हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
पंचायुध स्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं
भास्करकोटितुल्यम्
।
सुरद्विषां
प्राणविनाशि
विष्णोः
चक्रं
सदाऽहं
शरणं
प्रपद्ये
॥
1
॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य
ध्वनिर्दानवदर्पहंता
।
तं
पांचजन्यं
शशिकोटिशुभ्रं
शंखं
सदाऽहं
शरणं
प्रपद्ये
॥
2
॥
हिरण्मयीं
मेरुसमानसारां
कौमोदकीं
दैत्यकुलैकहंत्रीम्
।
वैकुंठवामाग्रकराग्रमृष्टां
गदां
सदाऽहं
शरणं
प्रपद्ये
॥
3
॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि
निर्मुक्तभयानि
सद्यः
।
भवंति
दैत्याशनिबाणवर्षैः
शार्ङ्गं
सदाऽहं
शरणं
प्रपद्ये
॥
4
॥
रक्षोऽसुराणां
कठिनोग्रकंठ-
-च्छेदक्षरत्क्षोणित
दिग्धसारम्
।
तं
नंदकं
नाम
हरेः
प्रदीप्तं
खड्गं
सदाऽहं
शरणं
प्रपद्ये
॥
5
॥
इमं
हरेः
पंचमहायुधानां
स्तवं
पठेद्योऽनुदिनं
प्रभाते
।
समस्त
दुःखानि
भयानि
सद्यः
पापानि
नश्यंति
सुखानि
संति
॥
6
॥
वने
रणे
शत्रु
जलाग्निमध्ये
यदृच्छयापत्सु
महाभयेषु
।
पठेत्विदं
स्तोत्रमनाकुलात्मा
सुखीभवेत्तत्कृत
सर्वरक्षः
॥
7
॥
सचक्रशंखं
सगदासिशार्ङ्गं
पीतांबरं
कौस्तुभ-वत्स-चिह्नम्
।
श्रिया
समेतोज्ज्वल
शोभितांगं
विष्णुं
सदाऽहं
शरणं
प्रपद्ये
॥
जले
रक्षतु
वाराहः
स्थले
रक्षतु
वामनः
।
अटव्यां
नारसिंहश्च
सर्वतः
पातु
केशवः
॥
इति
पंचायुध
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits