हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वाराही निग्रहाष्टकम्
देवि
क्रोडमुखि
त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने
मह्यं
द्रुह्यति
यो
महेशि
मनसा
कायेन
वाचा
नरः
।
तस्याशु
त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-
-पर्यस्यन्मनसो
भवन्तु
वपुषः
प्राणाः
प्रयाणोन्मुखाः
॥
1
॥
देवि
त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां
वृत्तिं
विधत्ते
मयि
।
यो
देही
भुवने
तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः
पूरयसे
कराब्जचषकं
वाञ्छाफलैर्मामपि
॥
2
॥
चण्डोत्तुण्डविदीर्णदंष्ट्रहृदयप्रोद्भिन्नरक्तच्छटा
हालापानमदाट्टहासनिनदाटोपप्रतापोत्कटम्
।
मातर्मत्परिपन्थिनामपहृतैः
प्राणैस्त्वदङ्घ्रिद्वयं
ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि
क्षणात्
॥
3
॥
श्यामां
तामरसाननाङ्घ्रिनयनां
सोमार्धचूडां
जग-
-त्त्राणव्यग्रहलायुधाग्रमुसलां
सन्त्रासमुद्रावतीम्
।
ये
त्वां
रक्तकपालिनीं
हरवरारोहे
वराहाननां
भावैः
सन्दधते
कथं
क्षणमपि
प्राणन्ति
तेषां
द्विषः
॥
4
॥
विश्वाधीश्वरवल्लभे
विजयसे
या
त्वं
नियन्त्र्यात्मिका
भूतान्ता
पुरुषायुषावधिकरी
पाकप्रदाकर्मणाम्
।
त्वां
याचे
भवतीं
किमप्यवितथं
यो
मद्विरोधीजन-
-स्तस्यायुर्मम
वाञ्छितावधिभवेन्मातस्तवैवाज्ञया
॥
5
॥
मातः
सम्यगुपासितुं
जडमतिस्त्वां
नैव
शक्नोम्यहं
यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य
मे
।
जन्तुः
कश्चन
चिन्तयत्यकुशलं
यस्तस्य
तद्वैशसं
भूयाद्देवि
विरोधिनो
मम
च
ते
श्रेयः
पदासङ्गिनः
॥
6
॥
वाराही
व्यथमानमानसगलत्सौख्यं
तदाशाबलिं
सीदन्तं
यमपाकृताध्यवसितं
प्राप्ताखिलोत्पादितम्
।
क्रन्दद्बन्धुजनैः
कलङ्किततुलं
कण्ठव्रणोद्यत्कृमि
पश्यामि
प्रतिपक्षमाशु
पतितं
भ्रान्तं
लुठन्तं
मुहुः
॥
7
॥
वाराही
त्वमशेषजन्तुषु
पुनः
प्राणात्मिका
स्पन्दसे
शक्तिव्याप्तचराचरा
खलु
यतस्त्वामेतदभ्यर्थये
।
त्वत्पादाम्बुजसङ्गिनो
मम
सकृत्पापं
चिकीर्षन्ति
ये
तेषां
मा
कुरु
शङ्करप्रियतमे
देहान्तरावस्थितिम्
॥
8
॥
इति
श्रीवाराहीनिग्रहाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits