हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री राम अष्टोत्तरनाम स्तोत्रम्
श्रीरामो
रामभद्रश्च
रामचन्द्रश्च
शाश्वतः
।
राजीवलोचनः
श्रीमान्राजेन्द्रो
रघुपुङ्गवः
॥
1
॥
जानकीवल्लभो
जैत्रो
जितामित्रो
जनार्दनः
।
विश्वामित्रप्रियो
दान्तः
शरणत्राणतत्परः
॥
2
॥
वालिप्रमथनो
वाग्मी
सत्यवाक्सत्यविक्रमः
।
सत्यव्रतो
व्रतधरः
सदाहनुमदाश्रितः
॥
3
॥
कौसलेयः
खरध्वंसी
विराधवधपण्डितः
।
विभीषणपरित्राता
हरकोदण्डखण्डनः
॥
4
॥
सप्ततालप्रभेत्ता
च
दशग्रीवशिरोहरः
।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः
॥
5
॥
वेदान्तसारो
वेदात्मा
भवरोगस्य
भेषजम्
।
दूषणत्रिशिरोहन्ता
त्रिमूर्तिस्त्रिगुणात्मकः
॥
6
॥
त्रिविक्रमस्त्रिलोकात्मा
पुण्यचारित्रकीर्तनः
।
त्रिलोकरक्षको
धन्वी
दण्डकारण्यकर्तनः
॥
7
॥
अहल्याशापशमनः
पितृभक्तो
वरप्रदः
।
जितेन्द्रियो
जितक्रोधो
जितामित्रो
जगद्गुरुः
॥
8
॥
ऋक्षवानरसङ्घाती
चित्रकूटसमाश्रयः
।
जयन्तत्राणवरदः
सुमित्रापुत्रसेवितः
॥
9
॥
सर्वदेवादिदेवश्च
मृतवानरजीवनः
।
मायामारीचहन्ता
च
महादेवो
महाभुजः
॥
10
॥
सर्वदेवस्तुतः
सौम्यो
ब्रह्मण्यो
मुनिसंस्तुतः
।
महायोगी
महोदारः
सुग्रीवेप्सितराज्यदः
॥
11
॥
सर्वपुण्याधिकफलः
स्मृतसर्वाघनाशनः
।
आदिपुरुषः
परमपुरुषो
महापूरुष
एव
च
॥
12
॥
पुण्योदयो
दयासारः
पुराणपुरुषोत्तमः
।
स्मितवक्त्रो
मिताभाषी
पूर्वभाषी
च
राघवः
॥
13
॥
अनन्तगुणगम्भीरो
धीरोदात्तगुणोत्तमः
।
मायामानुषचारित्रो
महादेवादिपूजितः
॥
14
॥
सेतुकृज्जितवाराशिः
सर्वतीर्थमयो
हरिः
।
श्यामाङ्गः
सुन्दरः
शूरः
पीतवासा
धनुर्धरः
॥
15
॥
सर्वयज्ञाधिपो
यज्वा
जरामरणवर्जितः
।
शिवलिङ्गप्रतिष्ठाता
सर्वावगुणवर्जितः
॥
16
॥
परमात्मा
परं
ब्रह्म
सच्चिदानन्दविग्रहः
।
परञ्ज्योतिः
परन्धाम
पराकाशः
परात्परः
॥
17
॥
परेशः
पारगः
पारः
सर्वदेवात्मकः
परः
॥
एवं
श्रीरामचन्द्रस्य
नाम्नामष्टोत्तरं
शतम्
इति
श्री
रामाष्टोत्तर
शतनामस्तोत्रं
सम्पूर्णम्
Recite with devotion and pure heart
Regular practice brings spiritual benefits