हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वाराह्यनुग्रहाष्टकम्
श्वर
उवाच
।
मातर्जगद्रचननाटकसूत्रधार-
-स्त्वद्रूपमाकलयितुं
परमार्थतोऽयम्
।
ईशोऽप्यमीश्वरपदं
समुपैति
तादृक्
कोऽन्यः
स्तवं
किमिव
तावकमादधातु
॥
1
॥
नामानि
किन्तु
गृणतस्तव
लोकतुण्डे
नाडम्बरं
स्पृशति
दण्डधरस्य
दण्डः
।
यल्लेशलम्बितभवाम्बुनिधिर्यतोऽयत्
त्वन्नामसंस्मृतिरियं
न
नुनः
स्तुतिस्ते
॥
2
॥
त्वच्चिन्तनादरसमुल्लसदप्रमेया-
-ऽऽनन्दोदयात्समुदितः
स्फुटरोमहर्षः
।
मातर्नमामि
सुदिनानि
सदेत्यमुं
त्वा-
-मभ्यर्थयेऽर्थमिति
पूरयताद्दयालो
॥
3
॥
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
-रोचिश्चयोज्ज्वलितपादसरोजयुग्मे
।
चेतो
नतौ
मम
सदा
प्रतिबिम्बिता
त्वं
भूया
भवानि
भवनाशिनि
भावये
त्वाम्
॥
4
॥
लीलोद्धृतक्षितितलस्य
वराहमूर्ते-
-र्वाराहमूर्तिरखिलार्थकरी
त्वमेव
।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं
देवि
वामतनुभागहरा
हरस्य
॥
5
॥
त्वामम्ब
तप्तकनकोज्ज्वलकान्तिमन्त-
-र्ये
चिन्तयन्ति
युवतीतनु
मागलान्ताम्
।
चक्रायुधां
त्रिनयनां
वरपोतृवक्त्रां
तेषां
पदाम्बुजयुगं
प्रणमन्ति
देवाः
॥
6
॥
त्वत्सेवनस्खलितपापचयस्य
मात-
-र्मोक्षोऽपि
यस्य
न
सतो
गणनामुपैति
।
देवासुरोरगनृपूजितपादपीठः
कस्याः
श्रियः
स
खलु
भाजनतां
न
धत्ते
॥
7
॥
किं
दुष्करं
त्वयि
मनोविषयं
गतायां
किं
दुर्लभं
त्वयि
विधानुवदर्चितायाम्
।
किं
दुर्भरं
त्वयि
सकृत्
स्मृतिमागतायां
किं
दुर्जयं
त्वयि
कृतस्तुतिवादपुंसाम्
॥
8
॥
इति
श्री
वाराह्यनुग्रहाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits