हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भज गोविंदम्
भज
गोविंदं
भज
गोविंदं
गोविंदं
भज
मूढमते
।
संप्राप्ते
सन्निहिते
काले
नहि
नहि
रक्षति
डुकृंकरणे
॥
1
॥
मूढ
जहीहि
धनागमतृष्णां
कुरु
सद्बुद्धिं
मनसि
वितृष्णाम्
।
यल्लभसे
निजकर्मोपात्तं
वित्तं
तेन
विनोदय
चित्तम्
॥
2
॥
नारीस्तनभर-नाभीदेशं
दृष्ट्वा
मा
गा
मोहावेशम्
।
एतन्मांसवसादिविकारं
मनसि
विचिंतय
वारं
वारम्
॥
3
॥
नलिनीदल-गतजलमतितरलं
तद्वज्जीवितमतिशय-चपलम्
।
विद्धि
व्याध्यभिमानग्रस्तं
लोकं
शोकहतं
च
समस्तम्
॥
4
॥
यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो
रक्तः
।
पश्चाज्जीवति
जर्जरदेहे
वार्तां
कोऽपि
न
पृच्छति
गेहे
॥
5
॥
यावत्पवनो
निवसति
देहे
तावत्पृच्छति
कुशलं
गेहे
।
गतवति
वायौ
देहापाये
भार्या
बिभ्यति
तस्मिन्काये
॥
6
॥
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः
।
वृद्धस्तावच्चिंतासक्तः
परमे
ब्रह्मणि
कोऽपि
न
सक्तः
॥
7
॥
का
ते
कांता
कस्ते
पुत्रः
संसारोऽयमतीव
विचित्रः
।
कस्य
त्वं
कः
कुत
आयातः
तत्त्वं
चिंतय
तदिह
भ्रातः
॥
8
॥
सत्संगत्वे
निस्संगत्वं
निस्संगत्वे
निर्मोहत्वम्
।
निर्मोहत्वे
निश्चलतत्त्वं
निश्चलतत्त्वे
जीवन्मुक्तिः
॥
9
॥
वयसि
गते
कः
कामविकारः
शुष्के
नीरे
कः
कासारः
।
क्षीणे
वित्ते
कः
परिवारः
ज्ञाते
तत्त्वे
कः
संसारः
॥
10
॥
मा
कुरु
धन-जन-यौवन-गर्वं
हरति
निमेषात्कालः
सर्वम्
।
मायामयमिदमखिलं
हित्वा
ब्रह्मपदं
त्वं
प्रविश
विदित्वा
॥
11
॥
दिनयामिन्यौ
सायं
प्रातः
शिशिरवसंतौ
पुनरायातः
।
कालः
क्रीडति
गच्छत्यायुः
तदपि
न
मुंचत्याशावायुः
॥
12
॥
का
ते
कांता
धनगतचिंता
वातुल
किं
तव
नास्ति
नियंता
।
त्रिजगति
सज्जनसंगतिरेका
भवति
भवार्णवतरणे
नौका
॥
13
॥
द्वादश-मंजरिकाभिरशेषः
कथितो
वैयाकरणस्यैषः
।
उपदेशोऽभूद्विद्या-निपुणैः
श्रीमच्छंकर-भगवच्छरणैः
॥
14
॥
जटिलो
मुंडी
लुंछितकेशः
काषायांबर-बहुकृतवेषः
।
पश्यन्नपि
च
न
पश्यति
मूढः
उदरनिमित्तं
बहुकृतवेषः
॥
15
॥
अंगं
गलितं
पलितं
मुंडं
दशनविहीनं
जातं
तुंडम्
।
वृद्धो
याति
गृहीत्वा
दंडं
तदपि
न
मुंचत्याशापिंडम्
॥
16
॥
अग्रे
वह्निः
पृष्ठे
भानुः
रात्रौ
चुबुक-समर्पित-जानुः
।
करतल-भिक्षस्तरुतलवासः
तदपि
न
मुंचत्याशापाशः
॥
17
॥
कुरुते
गंगासागरगमनं
व्रत-परिपालनमथवा
दानम्
।
ज्ञानविहीनः
सर्वमतेन
भजति
न
मुक्तिं
जन्मशतेन
॥
18
॥
सुरमंदिर-तरु-मूल-निवासः
शय्या
भूतलमजिनं
वासः
।
सर्व-परिग्रह-भोगत्यागः
कस्य
सुखं
न
करोति
विरागः
॥
19
॥
योगरतो
वा
भोगरतो
वा
संगरतो
वा
संगविहीनः
।
यस्य
ब्रह्मणि
रमते
चित्तं
नंदति
नंदति
नंदत्येव
॥
20
॥
भगवद्गीता
किंचिदधीता
गंगाजल-लवकणिका
पीता
।
सकृदपि
येन
मुरारिसमर्चा
क्रियते
तस्य
यमेन
न
चर्चा
॥
21
॥
पुनरपि
जननं
पुनरपि
मरणं
पुनरपि
जननीजठरे
शयनम्
।
इह
संसारे
बहुदुस्तारे
कृपयाऽपारे
पाहि
मुरारे
॥
22
॥
रथ्याचर्पट-विरचित-कंथः
पुण्यापुण्य-विवर्जित-पंथः
।
योगी
योगनियोजित-चित्तः
रमते
बालोन्मत्तवदेव
॥
23
॥
कस्त्वं
कोऽहं
कुत
आयातः
का
मे
जननी
को
मे
तातः
।
इति
परिभावय
सर्वमसारं
विश्वं
त्यक्त्वा
स्वप्नविचारम्
॥
24
॥
त्वयि
मयि
चान्यत्रैको
विष्णुः
व्यर्थं
कुप्यसि
मय्यसहिष्णुः
।
भव
समचित्तः
सर्वत्र
त्वं
वांछस्यचिराद्यदि
विष्णुत्वम्
॥
25
॥
शत्रौ
मित्रे
पुत्रे
बंधौ
मा
कुरु
यत्नं
विग्रहसंधौ
।
सर्वस्मिन्नपि
पश्यात्मानं
सर्वत्रोत्सृज
भेदाज्ञानम्
॥
26
॥
कामं
क्रोधं
लोभं
मोहं
त्यक्त्वाऽऽत्मानं
पश्यति
सोऽहम्
।
आत्मज्ञानविहीना
मूढाः
ते
पच्यंते
नरकनिगूढाः
॥
27
॥
गेयं
गीता-नामसहस्रं
ध्येयं
श्रीपति-रूपमजस्रम्
।
नेयं
सज्जन-संगे
चित्तं
देयं
दीनजनाय
च
वित्तम्
॥
28
॥
सुखतः
क्रियते
कामाभोगः
पश्चादंत
शरीरे
रोगः
।
यद्यपि
लोके
मरणं
शरणं
तदपि
न
मुंचति
पापाचरणम्
॥
29
॥
अर्थमनर्थं
भावय
नित्यं
नास्तिततः
सुखलेशः
सत्यम्
।
पुत्रादपि
धनभाजां
भीतिः
सर्वत्रैषा
विहिता
रीतिः
॥
30
॥
प्राणायामं
प्रत्याहारं
नित्यानित्य
विवेकविचारम्
।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं
महदवधानम्
॥
31
॥
गुरुचरणांबुज-निर्भरभक्तः
संसारादचिराद्भव
मुक्तः
।
सेंद्रियमानस-नियमादेवं
द्रक्ष्यसि
निजहृदयस्थं
देवम्
॥
32
॥
मूढः
कश्चन
वैयाकरणो
डुःकृंकरणाध्ययनधुरीणः
।
श्रीमच्छंकर-भगवच्छिष्यैः
बोधित
आसीच्छोधित-करणः
॥
33
॥
भज
गोविंदं
भज
गोविंदं
गोविंदं
भज
मूढमते
।
नामस्मरणादन्यमुपायं
नहि
पश्यामो
भवतरणे
॥
34
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits