हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
विष्णु षट्पदि
अविनयमपनय
विष्णो
दमय
मनः
शमय
विषयमृगतृष्णाम्
।
भूतदयां
विस्तारय
तारय
संसारसागरतः
॥
1
॥
दिव्यधुनीमकरंदे
परिमलपरिभोगसच्चिदानंदे
।
श्रीपतिपदारविंदे
भवभयखेदच्छिदे
वंदे
॥
2
॥
सत्यपि
भेदापगमे
नाथ
तवाऽहं
न
मामकीनस्त्वम्
।
सामुद्रो
हि
तरंगः
क्वचन
समुद्रो
न
तारंगः
॥
3
॥
उद्धृतनग
नगभिदनुज
दनुजकुलामित्र
मित्रशशिदृष्टे
।
दृष्टे
भवति
प्रभवति
न
भवति
किं
भवतिरस्कारः
॥
4
॥
मत्स्यादिभिरवतारैरवतारवताऽवता
सदा
वसुधाम्
।
परमेश्वर
परिपाल्यो
भवता
भवतापभीतोऽहम्
॥
5
॥
दामोदर
गुणमंदिर
सुंदरवदनारविंद
गोविंद
।
भवजलधिमथनमंदर
परमं
दरमपनय
त्वं
मे
॥
6
॥
नारायण
करुणामय
शरणं
करवाणि
तावकौ
चरणौ
।
इति
षट्पदी
मदीये
वदनसरोजे
सदा
वसतु
॥
इति
श्रीमच्चंकराचार्य
विरचितं
श्री
विष्णु
षट्पदी
स्तोत्रं
संपूर्णम्
Recite with devotion and pure heart
Regular practice brings spiritual benefits