हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भाग्य सूक्तम्
ओं
प्रा॒तर॒ग्निं
प्रा॒तरिंद्रग्ं॑
हवामहे
प्रा॒तर्मि॒त्रा
वरु॑णा
प्रा॒तर॒श्विना᳚
।
प्रा॒तर्भगं॑
पू॒षणं॒
ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः
सोम॑मु॒त
रु॒द्रग्ं
हु॑वेम
॥
1
॥
प्रा॒त॒र्जितं॒
भ॑गमु॒ग्रग्ं
हु॑वेम
व॒यं
पु॒त्रमदि॑ते॒र्यो
वि॑ध॒र्ता
।
आ॒द्ध्रश्चि॒द्यं
मन्य॑मानस्तु॒रश्चि॒द्राजा॑
चि॒द्यं
भगं॑
भ॒क्षीत्याह॑
॥
2
॥
भग॒
प्रणे॑त॒र्भग॒
सत्य॑राधो॒
भगे॒मां
धिय॒मुद॑व॒दद॑न्नः
।
भग॒प्रणो॑
जनय॒
गोभि॒रश्वै॒र्भग॒प्रनृभि॑र्नृ॒वंत॑स्स्याम
॥
3
॥
उ॒तेदानीं॒
भग॑वंतस्स्यामो॒त
प्रपि॒त्व
उ॒त
मध्ये॒
अह्ना᳚म्
।
उ॒तोदि॑ता
मघवं॒थ्सूर्य॑स्य
व॒यं
दे॒वानाग्ं॑
सुम॒तौ
स्या॑म
॥
4
॥
भग॑
ए॒व
भग॑वाग्ं
अस्तु
देवा॒स्तेन॑
व॒यं
भग॑वंतस्स्याम
।
तं
त्वा॑
भग॒
सर्व॒
इज्जो॑हवीमि॒
सनो॑
भग
पुर
ए॒ता
भ॑वेह
॥
5
॥
सम॑ध्व॒रायो॒षसो॑ऽनमंत
दधि॒क्रावे॑व॒
शुचये॑
प॒दाय॑
।
अ॒र्वा॒ची॒नं-वँ॑सु॒विदं॒
भग॑न्नो॒
रथ॑मि॒वाऽश्वा॑वा॒जिन॒
आव॑हंतु
॥
6
॥
अश्वा॑वती॒र्गोम॑तीर्न
उ॒षासो॑
वी॒रव॑ती॒स्सद॑मुच्छंतु
भ॒द्राः
।
घृ॒तं
दुहा॑ना
वि॒श्वतः॒
प्रपी॑ना
यू॒यं
पा॑त
स्व॒स्तिभि॒स्सदा॑
नः
॥
7
॥
यो
मा᳚ऽग्ने
भा॒गिनग्ं॑
सं॒तमथा॑भा॒गं॑
चिकी॑ऋषति
।
अभा॒गम॑ग्ने॒
तं
कु॑रु॒
माम॑ग्ने
भा॒गिनं॑
कुरु
॥
8
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥