हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वाराही सहस्रनाम स्तोत्रम्
देव्युवाच
–
श्रीकण्ठ
करुणासिन्धो
दीनबन्धो
जगत्पते
।
भूतिभूषितसर्वाङ्ग
परात्परतर
प्रभो
॥
1
॥
कृताञ्जलिपुटा
भूत्वा
पृच्छाम्येकं
दयानिधे
।
आद्या
या
चित्स्वरूपा
या
निर्विकारा
निरञ्जना
॥
2
॥
बोधातीता
ज्ञानगम्या
कूटस्थानन्दविग्रहा
।
अग्राह्यातीन्द्रिया
शुद्धा
निरीहा
स्वावभासिका
॥
3
॥
गुणातीता
निष्प्रपञ्चा
ह्यवाङ्मनसगोचरा
।
प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी
॥
4
॥
रक्षार्थं
जगतो
देवकार्यार्थं
वा
सुरद्विषाम्
।
नाशाय
धत्ते
सा
देहं
तत्तत्कार्यैकसाधकम्
॥
5
॥
तत्र
भूधरणार्थाय
यज्ञविस्तारहेतवे
।
विद्युत्केशहिरण्याक्षबालाकादिवधाय
च
॥
6
॥
आविर्बभूव
या
शक्तिर्घोरा
भूदाररूपिणी
।
वाराही
विकटाकारा
दानवासुरनाशिनी
॥
7
॥
सद्यः
सिद्धिकरी
देवी
घोराद्घोरतरा
शिवा
।
तस्याः
सहस्रनामाख्यं
स्तोत्रं
मे
समुदीरय
॥
8
॥
कृपालेशोऽस्ति
मयि
चेद्भाग्यं
मे
यदि
वा
भवेत्
।
अनुग्राह्या
यद्यहं
स्यां
तदा
वद
दयानिधे
॥
9
॥
ईश्वर
उवाच
–
साधु
साधु
वरारोहे
धन्या
बहुमतासि
मे
।
शुश्रूषया
समुत्पन्ना
भक्तिः
श्रद्धान्विता
तव
॥
10
॥
सहस्रनाम
वाराह्याः
सर्वसिद्धिविधायि
च
।
तव
चेन्न
प्रवक्ष्यामि
प्रिये
कस्य
वदाम्यहम्
॥
11
॥
किन्तु
गोप्यं
प्रयत्नेन
संरक्ष्यं
प्राणतोऽपि
च
।
विशेषतः
कलियुगे
न
देयं
यस्य
कस्यचित्
।
सर्वेऽन्यथा
सिद्धिभाजो
भविष्यन्ति
वरानने
॥
12
॥
ओं
अस्य
श्रीवाराहीसहस्रनामस्तोत्रस्य
महादेव
ऋषिः
।
अनुष्टुप्
छन्दः
।
वाराही
देवता
।
ऐं
बीजम्
।
क्रों
शक्तिः
।
हुं
कीलकम्
।
मम
सर्वार्थसिद्ध्यर्थे
जपे
विनियोगः
।
ओं
वाराही
वामनी
वामा
बगला
वासवी
वसुः
।
वैदेही
वीरसूर्बाला
वरदा
विष्णुवल्लभा
॥
13
॥
वन्दिता
वसुदा
वश्या
व्यात्तास्या
वञ्चिनी
बला
।
वसुन्धरा
वीतिहोत्रा
वीतरागा
विहायसी
॥
14
॥
सर्वा
खनिप्रिया
काम्या
कमला
काञ्चनी
रमा
।
धूम्रा
कपालिनी
वामा
कुरुकुल्ला
कलावती
॥
15
॥
याम्याऽऽग्नेयी
धरा
धन्या
धर्मिणी
ध्यानिनी
ध्रुवा
।
धृतिर्लक्ष्मीर्जया
तुष्टिः
शक्तिर्मेधा
तपस्विनी
॥
16
॥
वेधा
जया
कृतिः
कान्तिः
स्वाहा
शान्तिर्दमा
रतिः
।
लज्जा
मतिः
स्मृतिर्निद्रा
तन्त्रा
गौरी
शिवा
स्वधा
॥
17
॥
चण्डी
दुर्गाऽभया
भीमा
भाषा
भामा
भयानका
।
भूदारा
भयहा
भीरुर्भैरवी
भङ्गरा
भटी
॥
18
॥
घुर्घुरा
घोषणा
घोरा
घोषिणी
घोणसंयुता
।
घनाघना
घर्घरा
च
घोणयुक्ताऽघनाशिनी
॥
19
॥
पूर्वाग्नेयी
यातु
याम्या
वायव्युत्तरवारुणी
।
ऐशान्यूर्ध्वाधःस्थिता
च
पृष्ठदक्षाग्रवामगा
॥
20
॥
हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा
।
ऐं
श्रीः
ह्रीः
क्लीं
तीर्थगतिः
प्रीतिर्धीर्गीः
कलाऽव्यया
॥
21
॥
ऋग्यजुः
सामरूपा
च
परा
पोत्रिण्युदुम्बरा
।
गदासिशक्तिचापेषुशूलचक्रर्ष्टिधारिणी
॥
22
॥
जरती
युवती
बाला
चतुरङ्गबलोत्कटा
।
सत्याक्षरा
निधिर्नेत्री
धात्री
पोत्री
परा
पटुः
॥
23
॥
क्षेत्रज्ञा
कम्पिनी
ज्येष्ठा
दुराधर्षा
धुरन्धरा
।
मालिनी
मानिनी
माता
माननीया
मनस्विनी
॥
24
॥
मदोत्कटा
मन्युकरी
मनुरूपा
मनोजवा
।
मेदस्विनी
मद्यरता
मधुपा
मङ्गलाऽमरा
॥
25
॥
माया
माताऽऽमयहरी
मृडानी
महिला
मृतिः
।
महादेवी
मोहहरी
मञ्जुर्मृत्युञ्जयाऽमला
॥
26
॥
मांसला
मानवा
मूला
महारात्रिर्मदालसा
।
मृगाङ्का
मेनका
मान्या
महिषघ्नी
मदन्तिका
॥
27
॥
मूर्छामोहमृषामोघामदमृत्युमलापहा
।
सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना
धुनी
॥
28
॥
धरिणी
धारिणी
धेनुर्धरित्री
धावनी
धवा
।
धर्मध्वना
ध्यानपरा
धनधान्यधराप्रदा
॥
29
॥
पापदोषरिपुव्याधिनाशिनी
सिद्धिदायिनी
।
कलाकाष्ठाक्षमापक्षाहस्त्रुटिश्वासरूपिणी
॥
30
॥
समृद्धा
सुभुजा
रौद्री
राधा
रागा
रमारणिः
।
रामा
रतिप्रिया
रुष्टा
रक्षिणी
रविमध्यगा
॥
31
॥
रजनी
रमणी
रेवा
रङ्किनी
रञ्जिनी
रमा
।
रोषा
रोषवती
रूक्षा
करिराज्यप्रदा
रता
॥
32
॥
रूक्षा
रूपवती
रास्या
रुद्राणी
रणपण्डिता
।
गङ्गा
च
यमुना
चैव
सरस्वतिस्वसूर्मधुः
॥
33
॥
गण्डकी
तुङ्गभद्रा
च
कावेरी
कौशिकी
पटुः
।
कट्वोरगवती
चारा
सहस्राक्षा
प्रतर्दना
॥
34
॥
सर्वज्ञा
शाङ्करी
शास्त्री
जटाधारिण्ययोरदा
।
यावनी
सौरभी
कुब्जा
वक्रतुण्डा
वधोद्यता
॥
35
॥
चन्द्रापीडा
वेदवेद्या
शङ्खिनी
नीललोहिता
।
ध्यानातीताऽपरिच्छेद्या
मृत्युरूपा
त्रिवर्गदा
॥
36
॥
अरूपा
बहुरूपा
च
नानारूपा
नतानना
।
वृषाकपिर्वृषारूढा
वृषेशी
वृषवाहना
॥
37
॥
वृषप्रिया
वृषावर्ता
वृषपर्वा
वृषाकृतिः
।
कोदण्डिनी
नागचूडा
चक्षुष्या
परमार्थिका
॥
38
॥
दुर्वासा
दुर्गहा
देवी
दुरावासा
दुरारिहा
।
दुर्गा
राधा
दुःखहन्त्री
दुराराध्या
दवीयसी
॥
39
॥
दुरावासा
दुष्प्रहस्ता
दुष्प्रकम्पा
दुरूहिणी
।
सुवेणी
रमणी
श्यामा
मृगव्याधार्घतापिनी
॥
40
॥
उग्रा
तार्क्षी
पाशुपती
कौणपी
कुणपाशना
।
कपर्दिनी
कामकामा
कमनीया
कलोज्ज्वला
॥
41
॥
कासावहृत्कारकानी
कम्बुकण्ठी
कृतागमा
।
कर्कशा
कारणा
कान्ता
कल्पाऽकल्पा
कटङ्कटा
॥
42
॥
श्मशाननिलया
भिन्ना
गजारुढा
गजापहा
।
तत्प्रिया
तत्परा
राया
स्वर्भानुः
कालवञ्चिनी
॥
43
॥
शाखा
विशाखा
गोशाखा
सुशाखा
शेषशाखिनी
।
व्यङ्गा
शुभाङ्गा
वामाङ्गा
नीलाङ्गाऽनङ्गरूपिणी
॥
44
॥
साङ्गोपाङ्गा
च
सारङ्गा
सुभाङ्गा
रङ्गरूपिणी
।
भद्रा
सुभद्रा
भद्राक्षी
सिंहिका
विनताऽदितिः
॥
45
॥
हृद्याऽवद्या
सुपद्या
च
गद्यपद्यप्रिया
प्रसूः
।
चर्चिका
भोगवत्यम्बा
सारसी
शबरी
नटी
॥
46
॥
योगिनी
पुष्कलाऽनन्ता
परा
साङ्ख्या
शची
सती
।
निम्नगा
निम्ननाभिश्च
सहिष्णुर्जागृती
लिपिः
॥
47
॥
दमयन्ती
दमी
दण्डोद्दण्डिनी
दारदायिका
।
दीपिनी
दाविनी
धात्री
दक्षकन्या
दम्या
दरत्
॥
48
॥
दाहिनी
द्रविणी
दर्वी
दण्डिनी
दण्डनायिका
।
दानप्रिया
दोषहन्त्री
दुःखदारिद्र्यनाशिनी
॥
49
॥
दोषदा
दोषकृद्दोग्ध्री
दोहती
देविकाऽधना
।
दर्वीकरी
दुर्वलिता
दुर्युगाऽद्वयवादिनी
॥
50
॥
चराचराऽनन्तवृष्टिरुन्मत्ता
कमलाऽलसा
।
तारिणी
तारकान्तारा
परमात्माब्जलोचना
॥
51
॥
इन्दुर्हिरण्यकवचा
व्यवस्था
व्यवसायिका
।
ईशनन्दा
नदी
नागी
यक्षिणी
सर्पिणी
वरी
॥
52
॥
सुधा
सुरा
विश्वसहा
सुवर्णाङ्गदधारिणी
।
जननी
प्रीतिभागेशी
साम्राज्ञी
संविदुत्तमा
॥
53
॥
अमेयाऽरिष्टदमनी
पिङ्गला
लिङ्गधारिणी
।
चामुण्डा
प्लाविनी
हाला
बृहज्ज्योतिरुरुक्रमा
॥
54
॥
सुप्रतीका
च
सुग्रीवा
हव्यवाहा
प्रलापिनी
।
नभस्या
माधवी
ज्येष्ठा
शिशिरा
ज्वालिनी
रुचिः
॥
55
॥
शुक्ला
शुक्रा
शुचा
शोका
शुकी
भेकी
पिकी
बकी
।
पृषदश्वा
नभोयोनिः
सुप्रतीका
विभावरी
॥
56
॥
गर्विता
गुर्विणी
गण्या
गुरुर्गुरुधरी
गया
।
गन्धर्वी
गणिका
गुन्द्रा
गारुडी
गोपिकाऽग्रगा
॥
57
॥
गणेशी
गामिनी
गन्ता
गोपतिर्गन्धिनी
गवी
।
गर्जिता
गाननी
गोना
गोरक्षा
गोविदां
गतिः
॥
58
॥
ग्राथिकी
ग्रथिकृद्गोष्ठी
गर्भरूपा
गुणैषिणी
।
पारस्करी
पाञ्चनदा
बहुरूपा
विरूपिका
॥
59
॥
ऊहा
व्यूहा
दुरूहा
च
सम्मोहा
मोहहारिणी
।
यज्ञविग्रहिणी
यज्ञा
यायजूका
यशस्विनी
॥
60
॥
अग्निष्टोमाऽत्यग्निष्टोमा
वाजपेयश्च
षोडशी
।
पुण्डरीकाऽश्वमेधश्च
राजसूयश्च
नाभसः
॥
61
॥
स्विष्टकृद्बहुसौवर्णो
गोसवश्च
महाव्रतः
।
विश्वजिद्ब्रह्मयज्ञश्च
प्राजापत्यः
शिलायवः
॥
62
॥
अश्वक्रान्ता
रथक्रान्ता
विष्णुक्रान्ता
विभावसुः
।
सूर्यक्रान्ता
गजक्रान्ता
बलिभिन्नागयज्ञकः
॥
63
॥
सावित्री
चार्धसावित्री
सर्वतोभद्रवारुणा
।
आदित्यामय
गोदोह
गवामय
मृगामया
॥
64
॥
सर्पमयः
कालपिञ्जः
कौण्डिन्योपनागाहलः
।
अग्निविद्द्वादशाहस्वोपांशुः
सोम
विधो
हनः
॥
65
॥
अश्वप्रतिग्रहो
बर्हिरथोऽभ्युदय
ऋद्धिराट्
।
सर्वस्वदक्षिणो
दीक्षा
सोमाख्या
समिदाह्वयः
॥
66
॥
कठायनश्च
गोदोहः
स्वाहाकारस्तनूनपात्
।
दण्डा
पुरुष
मेधश्च
श्येनो
वज्र
इषुर्यमः
॥
67
॥
अङ्गिराः
कङ्कभेरुण्डा
चान्द्रायणपरायणा
।
ज्योतिष्टोमः
गुदो
दर्शो
नन्द्याख्यः
पौर्णमासिकः
॥
68
॥
गजप्रतिग्रहो
रात्रिः
सौरभः
शाङ्कलायनः
।
सौभाग्यकृच्च
कारीषो
बैदलायनरामठौ
॥
69
॥
शोचिष्कारी
नाचिकेतः
शान्तिकृत्पुष्टिकृत्तथा
।
वैनतेयोच्चाटनौ
च
वशीकरण
मारणे
॥
70
॥
त्रैलोक्यमोहनो
वीरः
कन्दर्पबलशातनः
।
शङ्खचूडो
गजच्छायो
रौद्राख्यो
विष्णुविक्रमः
॥
71
॥
भैरवः
कवहाख्यश्चावभृथोऽष्टकपालकः
।
श्रौषट्
वौषट्
वषट्कारः
पाकसंस्था
परिश्रुती
॥
72
॥
चयनो
नरमेधश्च
कारीरी
रत्नदानिका
।
सौत्रामणी
च
भारुन्दा
बार्हस्पत्यो
बलङ्गमः
॥
73
॥
प्रचेताः
सर्वसत्रश्च
गजमेधः
करम्भकः
।
हविःसंस्था
सोमसंस्था
पाकसंस्था
गरुत्मती
॥
74
॥
सत्यसूर्यश्चमसः
स्रुक्
स्रुवोलूखल
मेक्षणी
।
चपलो
मन्थनी
मेढी
यूपः
प्राग्वंशकुञ्चिका
॥
75
॥
रश्मिरंशुश्च
दोभ्यश्च
वारुणोदः
पविः
कुथा
।
आप्तोर्यामो
द्रोणकलशो
मैत्रावरुण
आश्विनः
॥
76
॥
पात्नीवतश्च
मन्थी
च
हारियोजन
एव
च
।
प्रतिप्रस्थानशुक्रौ
च
सामिधेनी
समित्समा
॥
77
॥
होताऽध्वर्युस्तथोद्गाता
नेता
त्वष्टा
च
योत्रिका
।
आग्नीध्रोऽच्छावकाष्टावग्ग्रावस्तुत्प्रतर्दकः
॥
78
॥
सुब्रह्मण्यो
ब्राह्मणश्च
मैत्रावरुणवारुणौ
।
प्रस्तोता
प्रतिप्रस्थाता
यजमानो
ध्रुवन्त्रिका
॥
79
॥
आमिक्षा
पृषदाज्यं
च
हव्यं
कव्यं
चरुः
पयः
।
जुहुद्घ्रावोपभृद्ब्रह्मा
त्रयी
त्रेता
तरस्विनी
॥
80
॥
पुरोडाशः
पशूकर्षः
प्रोक्षणी
ब्रह्मयज्ञिनी
।
अग्निजिह्वा
दर्भरोमा
ब्रह्मशीर्षा
महोदरी
॥
81
॥
अमृतप्राशिका
नारायणी
नग्ना
दिगम्बरा
।
ओङ्कारिणी
चतुर्वेदरूपा
श्रुतिरनुल्बणा
॥
82
॥
अष्टादशभुजा
रम्भा
सत्या
गगनचारिणी
।
भीमवक्त्रा
महावक्त्रा
कीर्तिराकृष्णपिङ्गला
॥
83
॥
कृष्णमूर्धा
महामूर्धा
घोरमूर्धा
भयानना
।
घोरानना
घोरजिह्वा
घोररावा
महाव्रता
॥
84
॥
दीप्तास्या
दीप्तनेत्रा
च
चण्डप्रहरणा
जटी
।
सुरभी
सौलभी
वीची
छाया
सन्ध्या
च
मांसला
॥
85
॥
कृष्णा
कृष्णाम्बरा
कृष्णशार्ङ्गिणी
कृष्णवल्लभा
।
त्रासिनी
मोहिनी
द्वेष्या
मृत्युरूपा
भयापहा
॥
86
॥
भीषणा
दानवेन्द्रघ्नी
कल्पकर्ता
क्षयङ्करी
।
अभया
पृथिवी
साध्वी
केशिनी
व्याधिजन्महा
॥
87
॥
अक्षोभ्याऽऽह्लादिनी
कन्या
पवित्रा
रोपिणी
शुभा
।
कन्यादेवी
सुरादेवी
भीमादेवी
मदन्तिका
॥
88
॥
शाकम्भरी
महाश्वेता
धूम्रा
धूम्रेश्वरीश्वरी
।
वीरभद्रा
महाभद्रा
महादेवी
महासुरी
॥
89
॥
श्मशानवासिनी
दीप्ता
चितिसंस्था
चितिप्रिया
।
कपालहस्ता
खट्वाङ्गी
खड्गिनी
शूलिनी
हली
॥
90
॥
कान्तारिणी
महायोगी
योगमार्गा
युगग्रहा
।
धूम्रकेतुर्महास्यायुर्युगानां
परिवर्तिनी
॥
91
॥
अङ्गारिण्यङ्कुशकरा
घण्टावर्णा
च
चक्रिणी
।
वेताली
ब्रह्मवेताली
महावेतालिका
तथा
॥
92
॥
विद्याराज्ञी
मोहराज्ञी
महाराज्ञी
महोदरी
।
भूतं
भव्यं
भविष्यं
च
साङ्ख्यं
योगस्तपो
दमः
॥
93
॥
अध्यात्मं
चाधिदैवं
चाधिभूतांश
एव
च
।
घण्टारवा
विरूपाक्षी
शिखिविच्छ्रीचयप्रिया
॥
94
॥
खड्गशूलगदाहस्ता
महिषासुरमर्दिनी
।
मातङ्गी
मत्तमातङ्गी
कौशिकी
ब्रह्मवादिनी
॥
95
॥
उग्रतेजा
सिद्धसेना
जृम्भिणी
मोहिनी
तथा
।
जया
च
विजया
चैव
विनता
कद्रुरेव
च
॥
96
॥
धात्री
विधात्री
विक्रान्ता
ध्वस्ता
मूर्छा
च
मूर्छनी
।
दमनी
धर्मिणी
दम्या
छेदिनी
तापिनी
तपी
॥
97
॥
बन्धिनी
बाधिनी
बन्धा
बोधातीता
बुधप्रिया
।
हरिणी
हारिणी
हन्त्री
धरिणी
धारिणी
धरा
॥
98
॥
विसाधिनी
साधिनी
च
सन्ध्या
सङ्गोपनी
प्रिया
।
रेवती
कालकर्णी
च
सिद्धिर्लक्ष्मीररुन्धती
॥
99
॥
धर्मप्रिया
धर्मरतिः
धर्मिष्ठा
धर्मचारिणी
।
व्युष्टिः
ख्यातिः
सिनीवाली
कुहूः
ऋतुमती
मृतिः
॥
100
॥
त्वाष्ट्री
वैरोचनी
मैत्री
नीरजा
कैटभेश्वरी
।
भ्रमणी
भ्रामणी
भ्रामा
भ्रमरी
भ्रामरी
भ्रमा
॥
101
॥
निष्कला
कलहा
नीता
कौलाकारा
कलेबरा
।
विद्युज्जिह्वा
वर्षिणी
च
हिरण्याक्षनिपातिनी
॥
102
॥
जितकामा
कामृगया
कोला
कल्पाङ्गिनी
कला
।
प्रधाना
तारका
तारा
हितात्मा
हितभेदिनी
॥
103
॥
दुरक्षरा
परब्रह्म
महादाना
महाहवा
।
वारुणी
व्यरुणी
वाणी
वीणा
वेणी
विहङ्गमा
॥
104
॥
मोदप्रिया
मोदकिनी
प्लवनी
प्लाविनी
प्लुतिः
।
अजरा
लोहिता
लाक्षा
प्रतप्ता
विश्वभोजिनी
॥
105
॥
मनो
बुद्धिरहङ्कारः
क्षेत्रज्ञा
क्षेत्रपालिका
।
चतुर्वेदा
चतुर्भारा
चतुरन्ता
चरुप्रिया
॥
106
॥
चर्विणी
चोरिणी
चारी
शाङ्करी
चर्मभैरवी
।
निर्लेपा
निष्प्रपञ्चा
च
प्रशान्ता
नित्यविग्रहा
॥
107
॥
स्तव्या
स्तवप्रिया
व्याला
गुरुराश्रितवत्सला
।
निष्कलङ्का
निरालम्बा
निर्द्वन्द्वा
निष्परिग्रहा
॥
108
॥
निर्गुणा
निर्मला
नित्या
निरीहा
निरघा
नवा
।
निरिन्द्रिया
निराभासा
निर्मोहा
नीतिनायिका
॥
109
॥
निरिन्धना
निष्कला
च
लीलाकारा
निरामया
।
मुण्डा
विरूपा
विकृता
पिङ्गलाक्षी
गुणोत्तरा
॥
110
॥
पद्मगर्भा
महागर्भा
विश्वगर्भा
विलक्षणा
।
परमात्मा
परेशानी
परा
पारा
परन्तपा
॥
111
॥
संसारसेतुः
क्रूराक्षी
मूर्छामुक्ता
मनुप्रिया
।
विस्मया
दुर्जया
दक्षा
दनुहन्त्री
दयालया
॥
112
॥
परब्रह्माऽऽनन्दरूपा
सर्वसिद्धिविधायिनी
।
ओम्
।
एवमुड्डामरातन्त्रान्मयोद्धृत्य
प्रकाशितम्
॥
113
॥
गोपनीयं
प्रयत्नेन
नाख्येयं
यस्य
कस्यचित्
।
यदीच्छसि
द्रुतं
सिद्धिमैश्वर्यं
चिरजीविताम्
॥
114
॥
आरोग्यं
नृपसम्मानं
दानान्यस्य
तु
कीर्तयेत्
।
नाम्नां
सहस्रं
वाराह्याः
मया
ते
समुदीरितम्
॥
115
॥
यः
पठेच्छृणुयाद्वापि
सर्वपापैः
प्रमुच्यते
।
अश्वमेधसहस्रस्य
वाजपेयशतस्य
च
॥
116
॥
पुण्डरीकायुतस्यापि
फलं
पाठात्
प्रजायते
।
पठतः
सर्वभावेन
सर्वा
स्युः
सिद्धयः
करे
॥
117
॥
जायते
महदैश्वर्यं
सर्वेषां
दयितो
भवेत्
।
घनसारायते
वह्निरगाधोब्धिः
कणायते
॥
118
॥
सिद्धयश्च
तृणायन्ते
विषमप्यमृतायते
।
हारायन्ते
महासर्पाः
सिंहः
क्रीडामृगायते
॥
119
॥
दासायन्ते
महीपाला
जगन्मित्रायतेऽखिलम्
।
तस्मान्नाम्नां
सहस्रेण
स्तुता
सा
जगदम्बिका
।
प्रयच्छत्यखिलान्
कामान्
देहान्ते
परमां
गतिम्
॥
120
॥
इति
उड्डामरतन्त्रे
श्री
आदिवाराही
सहस्रनाम
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits