Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री रामाष्टोत्तर शत नामावलिः

ओं श्रीरामाय नमः । ओं रामभद्राय नमः । ओं रामचन्द्राय नमः । ओं शाश्वताय नमः । ओं राजीवलोचनाय नमः । ओं श्रीमते नमः । ओं राजेन्द्राय नमः । ओं रघुपुङ्गवाय नमः । ओं जानकीवल्लभाय नमः । ओं जैत्राय नमः । 10 ओं जितामित्राय नमः । ओं जनार्दनाय नमः । ओं विश्वामित्रप्रियाय नमः । ओं दान्ताय नमः । ओं शरणत्राणतत्पराय नमः । ओं वालिप्रमथनाय नमः । ओं वाङ्मिने नमः । ओं सत्यवाचे नमः । ओं सत्यविक्रमाय नमः । ओं सत्यव्रताय नमः । 20 ओं व्रतधराय नमः । ओं सदा हनुमदाश्रिताय नमः । ओं कोसलेयाय नमः । ओं खरध्वंसिने नमः । ओं विराधवधपण्डिताय नमः । ओं विभीषणपरित्रात्रे नमः । ओं हरकोदण्ड खण्डनाय नमः । ओं सप्तसाल प्रभेत्त्रे नमः । ओं दशग्रीवशिरोहराय नमः । ओं जामदग्न्यमहादर्पदलनाय नमः । 30 ओं ताटकान्तकाय नमः । ओं वेदान्त साराय नमः । ओं वेदात्मने नमः । ओं भवरोगस्य भेषजाय नमः । ओं दूषणत्रिशिरोहन्त्रे नमः । ओं त्रिमूर्तये नमः । ओं त्रिगुणात्मकाय नमः । ओं त्रिविक्रमाय नमः । ओं त्रिलोकात्मने नमः । ओं पुण्यचारित्रकीर्तनाय नमः । 40 ओं त्रिलोकरक्षकाय नमः । ओं धन्विने नमः । ओं दण्डकारण्यकर्तनाय नमः । ओं अहल्याशापशमनाय नमः । ओं पितृभक्ताय नमः । ओं वरप्रदाय नमः । ओं जितक्रोधाय नमः । ओं जितामित्राय नमः । ओं जगद्गुरवे नमः । ओं ऋक्षवानरसङ्घातिने नमः । 50 ओं चित्रकूटसमाश्रयाय नमः । ओं जयन्तत्राण वरदाय नमः । ओं सुमित्रापुत्र सेविताय नमः । ओं सर्वदेवादिदेवाय नमः । ओं मृतवानरजीवनाय नमः । ओं मायामारीचहन्त्रे नमः । ओं महादेवाय नमः । ओं महाभुजाय नमः । ओं सर्वदेवस्तुताय नमः । ओं सौम्याय नमः । 60 ओं ब्रह्मण्याय नमः । ओं मुनिसंस्तुताय नमः । ओं महायोगिने नमः । ओं महोदाराय नमः । ओं सुग्रीवेप्सित राज्यदाय नमः । ओं सर्वपुण्याधिक फलाय नमः । ओं स्मृतसर्वाघनाशनाय नमः । ओं आदिपुरुषाय नमः । ओं परमपुरुषाय नमः । ओं महापुरुषाय नमः । 70 ओं पुण्योदयाय नमः । ओं दयासाराय नमः । ओं पुराणाय नमः । ओं पुरुषोत्तमाय नमः । ओं स्मितवक्त्राय नमः । ओं मितभाषिणे नमः । ओं पूर्वभाषिणे नमः । ओं राघवाय नमः । ओं अनन्तगुणगम्भीराय नमः । ओं धीरोदात्त गुणोत्तमाय नमः । 80 ओं मायामानुषचारित्राय नमः । ओं महादेवादि पूजिताय नमः । ओं सेतुकृते नमः । ओं जितवाराशये नमः । ओं सर्वतीर्थमयाय नमः । ओं हरये नमः । ओं श्यामाङ्गाय नमः । ओं सुन्दराय नमः । ओं शूराय नमः । ओं पीतवाससे नमः । 90 ओं धनुर्धराय नमः । ओं सर्वयज्ञाधिपाय नमः । ओं यज्वने नमः । ओं जरामरणवर्जिताय नमः । ओं शिवलिङ्गप्रतिष्ठात्रे नमः । ओं सर्वावगुणवर्जिताय नमः । ओं परमात्मने नमः । ओं परस्मै ब्रह्मणे नमः । ओं सच्चिदानन्द विग्रहाय नमः । ओं परस्मैज्योतिषे नमः । 100 ओं परस्मै धाम्ने नमः । ओं पराकाशाय नमः । ओं परात्पराय नमः । ओं परेशाय नमः । ओं पारगाय नमः । ओं पाराय नमः । ओं सर्वदेवात्मकाय नमः । ओं पराय नमः । 108 इति श्री रामाष्टोत्तर शत नामावलीस्समाप्ता

Recite with devotion and pure heart

Regular practice brings spiritual benefits