Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

तैत्तिरीय उपनिषद् - भृगुवल्ली

(तै.आ.9-1-1) ओं स॒ह ना॑ववतु स॒ह नौ॑ भुनक्तु स॒ह वी॒र्य॑-ङ्करवावहै ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ओं शान्ति॒-श्शान्ति॒-श्शान्तिः॑ भृगु॒र्वै वा॑रु॒णिः वरु॑ण॒-म्पित॑र॒मुप॑ससार अधी॑हि भगवो॒ ब्रह्मेति॑ तस्मा॑ ए॒तत्प्रो॑वाच अन्न॑-म्प्रा॒ण-ञ्चक्षु॒श्श्रोत्र॒-म्मनो॒ वाच॒मिति॑ तग्ं हो॑वाच यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते येन॒ जाता॑नि॒ जीव॑न्ति यत्प्रय॑न्त्य॒भिसं​विँ॑शन्ति तद्विजि॑ज्ञासस्व तद्ब्रह्मेति॑ तपो॑-ऽतप्यत तप॑स्त॒प्त्वा 1 इति प्रथमो-ऽनुवाकः अन्न॒-म्ब्रह्मेति॒ व्य॑जानात् अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भुता॑नि॒ जाय॑न्ते अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति अन्न॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ तद्वि॒ज्ञाय॑ पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार अधी॑हि भगवो॒ ब्रह्मेति॑ तग्ं हो॑वाच तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व तपो॒ ब्रह्मेति॑ तपो॑-ऽतप्यत तप॑स्त॒प्त्वा 1 इति द्वितीयो-ऽनुवाकः प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति प्रा॒ण-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ तद्वि॒ज्ञाय॑ पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार अधी॑हि भगवो॒ ब्रह्मेति॑ तग्ं हो॑वाच तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व तपो॒ ब्रह्मेति॑ तपो॑-ऽतप्यत तप॑स्त॒प्त्वा 1 इति तृतीयो-ऽनुवाकः मनो॒ ब्रह्मेति॒ व्य॑जानात् मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते मन॑सा॒ जाता॑नि॒ जीव॑न्ति मनः॒ प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ तद्वि॒ज्ञाय॑ पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार अधी॑हि भगवो॒ ब्रह्मेति॑ तग्ं हो॑वाच तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व तपो॒ ब्रह्मेति॑ तपो॑-ऽतप्यत तप॑स्त॒प्त्वा 1 इति चतुर्थो-ऽनुवाकः वि॒ज्ञान॒-म्ब्रह्मेति॒ व्य॑जानात् वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति वि॒ज्ञान॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ तद्वि॒ज्ञाय॑ पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार अधी॑हि भगवो॒ ब्रह्मेति॑ तग्ं हो॑वाच तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व तपो॒ ब्रह्मेति॑ तपो॑-ऽतप्यत तप॑स्त॒प्त्वा 1 इति पञ्चमो-ऽनुवाकः आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति आ॒न॒न्द-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ए॒वं-वेँद॒ प्रति॑तिष्ठति अन्न॑वानन्ना॒दो भ॑वति म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ म॒हान्की॒र्त्या 1 इति षष्ठो-ऽनुवाकः अन्न॒-न्न नि॑न्द्यात् तद्व्र॒तम् प्रा॒णो वा अन्नम्᳚ शरी॑रमन्ना॒दम् प्रा॒णे शरी॑र॒-म्प्रति॑ष्ठितम् शरी॑रे प्रा॒णः प्रति॑ष्ठितः तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति अन्न॑वानन्ना॒दो भ॑वति म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ म॒हान्की॒र्त्या 1 इति सप्तमो-ऽनुवाकः अन्न॒-न्न परि॑चक्षीत तद्व्र॒तम् आपो॒ वा अन्नम्᳚ ज्योति॑रन्ना॒दम् अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति अन्न॑वानन्ना॒दो भ॑वति महा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ म॒हान्की॒र्त्या 1 इत्यष्टमो-ऽनुवाकः अन्न॑-म्ब॒हु कु॑र्वीत तद्व्र॒तम् पृ॒थि॒वी वा अन्नम्᳚ आ॒का॒शो᳚-ऽन्ना॒दः पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति अन्न॑वानन्ना॒दो भ॑वति म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ म॒हान्की॒र्त्या 1 इति नवमो-ऽनुवाकः कञ्चन वसतौ प्रत्या॑चक्षी॒त तद्व्र॒तम् तस्माद्यया कया विधया बह्व॑न्न-म्प्रा॒प्नुयात् अराध्यस्मा अन्नमि॑त्याच॒क्षते एतद्वै मुखतो᳚-ऽन्नग्ं रा॒द्धम् मुखतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते एतद्वै मध्यतो᳚-ऽन्नग्ं रा॒द्धम् मध्यतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते एतद्वा अन्ततो᳚-ऽन्नग्ं रा॒द्धम् अन्ततो-ऽस्मा अ॑न्नग्ं रा॒ध्यते 1 ए॑वं-वेँ॒द क्षेम इ॑ति वा॒चि योगक्षेम इति प्रा॑णापा॒नयोः कर्मे॑ति ह॒स्तयोः गतिरि॑ति पा॒दयोः विमुक्तिरि॑ति पा॒यौ इति मानुषी᳚स्समा॒ज्ञाः अथ दै॒वीः तृप्तिरि॑ति वृ॒ष्टौ बलमि॑ति वि॒द्युति 2 यश इ॑ति प॒शुषु ज्योतिरिति न॑क्षत्रे॒षु प्रजातिरमृतमानन्द इ॑त्युप॒स्थे सर्वमि॑त्याका॒शे तत्प्रतिष्ठेत्यु॑पासी॒त प्रतिष्ठा॑वान्भ॒वति तन्मह इत्यु॑पासी॒त म॑हान्भ॒वति तन्मन इत्यु॑पासी॒त मान॑वान्भ॒वति 3 तन्नम इत्यु॑पासी॒त नम्यन्ते᳚-ऽस्मै का॒माः तद्ब्रह्मेत्यु॑पासी॒त ब्रह्म॑वान्भ॒वति तद्ब्रह्मणः परिमर इत्यु॑पासी॒त पर्येण-म्म्रियन्ते द्विषन्त॑स्सप॒त्नाः परि ये᳚-ऽप्रिया᳚ भ्रातृ॒व्याः यश्चा॑य-म्पु॒रुषे यश्चासा॑वादि॒त्ये एकः॑ 4 य॑ एवं॒-विँत् अस्मां​ल्लोँ॑कात्प्रे॒त्य एतमन्नमय-मात्मानमुप॑सङ्क्र॒म्य एत-म्प्राणमय-मात्मानमुप॑सङ्क्र॒म्य एत-म्मनोमय-मात्मानमुप॑सङ्क्र॒म्य एतं-विँज्ञानमय-मात्मानमुप॑सङ्क्र॒म्य एतमानन्दमय-मात्मानमुप॑सङ्क्र॒म्य इमां​ल्लोँकान्कामान्नी -कामरूप्य॑नु-स॒ञ्चरन्न् एतथ्साम गा॑यन्ना॒स्ते हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ 5 अ॒हमन्न-म॒हमन्न-म॒हमन्नम् अ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दः अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒यि॒ यो मा ददाति इदेव मा(3) वाः॒ अ॒हमन्न॒-मन्न॑-म॒दन्त॒मा(3) द्मि॒ अहं॒-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् सुव॒र्न ज्योतीः᳚ ए॒वं-वेँद॑ इत्यु॑प॒निष॑त् 6 इति दशमो-ऽनुवाकः ओं स॒ह ना॑ववतु स॒ह नौ॑ भुनक्तु स॒ह वी॒र्य॑-ङ्करवावहै ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ओं शान्ति॒-श्शान्ति॒-श्शान्तिः॑ हरिः॑ ओम् श्री कृष्णार्पणमस्तु