स सर्वं सिद्धिमासाद्य ह्यन्ते रामपदं व्रजेत् ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ 1 ॥
विश्वस्य चात्मनो नित्यं पारतन्त्र्यं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ 2 ॥
अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येणैव विद्यते ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ 3 ॥
आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ 4 ॥
नित्यात्मगुणसम्युक्तो नित्यात्मतनुमण्डितः ।
नित्यात्मकेलिनिरतः श्रीरामः शरणं मम ॥ 5 ॥
गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते ।
अतोऽवाङ्मनसा वेद्यः श्रीरामः शरणं मम ॥ 6 ॥
कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः ।
आहर्ता कार्य जातस्य श्रीरामः शरणं मम ॥ 7 ॥
वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् ।
चतुर्विंशति मूर्तीनां श्रीरामः शरणं मम ॥ 8 ॥
नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे ।
पदं परमभक्तानां श्रीरामः शरणं मम ॥ 9 ॥
महदादिस्वरूपेण संस्थितः प्राकृते पदे ।
ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ 10 ॥
मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः ।
यः प्राकृत स्वरूपेण श्रीरामः शरणं मम ॥ 11 ॥
ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् ।
योऽन्तरात्मा च सर्वेषां श्रीरामः शरणं मम ॥ 12 ॥
योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः ।
आस्थितः सर्वभावेषु श्रीरामः शरणं मम ॥ 13 ॥
बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् ।
परिपाति जनान् दीनान् श्रीरामः शरणं मम ॥ 14 ॥
यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः ।
अर्चायामास्थितो देवः श्रीरामः शरणं मम ॥ 15 ॥
अर्चावतार रूपेण दर्शनस्पर्शनादिभिः ।
दीनानुद्धरते योऽसौ श्रीरामः शरणं मम ॥ 16 ॥
कौशल्याशुक्तिसञ्जातो जानकीकण्ठभूषणः ।
मुक्ताफलसमो योऽसौ श्रीरामः शरणं मम ॥ 17 ॥
विश्वामित्रमखत्राता ताटकागतिदायकः ।
अहल्याशापशमनः श्रीरामः शरणं मम ॥ 18 ॥
पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः ।
जामदग्न्यप्रतापघ्नः श्रीरामः शरणं मम ॥ 19 ॥
राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः ।
पितृदत्तवनक्रीडः श्रीरामः शरणं मम ॥ 20 ॥
जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः ।
चित्रकूटकृतावासः श्रीरामः शरणं मम ॥ 21 ॥
महापञ्चवटीलीला सञ्जातपरमोत्सवः ।
दण्डकारण्यसञ्चारी श्रीरामः शरणं मम ॥ 22 ॥
खरदूषणविच्छेदी दुष्टराक्षसभञ्जनः ।
हृतशूर्पणखाशोभः श्रीरामः शरणं मम ॥ 23 ॥
मायामृगविभेत्ता च हृतसीतानुतापकृत् ।
जानकीविरहाक्रोशी श्रीरामः शरणं मम ॥ 24 ॥
लक्ष्मणानुचरोधन्वी लोकयात्राविडम्बकृत् ।
पम्पातीरकृतान्वेषः श्रीरामः शरणं मम ॥ 25 ॥
जटायुगति दाता च कबन्धगतिदायकः ।
हनुमत्कृतसाहित्य श्रीरामः शरणं मम ॥ 26 ॥
सुग्रीवराज्यदः श्रीशो वालिनिग्रहकारकः ।
अङ्गदाश्वासनकरः श्रीरामः शरणं मम ॥ 27 ॥
सीतान्वेषणनिर्मुक्तहनुमत्प्रमुखव्रजः ।
मुद्रानिवेशितबलः श्रीरामः शरणं मम ॥ 28 ॥
हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः ।
लङ्कादाहकरो धीरः श्रीरामः शरणं मम ॥ 29 ॥
रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः ।
रावणादिप्रभेत्ता च श्रीरामः शरणं मम ॥ 30 ॥
जानकी जीवनत्राता विभीषणसमृद्धिदः ।
पुष्पकारोहणासक्तः श्रीरामः शरणं मम ॥ 31 ॥
राज्यसिंहासनारूढः कौशल्यानन्दवर्धनः ।
नामनिर्धूतनिरयः श्रीरामः शरणं मम ॥ 32 ॥
यज्ञकर्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः ।
अयोध्यामुक्तिदः शास्ता श्रीरामः शरणं मम ॥ 33 ॥
प्रपठेद्यः शुभं स्तोत्रं मुच्येत भवबन्धनात् ।
मन्त्रश्चाष्टाक्षरो देवः श्रीरामः शरणं मम ॥ 34 ॥
प्रपन्नः सर्वधर्मेभ्योः मामेकं शरणं गतः ।
पठेन्निदं मम स्तोत्रं मुच्यते भव बन्धनात् ॥ 35 ॥
इति बृहद्ब्रह्मसंहितान्तर्गत अष्टाक्षर श्रीराम मन्त्र स्तोत्रम् ।