हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
केन उपनिषद् - तृतीयः खंडः
ब्रह्म
ह
देवेभ्यो
विजिग्ये
तस्य
ह
ब्रह्मणो
विजये
देवा
अमहीयंत
॥
1
॥
त
ऐक्षंतास्माकमेवायं-विँजयोऽस्माकमेवायं
महिमेति
।
तद्धैषां-विँजज्ञौ
तेभ्यो
ह
प्रादुर्बभूव
तन्न
व्यजानत
किमिदं-यँक्षमिति
॥
2
॥
तेऽग्निमब्रुवंजातवेद
एतद्विजानीहि
किमिदं-यँक्षमिति
तथेति
॥
3
॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा
वा
अहमस्मीति
॥
4
॥
तस्मिन्स्त्वयि
किं-वीँर्यमित्यपीदꣳ
सर्वं
दहेयं-यँदिदं
पृथिव्यामिति
॥
5
॥
तस्मै
तृणं
निदधावेतद्दहेति
।
तदुपप्रेयाय
सर्वजवेन
तन्न
शशाक
दग्धुं
स
तत
एव
निववृते
नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति
॥
6
॥
अथ
वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति
तथेति
॥
7
॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति
वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा
वा
अहमस्मीति
॥
8
॥
तस्मिन्स्त्वयि
किं-वीँर्यमित्यपीदं
सर्वमाददीय
यदिदं
पृथिव्यामिति
॥
9
॥
तस्मै
तृणं
निदधावेतदादत्स्वेति
तदुपप्रेयाय
सर्वजवेन
तन्न
शशाकादातुं
स
तत
एव
निववृते
नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति
॥
10
॥
अथेंद्रमब्रुवन्मघवन्नेतद्विजानीहि
किमेतद्यक्षमिति
तथेति
तदभ्यद्रवत्तस्मात्तिरोदधे
॥
11
॥
स
तस्मिन्नेवाकाशे
स्त्रियमाजगाम
बहुशोभमानामुमां
हैमवतीं
ताग्ंहोवाच
किमेतद्यक्षमिति
॥
12
॥ ॥
इति
केनोपनिषदि
तृतीयः
खंडः
॥