हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
तैत्तिरीय उपनिषद् - भृगुवल्ली
(तै.आ.9-1-1)
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्य॑-ङ्करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥
भृगु॒र्वै
वा॑रु॒णिः
।
वरु॑ण॒-म्पित॑र॒मुप॑ससार
।
अधी॑हि
भगवो॒
ब्रह्मेति॑
।
तस्मा॑
ए॒तत्प्रो॑वाच
।
अन्न॑-म्प्रा॒ण-ञ्चक्षु॒श्श्रोत्र॒-म्मनो॒
वाच॒मिति॑
।
तग्ं
हो॑वाच
।
यतो॒
वा
इ॒मानि॒
भूता॑नि॒
जाय॑न्ते
।
येन॒
जाता॑नि॒
जीव॑न्ति
।
यत्प्रय॑न्त्य॒भिसंविँ॑शन्ति
।
तद्विजि॑ज्ञासस्व
।
तद्ब्रह्मेति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
॥
1
॥
इति
प्रथमो-ऽनुवाकः
॥
अन्न॒-म्ब्रह्मेति॒
व्य॑जानात्
।
अ॒न्नाद्ध्ये॑व
खल्वि॒मानि॒
भुता॑नि॒
जाय॑न्ते
।
अन्ने॑न॒
जाता॑नि॒
जीव॑न्ति
।
अन्न॒-म्प्रय॑न्त्य॒भिसंविँ॑श॒न्तीति॑
।
तद्वि॒ज्ञाय॑
।
पुन॑रे॒व
वरु॑ण॒-म्पित॑र॒मुप॑ससार
।
अधी॑हि
भगवो॒
ब्रह्मेति॑
।
तग्ं
हो॑वाच
।
तप॑सा॒
ब्रह्म॒
विजि॑ज्ञासस्व
।
तपो॒
ब्रह्मेति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
॥
1
॥
इति
द्वितीयो-ऽनुवाकः
॥
प्रा॒णो
ब्र॒ह्मेति॒
व्य॑जानात्
।
प्रा॒णाद्ध्ये॑व
खल्वि॒मानि॒
भूता॑नि॒
जाय॑न्ते
।
प्रा॒णेन॒
जाता॑नि॒
जीव॑न्ति
।
प्रा॒ण-म्प्रय॑न्त्य॒भिसंविँ॑श॒न्तीति॑
।
तद्वि॒ज्ञाय॑
।
पुन॑रे॒व
वरु॑ण॒-म्पित॑र॒मुप॑ससार
।
अधी॑हि
भगवो॒
ब्रह्मेति॑
।
तग्ं
हो॑वाच
।
तप॑सा॒
ब्रह्म॒
विजि॑ज्ञासस्व
।
तपो॒
ब्रह्मेति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
॥
1
॥
इति
तृतीयो-ऽनुवाकः
॥
मनो॒
ब्रह्मेति॒
व्य॑जानात्
।
मन॑सो॒
ह्ये॑व
खल्वि॒मानि॒
भूता॑नि॒
जाय॑न्ते
।
मन॑सा॒
जाता॑नि॒
जीव॑न्ति
।
मनः॒
प्रय॑न्त्य॒भिसंविँ॑श॒न्तीति॑
।
तद्वि॒ज्ञाय॑
।
पुन॑रे॒व
वरु॑ण॒-म्पित॑र॒मुप॑ससार
।
अधी॑हि
भगवो॒
ब्रह्मेति॑
।
तग्ं
हो॑वाच
।
तप॑सा॒
ब्रह्म॒
विजि॑ज्ञासस्व
।
तपो॒
ब्रह्मेति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
॥
1
॥
इति
चतुर्थो-ऽनुवाकः
॥
वि॒ज्ञान॒-म्ब्रह्मेति॒
व्य॑जानात्
।
वि॒ज्ञाना॒द्ध्ये॑व
खल्वि॒मानि॒
भूता॑नि॒
जाय॑न्ते
।
वि॒ज्ञाने॑न॒
जाता॑नि॒
जीव॑न्ति
।
वि॒ज्ञान॒-म्प्रय॑न्त्य॒भिसंविँ॑श॒न्तीति॑
।
तद्वि॒ज्ञाय॑
।
पुन॑रे॒व
वरु॑ण॒-म्पित॑र॒मुप॑ससार
।
अधी॑हि
भगवो॒
ब्रह्मेति॑
।
तग्ं
हो॑वाच
।
तप॑सा॒
ब्रह्म॒
विजि॑ज्ञासस्व
।
तपो॒
ब्रह्मेति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
॥
1
॥
इति
पञ्चमो-ऽनुवाकः
॥
आ॒न॒न्दो
ब्र॒ह्मेति॒
व्य॑जानात्
।
आ॒नन्दा॒द्ध्ये॑व
खल्वि॒मानि॒
भूता॑नि॒
जाय॑न्ते
।
आ॒न॒न्देन॒
जाता॑नि॒
जीव॑न्ति
।
आ॒न॒न्द-म्प्रय॑न्त्य॒भिसंविँ॑श॒न्तीति॑
।
सैषा
भा᳚र्ग॒वी
वा॑रु॒णी
वि॒द्या
।
प॒र॒मे
व्यो॑म॒न्प्रति॑ष्ठिता
।
स
य
ए॒वं-वेँद॒
प्रति॑तिष्ठति
।
अन्न॑वानन्ना॒दो
भ॑वति
।
म॒हान्भ॑वति
प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
।
म॒हान्की॒र्त्या
॥
1
॥
इति
षष्ठो-ऽनुवाकः
॥
अन्न॒-न्न
नि॑न्द्यात्
।
तद्व्र॒तम्
।
प्रा॒णो
वा
अन्नम्᳚
।
शरी॑रमन्ना॒दम्
।
प्रा॒णे
शरी॑र॒-म्प्रति॑ष्ठितम्
।
शरी॑रे
प्रा॒णः
प्रति॑ष्ठितः
।
तदे॒तदन्न॒मन्ने॒
प्रति॑ष्ठितम्
।
स
य
ए॒तदन्न॒मन्ने॒
प्रति॑ष्ठितं॒-वेँद॒
प्रति॑तिष्ठति
।
अन्न॑वानन्ना॒दो
भ॑वति
।
म॒हान्भ॑वति
प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
।
म॒हान्की॒र्त्या
॥
1
॥
इति
सप्तमो-ऽनुवाकः
॥
अन्न॒-न्न
परि॑चक्षीत
।
तद्व्र॒तम्
।
आपो॒
वा
अन्नम्᳚
।
ज्योति॑रन्ना॒दम्
।
अ॒प्सु
ज्योतिः॒
प्रति॑ष्ठितम्
।
ज्योति॒ष्यापः॒
प्रति॑ष्ठिताः
।
तदे॒तदन्न॒मन्ने॒
प्रति॑ष्ठितम्
।
स
य
ए॒तदन्न॒मन्ने॒
प्रति॑ष्ठितं॒-वेँद॒
प्रति॑तिष्ठति
।
अन्न॑वानन्ना॒दो
भ॑वति
।
महा॒न्भ॑वति
प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
।
म॒हान्की॒र्त्या
॥
1
॥
इत्यष्टमो-ऽनुवाकः
॥
अन्न॑-म्ब॒हु
कु॑र्वीत
।
तद्व्र॒तम्
।
पृ॒थि॒वी
वा
अन्नम्᳚
।
आ॒का॒शो᳚-ऽन्ना॒दः
।
पृ॒थि॒व्यामा॑का॒शः
प्रति॑ष्ठितः
।
आ॒का॒शे
पृ॑थि॒वी
प्रति॑ष्ठिता
।
तदे॒तदन्न॒मन्ने॒
प्रति॑ष्ठितम्
।
स
य
ए॒तदन्न॒मन्ने॒
प्रति॑ष्ठितं॒-वेँद॒
प्रति॑तिष्ठति
।
अन्न॑वानन्ना॒दो
भ॑वति
।
म॒हान्भ॑वति
प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
।
म॒हान्की॒र्त्या
॥
1
॥
इति
नवमो-ऽनुवाकः
॥
न
कञ्चन
वसतौ
प्रत्या॑चक्षी॒त
।
तद्व्र॒तम्
।
तस्माद्यया
कया
च
विधया
बह्व॑न्न-म्प्रा॒प्नुयात्
।
अराध्यस्मा
अन्नमि॑त्याच॒क्षते
।
एतद्वै
मुखतो᳚-ऽन्नग्ं
रा॒द्धम्
।
मुखतो-ऽस्मा
अ॑न्नग्ं
रा॒ध्यते
।
एतद्वै
मध्यतो᳚-ऽन्नग्ं
रा॒द्धम्
।
मध्यतो-ऽस्मा
अ॑न्नग्ं
रा॒ध्यते
।
एतद्वा
अन्ततो᳚-ऽन्नग्ं
रा॒द्धम्
।
अन्ततो-ऽस्मा
अ॑न्नग्ं
रा॒ध्यते
॥
1
॥
य
ए॑वं-वेँ॒द
।
क्षेम
इ॑ति
वा॒चि
।
योगक्षेम
इति
प्रा॑णापा॒नयोः
।
कर्मे॑ति
ह॒स्तयोः
।
गतिरि॑ति
पा॒दयोः
।
विमुक्तिरि॑ति
पा॒यौ
।
इति
मानुषी᳚स्समा॒ज्ञाः
।
अथ
दै॒वीः
।
तृप्तिरि॑ति
वृ॒ष्टौ
।
बलमि॑ति
वि॒द्युति
॥
2
॥
यश
इ॑ति
प॒शुषु
।
ज्योतिरिति
न॑क्षत्रे॒षु
।
प्रजातिरमृतमानन्द
इ॑त्युप॒स्थे
।
सर्वमि॑त्याका॒शे
।
तत्प्रतिष्ठेत्यु॑पासी॒त
।
प्रतिष्ठा॑वान्भ॒वति
।
तन्मह
इत्यु॑पासी॒त
।
म॑हान्भ॒वति
।
तन्मन
इत्यु॑पासी॒त
।
मान॑वान्भ॒वति
॥
3
॥
तन्नम
इत्यु॑पासी॒त
।
नम्यन्ते᳚-ऽस्मै
का॒माः
।
तद्ब्रह्मेत्यु॑पासी॒त
।
ब्रह्म॑वान्भ॒वति
।
तद्ब्रह्मणः
परिमर
इत्यु॑पासी॒त
।
पर्येण-म्म्रियन्ते
द्विषन्त॑स्सप॒त्नाः
।
परि
ये᳚-ऽप्रिया᳚
भ्रातृ॒व्याः
।
स
यश्चा॑य-म्पु॒रुषे
।
यश्चासा॑वादि॒त्ये
।
स
एकः॑
॥
4
॥
स
य॑
एवं॒-विँत्
।
अस्मांल्लोँ॑कात्प्रे॒त्य
।
एतमन्नमय-मात्मानमुप॑सङ्क्र॒म्य
।
एत-म्प्राणमय-मात्मानमुप॑सङ्क्र॒म्य
।
एत-म्मनोमय-मात्मानमुप॑सङ्क्र॒म्य
।
एतं-विँज्ञानमय-मात्मानमुप॑सङ्क्र॒म्य
।
एतमानन्दमय-मात्मानमुप॑सङ्क्र॒म्य
।
इमांल्लोँकान्कामान्नी
-कामरूप्य॑नु-स॒ञ्चरन्न्
।
एतथ्साम
गा॑यन्ना॒स्ते
।
हा(3)
वु॒
हा(3)
वु॒
हा(3)
वु॑
॥
5
॥
अ॒हमन्न-म॒हमन्न-म॒हमन्नम्
।
अ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दः
।
अ॒हग्ग्
श्लोक॒कृद॒हग्ग्
श्लोक॒कृद॒हग्ग्
श्लोक॒कृत्
।
अ॒हमस्मि
प्रथमजा
ऋता(3)
स्य॒
।
पूर्व-न्देवेभ्यो
अमृतस्य
ना(3)
भा॒यि॒
।
यो
मा
ददाति
स
इदेव
मा(3)
वाः॒
।
अ॒हमन्न॒-मन्न॑-म॒दन्त॒मा(3)
द्मि॒
।
अहं॒-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम्
।
सुव॒र्न
ज्योतीः᳚
।
य
ए॒वं-वेँद॑
।
इत्यु॑प॒निष॑त्
॥
6
॥
इति
दशमो-ऽनुवाकः
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्य॑-ङ्करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥ ॥
हरिः॑
ओम्
॥ ॥
श्री
कृष्णार्पणमस्तु
॥