किरिचक्ररथारूढा शत्रुसंहारकारिणी ।
क्रियाशक्तिस्वरूपा च दण्डनाथा महोज्ज्वला ॥ 1 ॥
हलायुधा हर्षदात्री हलनिर्भिन्नशात्रवा ।
भक्तार्तितापशमनी मुसलायुधशोभिनी ॥ 2 ॥
कुर्वन्ती कारयन्ती च कर्ममालातरङ्गिणी ।
कामप्रदा भगवती भक्तशत्रुविनाशिनी ॥ 3 ॥
उग्ररूपा महादेवी स्वप्नानुग्रहदायिनी ।
कोलास्या चन्द्रचूडा च त्रिनेत्रा हयवाहना ॥ 4 ॥
पाशहस्ता शक्तिपाणिः मुद्गरायुधधारिणि ।
हस्ताङ्कुशा ज्वलन्नेत्रा चतुर्बाहुसमन्विता ॥ 5 ॥
विद्युद्वर्णा वह्निनेत्रा शत्रुवर्गविनाशिनी ।
करवीरप्रिया माता बिल्वार्चनवरप्रदा ॥ 6 ॥
वार्ताली चैव वाराही वराहास्या वरप्रदा ।
अन्धिनी रुन्धिनी चैव जम्भिनी मोहिनी तथा ॥ 7 ॥
स्तम्भिनी चेतिविख्याता देव्यष्टकविराजिता ।
उग्ररूपा महादेवी महावीरा महाद्युतिः ॥ 8 ॥
किरातरूपा सर्वेशी अन्तःशत्रुविनाशिनी ।
परिणामक्रमा वीरा परिपाकस्वरूपिणी ॥ 9 ॥
नीलोत्पलतिलैः प्रीता शक्तिषोडशसेविता ।
नारिकेलोदक प्रीता शुद्धोदक समादरा ॥ 10 ॥
उच्चाटनी तदीशी च शोषणी शोषणेश्वरी ।
मारणी मारणेशी च भीषणी भीषणेश्वरी ॥ 11 ॥
त्रासनी त्रासनेशी च कम्पनी कम्पनीश्वरी ।
आज्ञाविवर्तिनी पश्चादाज्ञाविवर्तिनीश्वरी ॥ 12 ॥
वस्तुजातेश्वरी चाथ सर्वसम्पादनीश्वरी ।
निग्रहानुग्रहदक्षा च भक्तवात्सल्यशोभिनी ॥ 13 ॥
किरातस्वप्नरूपा च बहुधाभक्तरक्षिणी ।
वशङ्करी मन्त्ररूपा हुम्बीजेनसमन्विता ॥ 14 ॥
रंशक्तिः क्लीं कीलका च सर्वशत्रुविनाशिनी ।
जपध्यानसमाराध्या होमतर्पणतर्पिता ॥ 15 ॥
दंष्ट्राकरालवदना विकृतास्या महारवा ।
ऊर्ध्वकेशी चोग्रधरा सोमसूर्याग्निलोचना ॥ 16 ॥
रौद्रीशक्तिः पराव्यक्ता चेश्वरी परदेवता ।
विधिविष्णुशिवाद्यर्च्या मृत्युभीत्यपनोदिनी ॥ 17 ॥
जितरम्भोरुयुगला रिपुसंहारताण्डवा ।
भक्तरक्षणसंलग्ना शत्रुकर्मविनाशिनी ॥ 18 ॥
तार्क्ष्यारूढा सुवर्णाभा शत्रुमारणकारिणी ।
अश्वारूढा रक्तवर्णा रक्तवस्त्राद्यलङ्कृता ॥ 19 ॥
जनवश्यकरी माता भक्तानुग्रहदायिनी ।
दंष्ट्राधृतधरा देवी प्राणवायुप्रदा सदा ॥ 20 ॥
दूर्वास्या भूप्रदा चापि सर्वाभीष्टफलप्रदा ।
त्रिलोचनऋषिप्रीता पञ्चमी परमेश्वरी ।
सेनाधिकारिणी चोग्रा वाराही च शुभप्रदा ॥ 21 ॥
इति श्री वाराही अष्टोत्तर शतनाम स्तोत्रम् ॥