हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वेद आशीर्वचनम्
नवो॑नवो॑
भवति॒
जाय॑मा॒णोऽह्नां᳚
के॒तुरु॒-षसा॑मे॒त्यग्ने᳚
।
भा॒गं
दे॒वेभ्यो॒
वि
द॑धात्या॒यन्
प्र
चं॒द्रमा᳚-स्तिरति
दी॒र्घमायुः॑
॥
श॒तमा॑नं
भवति
श॒तायुः॒
पुरु॑षश्श॒तेंद्रिय॒
आयु॑ष्ये॒-वेंद्रि॒ये
प्रति॑-तिष्ठति
॥
सु॒मं॒ग॒लीरि॒यं-वँ॒धूरिमाग्ं
स॒मेत॒-पश्य॑त्
।
सौभा᳚ग्यम॒स्यै
द॒त्वा
यथास्तं॒-विँप॑रेतन
॥
इ॒मां
त्वमिं॑द्रमी-ढ्वस्सुपु॒त्रग्ं
सु॒भगां᳚
कुरु
।
दशा᳚स्यां
पु॒त्रानाधे॑हि॒
पति॑-मेकाद॒सं
कृ॑धि
॥
क्ष॒त्रस्य॒
राजा॒
वरु॑णोऽधिरा॒जः
।
नक्ष॑त्राणाग्ं
श॒तभि॑षग्-वसि॑ष्ठः
।
तौ
दे॒वेभ्यः॑
कृणुतो
दी॒र्घमायुः॑
॥
श॒ताय॒
स्वाहेत्या॑ह
।
आयु॒र्वै
स॒हस्र᳚म्
।
आयु॑रे॒वावरुं॑धे
।
सर्व॒स्मै॒
स्वाहेत्याह
।
रमे॒वाव॑रुंधे
॥
श्रेयो॒-वसी॑य
आ॒यध्संभू॑तं
भू॒तम्
।
चि॒त्रः
के॒तुः
प्र॒भाना॒भान्-थ्स॒भान्
।
ज्योति॑श्मा॒ग॒स्तेज॑-स्वाना॒तप॒ग॒स्त-प॑न्नभितपन्न्
॥
रो॒च॒नो
रोच॑मान-श्शो॒भ॒न-श्शोभ॒मानः
कल्याणः॑
॥
श्री॒-र्वर्च॑स्य-मायु॑ष्य॒-मारो᳚ग्य॒मावि॑धात्-शोभ॑मानं
मही॒यते᳚
।
धा॒न्यं
ध॒नं
प॒शुं
ब॒हुपुत्रला॒भं
श॒तसं᳚वँत्स॒रं
दी॒र्घमायुः॑
॥