6 यदत्र॑ ष॒ष्ठ-न्त्रि॒शतग्ं॑ सु॒वीरं॑-यँ॒ज्ञस्य॑ गु॒ह्य-न्नव॑ नाव॒माय्य᳚म् दश॒ पञ्च॑ त्रि॒ग्ं॒शतं॒-यँत्पर॑-ञ्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 7 यज्जाग्र॑तो दू॒रमु॒दैति॒ दैव॒-न्तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ दू॒र॒ग॒म्म-ञ्ज्योति॑षा॒-ञ्ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 8 येने॒दं-विँश्व॒-ञ्जग॑तो ब॒भूव॒ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः तदे॒वाग्नि-स्तम॑सो॒ ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 9 येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्ष-ञ्च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च येने॒द-ञ्जग॒-द्व्याप्त॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 10 ये म॑नो॒ हृद॑यं॒-येँ च॑ दे॒वा ये दि॒व्या आपो॒ ये सूर्य॑रश्मिः ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्त॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 11 अचि॑न्त्य॒-ञ्चा प्र॑मेय॒-ञ्च व्य॒क्ता-व्यक्त॑ पर॒-ञ्च य॑त् सूक्ष्मा᳚-थ्सूक्ष्मत॑र-ञ्ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 12 एका॑ द॒श श॒त-ञ्च॑ स॒हस्र॑-ञ्चा॒युत॑-ञ्च नि॒युत॑-ञ्च प्र॒युतं॒ चार्बु॑द-ञ्च॒ न्य॑र्बुद-ञ्च समु॒द्रश्च॒ मद्ध्य॒-ञ्चान्त॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 13 ये प॑ञ्च॒ पञ्च॑ दश श॒तग्ं स॒हस्र॑-म॒युत॒-न्न्य॑र्बुद-ञ्च ते अ॑ग्नि-चि॒त्येष्ट॑का॒स्तग्ं शरी॑र॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 14 वेदा॒हमे॒त-म्पु॑रुष-म्म॒हान्त॑-मादि॒त्य-व॑र्ण॒-न्तम॑सः॒ पर॑स्तात् यस्य॒ योनि॒-म्परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 15 यस्ये॒द-न्धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒त-न्त्वा॑ वृणत॒ इन्दु᳚म् स्था॒व॒र-ञ्जङ्ग॑मं॒-द्यौ॑राका॒श-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 16 परा᳚-त्प॒रत॑र-ञ्चै॒व॒ य॒-त्परा᳚श्चैव॒ यत्प॑रम् य॒त्परा᳚-त्पर॑तो ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 17 परा᳚-त्परत॑रो ब्र॒ह्मा॒ त॒त्परा᳚-त्पर॒तो ह॑रिः त॒त्परा᳚-त्पर॑तो ऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 18 या वे॑दा॒दिषु॑ गाय॒त्री॒ स॒र्व॒व्यापि॑ महे॒श्वरी ऋग् य॑जु-स्सामा-थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 19 यो वै॑ दे॒व-म्म॑हादे॒व॒-म्प्र॒णव॑-म्पर॒मेश्व॑रम् य-स्सर्वे॑ सर्व॑ वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 20 प्रय॑तः॒ प्रण॑वोङ्का॒र॒-म्प्र॒णव॑-म्पुरु॒षोत्त॑मम् ओकां॑र॒-म्प्रण॑वात्मा॒न॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 21 यो-ऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ प॒ठ्यते᳚ ह्यज॒ ईश्व॑रः अ॒कायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 22 गोभि॒ र्जुष्ट॒-न्धने॑न॒ ह्यायु॑षा च॒ बले॑न प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्ष॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 23 कैला॑स॒ शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये दे॒वता᳚स्तत्र॑ मोद॒न्ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 24 त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता॒-त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 25 वि॒श्वत॑-श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् सम्बा॒हुभ्यां॒-नम॑ति॒ सम्प॑तत्रै॒ र्द्यावा॑ पृथि॒वी ज॒नय॑-न्दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 26 च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्व शा᳚स्त्रम॒यं-विँ॑दुः इ॒ति॒हा॒स॒ पु॒रा॒णा॒ना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 27 मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 28 मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः वी॒रान्मानो॑ रुद्र भामि॒तोव॑धी र्​ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 29 ऋ॒तग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 30 क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से वो॒चेम॒ शन्त॑मग्ं हृ॒दे सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 31 ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 32 यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 33 आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒-यँस्य॑ दे॒वाः यस्य॑ छा॒या-ऽमृतं॒-यँस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 34 यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना-ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 35 ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ई॒श्वरीग्ं॑ सर्व॑ भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रिय॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 36 इदग्ं॑ शिव॑सङ्क॒ल्प॒ग्ं॒ स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः ते प॑र-म्मोक्ष॑-ङ्गमिष्य॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु 37 ओ-न्नमो भगवते॑ रुद्रा॒य शिवसङ्कल्पग्ं हृदयाय नमः॑ 7.2 पुरुष सूक्तं (तै. अर. 3.12.1 - तै. अर. 3.12.7) स॒हस्र॑शीर्​षा॒ पुरु॑षः स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठ-द्दशाङ्गु॒लम् पुरु॑ष ए॒वेदग्ं सर्व᳚म् य-द्भू॒तं-यँच्च॒ भव्य᳚म् उ॒तामृ॑त॒त्वस्येशा॑नः यदन्ने॑ना-ति॒रोह॑ति ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः 1 पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒-मृत॑-न्दि॒वि त्रि॒पादू॒र्ध्व उदै॒-त्पुरु॑षः पादो᳚ ऽस्ये॒हा-ऽऽभ॑वा॒-त्पुनः॑ ततो॒ विष्वं॒-व्यँ॑क्रामत् सा॒श॒ना॒न॒श॒ने अ॒भि तस्मा᳚-द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः जा॒तो अत्य॑रिच्यत प॒श्चा-द्भूमि॒मथो॑ पु॒रः 2 यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् ग्री॒ष्म इ॒द्ध्म श्श॒रद्ध॒विः स॒प्तास्या॑स-न्परि॒धयः॑ त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः दे॒वाय-द्य॒ज्ञ-न्त॑न्वा॒नाः अब॑ध्न॒-न्पुरु॑ष-म्प॒शुम् तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्न्॑ पुरु॑ष-ञ्जा॒तम॑ग्र॒तः 3 तेन॑ दे॒वा अय॑जन्त सा॒द्ध्या ऋष॑यश्च॒ ये तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ सम्भृ॑त-म्पृषदा॒ज्यम् प॒शूग्​स्ताग्​श्च॑क्रे वाय॒व्यान्॑ आ॒र॒ण्या-न्ग्रा॒म्याश्च॒ ये तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ ऋच॒-स्सामा॑नि जज्ञिरे छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् यजु॒स्तस्मा॑-दजायत 4 तस्मा॒दश्वा॑ अजायन्त ये के चो॑भ॒याद॑तः गावो॑ जज्ञिरे॒ तस्मा᳚त् तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ यत्पुरु॑षं॒-व्यँ॑दधुः क॒ति॒धा व्य॑कल्पयन्न् मुख॒-ङ्किम॑स्य॒ कौ बा॒हू कावू॒रू पादा॑वुच्येते ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् बा॒हू रा॑ज॒न्यः॑ कृ॒तः 5 ऊ॒रू तद॑स्य॒ य-द्वैश्यः॑ प॒द्भ्याग्ं शू॒द्रो अ॑जायत च॒न्द्रमा॒ मन॑सो जा॒तः चक्षो॒-स्सूर्यो॑ अजायत मुखा॒-दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णा-द्वा॒युर॑जायत नाभ्या॑ आसीद॒न्तरि॑क्षम् शी॒र्​ष्णो द्यौ-स्सम॑वर्तत प॒द्भ्या-म्भूमि॒ र्दिश॒-श्श्रोत्रा᳚त् तथा॑ लो॒काग्ं अ॑कल्पयन्न् 6 वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ नामा॑नि कृ॒त्वाभि॒वद॒न् यदास्ते᳚ धा॒ता पु॒रस्ता॒-द्यमु॑दाज॒हार॑ श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति नान्यः पन्था॒ अय॑नाय विद्यते य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ते ह॒ नाक॑-म्महि॒मान॑-स्सचन्ते यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः 7 ओ-न्नमो भगवते॑ रुद्रा॒य पुरुषसूक्तग्ं शिरसे स्वाहा 7.3 उत्तर नारायणं (तै. अर. 3.13.1 - तै. अर. 3.13.2) अ॒द्भ्य-स्सम्भू॑तः पृथि॒व्यै रसा᳚च्च वि॒श्वक॑र्मण॒-स्सम॑वर्त॒ताधि॑ तस्य॒ त्वष्टा॑ वि॒दध॑-द्रू॒पमे॑ति तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् आ॒दि॒त्यव॑र्ण॒-न्तम॑सः॒ पर॑स्तात् तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः अ॒जाय॑मानो बहु॒धा विजा॑यते तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ 1 यो दे॒वेभ्य॒ आत॑पति यो दे॒वाना᳚-म्पु॒रोहि॑तः पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः नमो॑ रु॒चाय॒ ब्राह्म॑ये रुच॑-म्ब्रा॒ह्म-ञ्ज॒नय॑न्तः दे॒वा अग्रे॒ तद॑ब्रुवन्न् यस्त्वै॒व-म्ब्रा᳚ह्म॒णो वि॒द्यात् तस्य॑ दे॒वा अस॒न् वशे᳚ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ अ॒हो॒रा॒त्रे पा॒र्​श्वे नक्ष॑त्राणि रू॒पम् अ॒श्विनौ॒ व्यात्त᳚म् इ॒ष्ट-म्म॑निषाण अ॒मु-म्म॑निषाण सर्व॑-म्मनिषाण 2 ओ-न्नमो भगवते॑ रुद्रा॒य उत्तर नारायणग्ं शिखायै वषट् 7.4 अप्रतिरथं (तै. सं. 4.6.4.1 - तै. सं. 4.6.4.5) आ॒शु-श्शिशा॑नो वृष॒भो यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑ण-श्चर्​षणी॒नाम् स॒॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑क वी॒रश्श॒तग्ं सेना॑ अजयथ्सा॒-कमिन्द्रः॑ स॒ङ्क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒-युँधो॑ नर॒ इषु॑ हस्तेन॒ वृष्णा᳚ इषु॑हस्तै॒-स्स नि॑ष॒ङ्गिभि॑ र्व॒शी सग्ग्​स्र॑ष्टा॒ सयुध॒ इन्द्रो॑ ग॒णेन॑ स॒ग्ं॒सृ॒ष्ट॒-जिथ्सो॑म॒पा बा॑हु श॒र्ध्यू᳚र्ध्व-ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒ बाध॑मानः 1 प्र॒भ॒ञ्ज-न्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् गो॒त्र॒भिद॑-ङ्गो॒विदं॒-वँज्र॑बाहु॒-ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा इ॒मग्ं स॑जाता॒ अनु॑वीर-यध्व॒मिन्द्रग्ं॑ सखा॒यो-ऽनु॒ सर॑भध्वम् ब॒ल॒वि॒ज्ञा॒य-स्स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् 2 अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो वी॒र श्श॒त-म॑न्यु॒रिन्द्रः॑ दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-ऽस्माक॒ग्ं॒ सेना॑ अवतु॒ प्रयु॒थ्सु इन्द्र॑ आसा-न्ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ दे॒व॒से॒नाना॑-मभिभ-ञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्रे᳚ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना᳚-म्म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् म॒हाम॑नसा-म्भुवनच्य॒वाना॒-ङ्घोषो॑ दे॒वाना॒-ञ्जय॑ता॒ मुद॑स्थात् अ॒स्माक॒-मिन्द्रः॒-समृ॑तेषु-ध्व॒जे-ष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यन्तु 3 अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु उद्ध॑र्​षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑ना-म्माम॒काना॒-म्महाग्ं॑सि उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒-न्युद्रथा॑ना॒-ञ्जय॑तामेतु॒ घोषः॑ उप॒प्रेत॒ जय॑ता नर-स्स्थि॒रा वः॑ सन्तु बा॒हवः॑ इन्द्रो॑ व॒-श्शर्म॑ यच्छत्वना-धृ॒ष्या यथा-ऽस॑थ अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता गच्छा॒मित्रा॒-न्प्रवि॑श॒ मैषा॒-ङ्कञ्च॒नोच्छि॑षः मर्मा॑णि ते॒ वर्म॑भिश्छा-दयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृते॑ना॒-भिव॑स्ताम् उ॒रो र्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒-न्त्वामनु॑ मदन्तु दे॒वाः यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु 4 ओ-न्नमो भगवते॑ रुद्रा॒य आशुश्शिशानो-ऽप्रतिरथ-ङ्कवचाय हुम् 7.5 प्रति पूरुषं (तै. सं. 1.8.6.1 - तै. सं. 1.8.6.2) (तै. ब्रा. 1.6.10.1 - तै. ब्रा. 1.6.10.5) प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒-न्निर्व॑प॒त्ये-क॒मति॑रिक्तं॒-याँव॑न्तो गृ॒ह्या᳚-स्स्मस्तेभ्यः॒ कम॑कर-म्पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्त-ञ्जु॑षस्वै॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रां-ऽबि॑कया॒ तञ्जु॑षस्व भेष॒ज-ङ्गवे-ऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्य॑-म्भेष॒जग्ं सुभे॑षजं॒-यँथा-ऽस॑ति 1 सु॒ग-म्मे॒षाय॑ मे॒ष्या॑ अवा᳚बं रु॒द्रम॑दि-म॒ह्यव॑ दे॒व-न्त्र्य॑बङ्कम् यथा॑ न॒-श्श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑ सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒यया᳚त् त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता᳚त् ए॒षते॑ रुद्र भा॒ग स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्यव॑तत धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः 2 प्र॒ति॒पू॒रु॒ष-मेक॑कपाला॒-न्निर्व॑पति जा॒ता ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते एक॒मति॑रिक्तम् ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते एक॑कपाला भवन्ति ए॒क॒धैव रु॒द्र-न्नि॒रव॑दयते नाभिघा॑रयति यद॑भिघा॒रये᳚त् अ॒न्त॒र॒व॒-चा॒रिणग्ं॑ रु॒द्र-ङ्कु॑र्यात् ए॒को॒ल्मु॒केन॑ यन्ति 3 तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् इ॒मा-न्दिशं॑-यँन्ति ए॒षा वै रु॒द्रस्य॒ दिक् स्वाया॑ मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्य-न्द्वि॒ष्यात् यमे॒व द्वेष्टि॑ तम॑स्मै प॒शु-न्निर्दि॑शति यदि॒ द्वि॒ष्यात् आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् 4 ग्रा॒म्या-न्प॒शून् हि॒नस्ति॑ नार॒ण्यान् च॒तु॒ष्प॒थे जु॑होति ए॒ष वा अ॑ग्नी॒ना-म्पड्बी॑शो॒ नाम॑ अ॒ग्नि॒वत्ये॒व जु॑होति म॒द्ध्य॒मेन॑ प॒र्णेन॑ जुहोति स्रुग्घ्ये॑षा अथो॒ खलु॑ अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते 5 एष॒ ते॑ रुद्रभा॒ग-स्स॒हस्वस्रां-ऽबि॑क॒येत्या॑ह श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ तया॒ वा ए॒ष हि॑नस्ति यग्ं हि॒नस्ति॑ तयै॒वैनग्ं॑ स॒ह श॑मयति भे॒ष॒जङ्गव॒ इत्या॑ह याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑ तेभ्यो॑ भेष॒ज-ङ्क॑रोति अवा᳚बं रु॒द्रम॑दि म॒हीत्या॑ह आ॒शिष॑मे॒वै-तामा शा᳚स्ते 6 त्र्य॑बङ्कं-यँजामह॒ इत्या॑ह मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता॒-दिति॒ वा वै तदा॑ह उत्कि॑रन्ति भग॑स्य लीफ्सन्ते मूते॑ कृ॒त्वा स॑जन्ति यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ ता॒दृगे॒व तत् ए॒ष ते॑ रुद्रभा॒ग इत्या॑ह नि॒रव॑त्यै अप्र॑तीक्ष॒-माय॑न्ति अ॒पः परि॑षिञ्चति रु॒द्रस्या॒न्त र्​हि॑त्यै प्रवा ए॒ते᳚-ऽस्मा-ल्लो॒का-च्च्य॑वन्ते ये त्र्य॑बङ्कै॒-श्चर॑न्ति आ॒दि॒त्य-ञ्च॒रु-म्पुन॒रेत्य॒ निर्व॑पति इ॒यं-वाँ अदि॑तिः अ॒स्यामे॒व प्रति॑तिष्ठन्ति 7 ओ-न्नमो भगवते॑ रुद्रा॒य प्रतिपूरुषं-विँभाडिति नेत्रत्रया॑य वौ॒षट् 7.6 शत रुद्रीयं (त्वमग्ने रुद्रो-ऽनुवाकः) तै. ब्रा. 3.11.2.1 - तै. ब्रा. 3.11.2.4 त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे त्वं-वाँतै॑ररु॒णै र्या॑सि शङ्ग॒यः त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मनाः᳚ देवा॑ दे॒वेषु॑ श्रयद्ध्वम् प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वम् द्विती॑या-स्तृ॒तीये॑षु श्रयद्ध्वम् तृती॑या-श्चतु॒र्थेषु॑ श्रयद्ध्वम् च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयद्ध्वम् प॒ञ्च॒मा-ष्ष॒ष्ठेषु॑ श्रयद्ध्वम् 1 ष॒ष्ठा-स्स॑प्त॒मेषु॑ श्रयद्ध्वम् स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम् अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयद्ध्वम् न॒व॒मा द॑श॒मेषु॑ श्रयद्ध्वम् द॒श॒मा ए॑काद॒शेषु॑ श्रयद्ध्वम् ए॒क॒द॒शा द्वा॑द॒शेषु॑ श्रयद्ध्वम् द्वा॒द॒शा-स्त्र॑योद॒शेषु॑ श्रयद्ध्वम् त्र॒यो॒द॒शा-श्च॑तु र्दे॒शेषु॑ श्रयद्ध्वम् च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयद्ध्वम् प॒ञ्च॒द॒शा-ष्षो॑ड॒शेषु॑ श्रयद्ध्वम् 2 षो॒ड॒शा-स्स॑प्तद॒शेषु॑ श्रयद्ध्वम् स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम् अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् द्वा॒वि॒ग्ं॒शा स्त्र॑योवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् त्र॒यो॒वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् च॒तु॒र्वि॒ग्ं॒शाः प॑ञ्चवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् प॒ञ्च॒वि॒ग्ं॒शा-ष्ष॑ड्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् 3 ष॒ड्वि॒ग्ं॒शा स्स॑प्तवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयद्ध्वम् अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ए॒का॒न्न॒त्रि॒ग्ं॒शा स्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् द्वा॒त्रि॒ग्ं॒शा त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् देवा᳚स्त्रिरेकादशा॒ स्त्रिस्त्र॑यस्त्रिग्ंशाः उत्त॑रे भवत उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः यत्का॑म इ॒द-ञ्जु॒होमि॑ तन्मे॒ समृ॑द्ध्यताम् व॒यग्ग्​स्या॑म॒ पत॑यो रयी॒णाम् भूर्भुव॒स्व॑स्स्वाहा᳚ 4 ओ-न्नमो भगवते॑ रुद्रा॒य त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् 7.7 पञ्चाङ्ग जपः अथ पञ्चाङ्गजपः स॒द्योजा॒त-म्प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् भ॒वोद्भ॑वाय॒ नमः॑ 1 वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ 2 अ॒घोरे᳚भ्यो-ऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः सर्वे᳚भ्य-स्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः 3 तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् 4 ईशान-स्सर्व॑विद्या॒ना॒मीश्वर-स्सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णो-ऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् 5 7.8 अष्टाङ्ग प्रणामः हि॒र॒ण्य॒ग॒र्भ-स्सम॑वर्त॒-ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम उरसा नमः 1 (तै. सं. 4.1.8.3) यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम शिरसा नमः 2 (तै. सं. 4.1.8.4) ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ ( दृष्या नमः 3 (तै. सं. 4.2.8.2.) म॒ही द्यौः पृ॑थि॒वी च॑ इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षताम् पि॒पृ॒तान्नो॒ भरी॑मभिः मनसा नमः 4 (तै. सं. 3.3.10.2) उप॑श्वासय पृथि॒वी-मु॒त द्या-म्पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑त॒-ञ्जग॑त् दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वै-र्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ वचसा नमः 5 (तै. सं. 4.6.6.6) अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒ण-मेनो॒ भूयि॑ष्ठान्ते॒ नम॑ उक्तिं-विँधेम पध्भ्या-न्नमः 6 (तै. सं. 1.1.14.3) या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा᳚ या ते॑ अग्ने-ऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्​षि॑ष्ठा गह्वरे॒ष्ठोग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्ं॒ स्वाहा᳚ कराभ्या-न्नमः 7 (तै. सं. 1.2.11.2) इ॒मं-यँ॑मप्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ सं​विँदा॒नः आत्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व कर्णाभ्या-न्नमः 8 (तै. सं. 2.6.12.6) उरसा शिरसा दृष्ट्या मन॑सा वचसा त॒था पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्या-म्प्रणामो-ऽष्टाङ्ग॑ उच्यते उमामहेश्वराभ्या-न्नमः