श्री वाराही देवि स्तवं
ध्यानम् –
ऐङ्कारद्वयमध्यसंस्थित लसद्भूबीजवर्णात्मिकां
दुष्टारातिजनाक्षि वक्त्रकरपदस्तम्भिनीं जृम्भिणीम् ।
लोकान् मोहयन्तीं दृशा च महासादंष्ट्राकरालाकृतिं
वार्तालीं प्रणतोऽस्मि सन्ततमहं घोणिं रथोपस्थिताम् ॥
श्रीकिरिरथमध्यस्थां पोत्रिमुखीं चिद्घनैकसद्रूपाम् ।
हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् ॥ 1 ॥
वाग्भवभूवागीशी बीजत्रयठार्णवैश्च सम्युक्ताम् ।
कवचास्त्रानलजायायतरूपां नौमि शुद्धवाराहीम् ॥ 2 ॥
स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीम् ।
नतजनशुभकारिणीं श्रीकिरिवदनां नौमि सच्चिदानन्दाम् ॥ 3 ॥
पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् ।
अञ्चितमणिमयभूषां चिन्तितफलदां नमामि वाराहीम् ॥ 4 ॥
विघ्नापन्निर्मूलन विद्येशीं सर्वदुःखविनिहन्त्रीम् ।
सकलजगत्संस्तम्भनचतुरां श्रीस्तम्भिनीं कलये ॥ 5 ॥
दशवर्णरूपमनुवर विशदां तुरगाधिराजसंरूढाम् ।
शुभदां दिव्यजगत्त्रयवासिनीं सुखदायिनीं सदा कलये ॥ 6 ॥
उद्धत्रीक्ष्मां जलनिधि मग्नां दंष्ट्राग्रलग्नभूगोलाम् ।
भक्तनदिमोदमानां उन्मत्ताकार भैरवीं वन्दे ॥ 7 ॥
सप्तदशाक्षररूपां सप्तोदधिपीठमध्यगां दिव्याम् ।
भक्तार्तिनाशनिपुणां भवभयविध्वंसिनीं परां वन्दे ॥ 8 ॥
नीलतुरगाधिरूढां नीलाञ्चित वस्त्रभूषणोपेताम् ।
नीलाभां सर्वतिरस्करिणीं सम्भावये महामायाम् ॥ 9 ॥
सलसङ्ख्यमन्त्ररूपां विलसद्भूषां विचित्रवस्त्राढ्याम् ।
सुललिततन्वीं नीलां कलये पशुवर्ग मोहिनीं देवीम् ॥ 10 ॥
वैरिकृतसकलभीकर कृत्याविध्वंसिनीं करालास्याम् ।
शत्रुगणभीमरूपां ध्याये त्वां श्रीकिरातवाराहीम् ॥ 11 ॥
चत्वारिंशद्वर्णकमनुरूपां सूर्यकोटिसङ्काशाम् ।
देवीं सिंहतुरङ्गां विविधायुधधारिणीं कीटीं नौमि ॥ 12 ॥
धूमाकारविकारां धूमानलसन्निभां सदा मत्ताम् ।
परिपन्थियूथहन्त्रीं वन्दे नित्यं च धूम्रवाराहीम् ॥ 13 ॥
वर्णचतुर्विंशतिकां मन्त्रेशीं समदमहिषपृष्ठस्थाम् ।
उग्रां विनीलदेहां ध्याये किरिवक्त्र देवतां नित्यम् ॥ 14 ॥
बिन्दुगणतात्मकोणां गजदलावृत्तत्रयात्मिकां दिव्याम् ।
सदनत्रयसंशोभित चक्रस्थां नौमि सिद्धवाराहीम् ॥ 15 ॥
वाराही स्तोत्रमेतद्यः प्रपठेद्भक्तिसम्युतः ।
स वै प्राप्नोति सततं सर्वसौख्यास्पदं पदम् ॥ 16 ॥
इति श्री वाराही देवि स्तवम् ।