हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गो सूक्तम्
आ
गावो॑
अग्मन्नु॒त
भ॒द्रम॑क्रं॒त्सीदं॑तु
गो॒ष्ठे
र॒णयं॑त्व॒स्मे
।
प्र॒जाव॑तीः
पुरु॒रुपा॑
इ॒ह
स्यु॒रिंद्रा॑य
पू॒र्वीरु॒षसो॒
दुहा॑नाः
॥
1
इंद्रो॒
यज्व॑ने
पृण॒ते
च॑
शिक्ष॒त्युपेद्द॑दाति॒
न
स्वं
मा॑षुयति
।
भूयो॑भूयो
र॒यिमिद॑स्य
व॒र्धय॒न्नभि॑न्ने
खि॒ल्ये
नि
द॑धाति
देव॒युम्
॥
2
न
ता
न॑शंति॒
न
द॑भाति॒
तस्क॑रो॒
नासा॑मामि॒त्रो
व्यथि॒रा
द॑धर्षति
।
दे॒वांश्च॒
याभि॒र्यज॑ते॒
ददा॑ति
च॒
ज्योगित्ताभिः॑
सचते॒
गोप॑तिः
स॒ह
॥
3
न
ता
अर्वा॑
रे॒णुक॑काटो
अश्नुते॒
न
सं॑स्कृत॒त्रमुप॑
यंति॒
ता
अ॒भि
।
उ॒रु॒गा॒यमभ॑यं॒
तस्य॒
ता
अनु॒
गावो॒
मर्त॑स्य॒
वि
च॑रंति॒
यज्व॑नः
॥
4
गावो॒
भगो॒
गाव॒
इंद्रो॑
म
अच्छा॒न्
गावः॒
सोम॑स्य
प्रथ॒मस्य॑
भ॒क्षः
।
इ॒मा
या
गावः॒
स
ज॑नास॒
इंद्र॑
इ॒च्छामीद्धृ॒दा
मन॑सा
चि॒दिंद्र॑म्
॥
5
यू॒यं
गा॑वो
मेदयथा
कृ॒शं
चि॑दश्री॒रं
चि॑त्कृणुथा
सु॒प्रती॑कम्
।
भ॒द्रं
गृ॒हं
कृ॑णुथ
भद्रवाचो
बृ॒हद्वो॒
वय॑
उच्यते
स॒भासु॑
॥
6
प्र॒जाव॑तीः
सू॒यव॑सं
रि॒शंतीः॑
शु॒द्धा
अ॒पः
सु॑प्रपा॒णे
पिबं॑तीः
।
मा
वः॑
स्ते॒न
ई॑शत॒
माघशं॑सः॒
परि॑
वो
हे॒ति
रु॒द्रस्य॑
वृज्याः
॥
7
उपे॒दमु॑प॒पर्च॑नमा॒सु
गोषूप॑
पृच्यताम्
।
उप॑
ऋष॒भस्य॒
रेत॒स्युपें॑द्र॒
तव॑
वी॒र्ये॑
॥
8
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥