हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ओषधी सूक्तम् - ऋग्वेद
या
ओष॑धी॒:
पूर्वा॑
जा॒ता
दे॒वेभ्य॑स्त्रियु॒गं
पु॒रा
।
मनै॒
नु
ब॒भ्रूणा॑म॒हं
श॒तं
धामा॑नि
स॒प्त
च॑
॥
1
श॒तं
वो॑
अंब॒
धामा॑नि
स॒हस्र॑मु॒त
वो॒
रुह॑:
।
अधा॑
शतक्रत्वो
यू॒यमि॒मं
मे॑
अग॒दं
कृ॑त
॥
2
ओष॑धी॒:
प्रति॑
मोदध्वं॒
पुष्प॑वतीः
प्र॒सूव॑रीः
।
अश्वा॑
इव
स॒जित्व॑रीर्वी॒रुध॑:
पारयि॒ष्ण्व॑:
॥
3
ओष॑धी॒रिति॑
मातर॒स्तद्वो॑
देवी॒रुप॑
ब्रुवे
।
स॒नेय॒मश्वं॒
गां
वास॑
आ॒त्मानं॒
तव॑
पूरुष
॥
4
अ॒श्व॒त्थे
वो॑
नि॒षद॑नं
प॒र्णे
वो॑
वस॒तिष्कृ॒ता
।
गो॒भाज॒
इत्किला॑सथ॒
यत्स॒नव॑थ॒
पूरु॑षम्
॥
5
यत्रौष॑धीः
स॒मग्म॑त॒
राजा॑न॒:
समि॑ताविव
।
विप्र॒:
स
उ॑च्यते
भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः
॥
6
अ॒श्वा॒व॒तीं
सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम्
।
आवि॑त्सि॒
सर्वा॒
ओष॑धीर॒स्मा
अ॑रि॒ष्टता॑तये
॥
7
उच्छुष्मा॒
ओष॑धीनां॒
गावो॑
गो॒ष्ठादि॑वेरते
।
धनं॑
सनि॒ष्यन्ती॑नामा॒त्मानं॒
तव॑
पूरुष
॥
8
इष्कृ॑ति॒र्नाम॑
वो
मा॒ताथो॑
यू॒यं
स्थ॒
निष्कृ॑तीः
।
सी॒राः
प॑त॒त्रिणी॑:
स्थन॒
यदा॒मय॑ति॒
निष्कृ॑थ
॥
9
अति॒
विश्वा॑:
परि॒ष्ठाः
स्ते॒न
इ॑व
व्र॒जम॑क्रमुः
।
ओष॑धी॒:
प्राचु॑च्यवु॒र्यत्किं
च॑
त॒न्वो॒3॒॑
रप॑:
॥
10
यदि॒मा
वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑
आद॒धे
।
आ॒त्मा
यक्ष्म॑स्य
नश्यति
पु॒रा
जी॑व॒गृभो॑
यथा
॥
11
यस्यौ॑षधीः
प्र॒सर्प॒थाङ्ग॑मङ्गं॒
परु॑ष्परुः
।
ततो॒
यक्ष्मं॒
वि
बा॑धध्व
उ॒ग्रो
म॑ध्यम॒शीरि॑व
॥
12
सा॒कं
य॑क्ष्म॒
प्र
प॑त॒
चाषे॑ण
किकिदी॒विना॑
।
सा॒कं
वात॑स्य॒
ध्राज्या॑
सा॒कं
न॑श्य
नि॒हाक॑या
॥
13
अ॒न्या
वो॑
अ॒न्याम॑वत्व॒न्यान्यस्या॒
उपा॑वत
।
ताः
सर्वा॑:
संविदा॒ना
इ॒दं
मे॒
प्राव॑ता॒
वच॑:
॥
14
याः
फ॒लिनी॒र्या
अ॑फ॒ला
अ॑पु॒ष्पा
याश्च॑
पु॒ष्पिणी॑:
।
बृह॒स्पति॑प्रसूता॒स्ता
नो॑
मुञ्च॒न्त्वंह॑सः
॥
15
मु॒ञ्चन्तु॑
मा
शप॒थ्या॒॒3॑दथो॑
वरु॒ण्या॑दु॒त
।
अथो॑
य॒मस्य॒
पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात्
॥
16
अ॒व॒पत॑न्तीरवदन्
दि॒व
ओष॑धय॒स्परि॑
।
यं
जी॒वम॒श्नवा॑महै॒
न
स
रि॑ष्याति॒
पूरु॑षः
॥
17
या
ओष॑धी॒:
सोम॑राज्ञीर्ब॒ह्वीः
श॒तवि॑चक्षणाः
।
तासां॒
त्वम॑स्युत्त॒मारं॒
कामा॑य॒
शं
हृ॒दे
॥
18
या
ओष॑धी॒:
सोम॑राज्ञी॒र्विष्ठि॑ताः
पृथि॒वीमनु॑
।
बृह॒स्पति॑प्रसूता
अ॒स्यै
सं
द॑त्त
वी॒र्य॑म्
॥
19
मा
वो॑
रिषत्खनि॒ता
यस्मै॑
चा॒हं
खना॑मि
वः
।
द्वि॒पच्चतु॑ष्पद॒स्माकं॒
सर्व॑मस्त्वनातु॒रम्
॥
20
याश्चे॒दमु॑पशृ॒ण्वन्ति॒
याश्च॑
दू॒रं
परा॑गताः
।
सर्वा॑:
सं॒गत्य॑
वीरुधो॒ऽस्यै
सं
द॑त्त
वी॒र्य॑म्
॥
21
ओष॑धय॒:
सं
व॑दन्ते॒
सोमे॑न
स॒ह
राज्ञा॑
।
यस्मै॑
कृ॒णोति॑
ब्राह्म॒णस्तं
रा॑जन्पारयामसि
॥
22
त्वमु॑त्त॒मास्यो॑षधे॒
तव॑
वृ॒क्षा
उप॑स्तयः
।
उप॑स्तिरस्तु॒
सो॒॒3॑ऽस्माकं॒
यो
अ॒स्माँ
अ॑भि॒दास॑ति
॥
23
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
।