Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वाराही द्वादशनाम स्तोत्रम्

हयग्रीव उवाच ।
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ॥ 1 ॥
पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।
तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ 2 ॥
वार्ताली च महासेनाप्याज्ञाचक्रेश्वरी तथा ।
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ॥ 3 ॥
नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः ।
सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ 4 ॥
एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ 5 ॥
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits