हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नारायण कवचम्
अंगन्यासः
–
ओं
ओं
पादयोः
नमः
।
ओं
नं
जानुनोः
नमः
।
ओं
मों
ऊर्वोः
नमः
।
ओं
नां
उदरे
नमः
।
ओं
रां
हृदि
नमः
।
ओं
यं
उरसि
नमः
।
ओं
णां
मुखे
नमः
।
ओं
यं
शिरसि
नमः
।
करन्यासः
–
ओं
ओं
दक्षिणतर्जन्यां
नमः
।
ओं
नं
दक्षिणमध्यमायां
नमः
।
ओं
मों
दक्षिणानामिकायां
नमः
।
ओं
भं
दक्षिणकनिष्ठिकायां
नमः
।
ओं
गं
वामकनिष्ठिकायां
नमः
।
ओं
वं
वामानिकायां
नमः
।
ओं
तें
वाममध्यमायां
नमः
।
ओं
वां
वामतर्जन्यां
नमः
।
ओं
सुं
दक्षिणांगुष्ठोर्ध्वपर्वणि
नमः
।
ओं
दें
दक्षिणांगुष्ठाधः
पर्वणि
नमः
।
ओं
वां
वामांगुष्ठोर्ध्वपर्वणि
नमः
।
ओं
यं
वामांगुष्ठाधः
पर्वणि
नमः
।
विष्णुषडक्षरन्यासः
–
ओं
ओं
हृदये
नमः
।
ओं
विं
मूर्ध्नै
नमः
।
ओं
षं
भ्रुर्वोर्मध्ये
नमः
।
ओं
णं
शिखायां
नमः
।
ओं
वें
नेत्रयोः
नमः
।
ओं
नं
सर्वसंधिषु
नमः
।
ओं
मः
प्राच्यां
अस्त्राय
फट्
।
ओं
मः
आग्नेय्यां
अस्त्राय
फट्
।
ओं
मः
दक्षिणस्यां
अस्त्राय
फट्
।
ओं
मः
नैऋत्ये
अस्त्राय
फट्
।
ओं
मः
प्रतीच्यां
अस्त्राय
फट्
।
ओं
मः
वायव्ये
अस्त्राय
फट्
।
ओं
मः
उदीच्यां
अस्त्राय
फट्
।
ओं
मः
ऐशान्यां
अस्त्राय
फट्
।
ओं
मः
ऊर्ध्वायां
अस्त्राय
फट्
।
ओं
मः
अधरायां
अस्त्राय
फट्
।
श्री
हरिः
अथ
श्रीनारायणकवच
राजोवाच
–
यया
गुप्तः
सहस्राक्षः
सवाहान्
रिपुसैनिकान्
।
क्रीडन्निव
विनिर्जित्य
त्रिलोक्या
बुभुजे
श्रियम्
॥
1
॥
भगवंस्तन्ममाख्याहि
वर्म
नारायणात्मकम्
।
यथाऽऽततायिनः
शत्रून्
येन
गुप्तोऽजयन्मृधे
॥
2
॥
श्री
शुक
उवाच
–
वृतः
पुरोहितस्त्वाष्ट्रो
महेंद्रायानुपृच्छते
।
नारायणाख्यं
वर्माह
तदिहैकमनाः
शृणु
॥
3
॥
श्रीविश्वरूप
उवाच
–
धौतांघ्रिपाणिराचम्य
सपवित्र
उदङ्मुखः
।
कृतस्वांगकरन्यासो
मंत्राभ्यां
वाग्यतः
शुचिः
॥
4
॥
नारायणमयं
वर्म
सन्नह्येद्भय
आगते
।
दैवभूतात्मकर्मभ्यो
नारायणमयः
पुमान्
॥
5
॥
पादयोर्जानुनोरूर्वोरुदरे
हृद्यथोरसि
।
मुखे
शिरस्यानुपूर्व्यादोंकारादीनि
विन्यसेत्
॥
6
॥
ओं
नमो
नारायणायेति
विपर्ययमथापि
वा
।
करन्यासं
ततः
कुर्याद्द्वादशाक्षरविद्यया
॥
7
॥
प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु
।
न्यसेद्धृदय
ओंकारं
विकारमनु
मूर्धनि
॥
8
॥
षकारं
तु
भ्रुवोर्मध्ये
णकारं
शिखया
न्यसेत्
।
वेकारं
नेत्रयोर्युंज्यान्नकारं
सर्वसंधिषु
॥
9
॥
मकारमस्त्रमुद्दिश्य
मंत्रमूर्तिर्भवेद्बुधः
।
सविसर्गं
फडंतं
तत्सर्वदिक्षु
विनिर्दिशेत्
॥
10
॥
ओं
विष्णवे
नमः
॥
इत्यात्मानं
परं
ध्यायेद्ध्येयं
षट्छक्तिभिर्युतम्
।
विद्यातेजस्तपोमूर्तिमिमं
मंत्रमुदाहरेत्
॥
11
॥
ओं
हरिर्विदध्यान्मम
सर्वरक्षां
न्यस्तांघ्रिपद्मः
पतगेंद्र
पृष्ठे
।
दरारिचर्मासिगदेषुचाप-
-पाशांदधानोऽष्टगुणोऽष्टबाहुः
॥
12
॥
जलेषु
मां
रक्षतु
मत्स्यमूर्ति-
-र्यादोगणेभ्यो
वरुणस्य
पाशात्
।
स्थलेषु
मायावटुवामनोऽव्या-
-त्त्रिविक्रमः
खेऽवतु
विश्वरूपः
॥
13
॥
दुर्गेष्वटव्याजिमुखादिषु
प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः
।
विमुंचतो
यस्य
महाट्टहासं
दिशो
विनेदुर्न्यपतंश्च
गर्भाः
॥
14
॥
रक्षत्वसौ
माध्वनि
यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो
वराहः
।
रामोऽद्रिकूटेष्वथ
विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान्
॥
15
॥
मामुग्रधर्मादखिलात्प्रमादा-
-न्नारायणः
पातु
नरश्च
हासात्
।
दत्तस्त्वयोगादथ
योगनाथः
पायाद्गुणेशः
कपिलः
कर्मबंधात्
॥
16
॥
सनत्कुमारोऽवतु
कामदेवा-
-द्धयाननो
मां
पथि
देवहेलनात्
।
देवर्षिवर्यः
पुरुषार्चनांतरा-
-त्कूर्मो
हरिर्मां
निरयादशेषात्
॥
17
॥
धन्वंतरिर्भगवान्पात्वपथ्या-
-द्द्वंद्वाद्भयादृषभो
निर्जितात्मा
।
यज्ञश्च
लोकादवताज्जनांता-
-द्बलो
गणात्क्रोधवशादहींद्रः
॥
18
॥
द्वैपायनो
भगवानप्रबोधा-
-द्बुद्धस्तु
पाषंडगणात्प्रमादात्
।
कल्किः
कलेः
कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः
॥
19
॥
मां
केशवो
गदया
प्रातरव्या-
-द्गोविंद
आसंगवमात्तवेणुः
।
नारायणः
प्राह्ण
उदात्तशक्ति-
-र्मध्यंदिने
विष्णुररींद्रपाणिः
॥
20
॥
देवोऽपराह्णे
मधुहोग्रधन्वा
सायं
त्रिधामावतु
माधवो
माम्
।
दोषे
हृषीकेश
उतार्धरात्रे
निशीथ
एकोऽवतु
पद्मनाभः
॥
21
॥
श्रीवत्सधामाऽपररात्र
ईशः
प्रत्युष
ईशोऽसिधरो
जनार्दनः
।
दामोदरोऽव्यादनुसंध्यं
प्रभाते
विश्वेश्वरो
भगवान्कालमूर्तिः
॥
22
॥
चक्रं
युगांतानलतिग्मनेमि
भ्रमत्समंताद्भगवत्प्रयुक्तम्
।
दंदग्धि
दंदग्ध्यरिसैन्यमाशु
कक्षं
यथा
वातसखो
हुताशः
॥
23
॥
गदेऽशनिस्पर्शनविस्फुलिंगे
निष्पिंढि
निष्पिंढ्यजितप्रियासि
।
कूष्मांडवैनायकयक्षरक्षो
भूतग्रहांश्चूर्णय
चूर्णयारीन्
॥
24
॥
त्वं
यातुधानप्रमथप्रेतमातृ-
-पिशाचविप्रग्रहघोरदृष्टीन्
।
दरेंद्र
विद्रावय
कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि
कंपयन्
॥
25
॥
त्वं
तिग्मधारासिवरारिसैन्य-
-मीशप्रयुक्तो
मम
छिंधि
छिंधि
।
चक्षूंषि
चर्मन्
शतचंद्र
छादय
द्विषामघोनां
हर
पापचक्षुषाम्
॥
26
॥
यन्नो
भयं
ग्रहेभ्योऽभूत्केतुभ्यो
नृभ्य
एव
च
।
सरीसृपेभ्यो
दंष्ट्रिभ्यो
भूतेभ्योऽघेभ्य
एव
च
॥
27
॥
सर्वाण्येतानि
भगवन्नामरूपास्त्रकीर्तनात्
।
प्रयांतु
संक्षयं
सद्यो
ये
नः
श्रेयःप्रतीपकाः
॥
28
॥
गरुडो
भगवान्
स्तोत्रस्तोमश्छंदोमयः
प्रभुः
।
रक्षत्वशेषकृच्छ्रेभ्यो
विष्वक्सेनः
स्वनामभिः
॥
29
॥
सर्वापद्भ्यो
हरेर्नामरूपयानायुधानि
नः
।
बुद्धींद्रियमनःप्राणान्पांतु
पार्षदभूषणाः
॥
30
॥
यथा
हि
भगवानेव
वस्तुतः
सदसच्च
यत्
।
सत्येनानेन
नः
सर्वे
यांतु
नाशमुपद्रवाः
॥
31
॥
यथैकात्म्यानुभावानां
विकल्परहितः
स्वयम्
।
भूषणायुधलिंगाख्या
धत्ते
शक्तीः
स्वमायया
॥
32
॥
तेनैव
सत्यमानेन
सर्वज्ञो
भगवान्
हरिः
।
पातु
सर्वैः
स्वरूपैर्नः
सदा
सर्वत्र
सर्वगः
॥
33
॥
विदिक्षु
दिक्षूर्ध्वमधः
समंता-
-दंतर्बहिर्भगवान्नारसिंहः
।
प्रहापयँल्लोकभयं
स्वनेन
स्वतेजसा
ग्रस्तसमस्ततेजाः
॥
34
॥
मघवन्निदमाख्यातं
वर्म
नारायणात्मकम्
।
विजेष्यस्यंजसा
येन
दंशितोऽसुरयूथपान्
॥
35
॥
एतद्धारयमाणस्तु
यं
यं
पश्यति
चक्षुषा
।
पदा
वा
संस्पृशेत्सद्यः
साध्वसात्स
विमुच्यते
॥
36
॥
न
कुतश्चिद्भयं
तस्य
विद्यां
धारयतो
भवेत्
।
राजदस्युग्रहादिभ्यो
व्याध्यादिभ्यश्च
कर्हिचित्
॥
37
॥
इमां
विद्यां
पुरा
कश्चित्कौशिको
धारयन्
द्विजः
।
योगधारणया
स्वांगं
जहौ
स
मरुधन्वनि
॥
38
॥
तस्योपरि
विमानेन
गंधर्वपतिरेकदा
।
ययौ
चित्ररथः
स्त्रीभिर्वृतो
यत्र
द्विजक्षयः
॥
39
॥
गगनान्न्यपतत्सद्यः
सविमानो
ह्यवाक्छिराः
।
स
वालखिल्यवचनादस्थीन्यादाय
विस्मितः
।
प्राप्य
प्राच्यां
सरस्वत्यां
स्नात्वा
धाम
स्वमन्वगात्
॥
40
॥
श्री
शुक
उवाच
–
य
इदं
शृणुयात्काले
यो
धारयति
चादृतः
।
तं
नमस्यंति
भूतानि
मुच्यते
सर्वतो
भयात्
॥
41
॥
एतां
विद्यामधिगतो
विश्वरूपाच्छतक्रतुः
।
त्रैलोक्यलक्ष्मीं
बुभुजे
विनिर्जित्य
मृधेऽसुरान्
॥
42
॥
इति
श्रीमद्भागवते
महापुराणे
षष्ठस्कंधे
नारायणवर्मोपदेशो
नामाष्टमोऽध्यायः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits