शिव हरे शिवरामसखे प्रभो
त्रिविधतापनिवारण हे विभो ।
अजजनेश्वरयादव पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥ 1 ॥
कमललोचन राम दयानिधे
हर गुरो गजरक्षक गोपते ।
शिवतनो भवशङ्कर पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥ 2 ॥
सुजनरञ्जनमङ्गलमन्दिरं
भजति ते पुरुषः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं
शिव हरे विजयं कुरु मे वरम् ॥ 3 ॥
जय युधिष्ठिरवल्लभ भूपते
जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते
शिव हरे विजयं कुरु मे वरम् ॥ 4 ॥
भवविमोचन माधव मापते
सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां
शिव हरे विजयं कुरु मे वरम् ॥ 5 ॥
अवनिमण्डलमङ्गल मापते
जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते
शिव हरे विजयं कुरु मे वरम् ॥ 6 ॥
पतितपावन नाममयी लता
तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे
शिव हरे विजयं कुरु मे वरम् ॥ 7 ॥
अमरतापरदेव रमापते
विजयतस्तव नामधनोपमा ।
मयि कथं करुणार्णव जायते
शिव हरे विजयं कुरु मे वरम् ॥ 8 ॥
हनुमतः प्रियचापकर प्रभो
सुरसरिद्धृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं
शिव हरे विजयं कुरु मे वरम् ॥ 9 ॥
अहरहर्जन रञ्जनसुन्दरं
पठति यः शिवरामकृतस्तवम् ।
विशति रामरमाचरणाम्बुजे
शिव हरे विजयं कुरु मे वरम् ॥ 10 ॥
प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ 11 ॥
इति श्रीशिवरामस्तोत्रम् ।