Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री राजराजेश्वर्यष्टोत्तर शतनामावलिः

ओं भुवनेश्वर्यै नमः । ओं राजेश्वर्यै नमः । ओं राजराजेश्वर्यै नमः । ओं कामेश्वर्यै नमः । ओं बालात्रिपुरसुन्दर्यै नमः । ओं सर्वेश्वर्यै नमः । ओं कल्याण्यै नमः । ओं सर्वसङ्क्षोभिण्यै नमः । ओं सर्वलोकशरीरिण्यै नमः । ओं सौगन्धिकपरिमलायै नमः । 10 ओं मन्त्रिणे नमः । ओं मन्त्ररूपिण्यै नमः । ओं प्रकृत्यै नमः । ओं विकृत्यै नमः । ओं अदित्यै नमः । ओं सौभाग्यवत्यै नमः । ओं पद्मावत्यै नमः । ओं भगवत्यै नमः । ओं श्रीमत्यै नमः । ओं सत्यवत्यै नमः । 20 ओं प्रियकृत्यै नमः । ओं मायायै नमः । ओं सर्वमङ्गलायै नमः । ओं सर्वलोकमोहाधीशान्यै नमः । ओं किङ्करीभूतगीर्वाण्यै नमः । ओं परब्रह्मस्वरूपिण्यै नमः । ओं पुराणागमरूपिण्यै नमः । ओं पञ्चप्रणवरूपिण्यै नमः । ओं सर्वग्रहरूपिण्यै नमः । ओं रक्तगन्धकस्तुरीविलेप्यै नमः । 30 ओं नायिकायै नमः । ओं शरण्यायै नमः । ओं निखिलविद्येश्वर्यै नमः । ओं जनेश्वर्यै नमः । ओं भूतेश्वर्यै नमः । ओं सर्वसाक्षिण्यै नमः । ओं क्षेमकारिण्यै नमः । ओं पुण्यायै नमः । ओं सर्वरक्षिण्यै नमः । ओं सकलधर्मिण्यै नमः । 40 ओं विश्वकर्मिण्यै नमः । ओं सुरमुनिदेवनुतायै नमः । ओं सर्वलोकाराध्यायै नमः । ओं पद्मासनासीनायै नमः । ओं योगीश्वरमनोध्येयायै नमः । ओं चतुर्भुजायै नमः । ओं सर्वार्थसाधनाधीशायै नमः । ओं पूर्वायै नमः । ओं नित्यायै नमः । ओं परमानन्दायै नमः । 50 ओं कलायै नमः । ओं अनङ्गायै नमः । ओं वसुन्धरायै नमः । ओं शुभदायै नमः । ओं त्रिकालज्ञानसम्पन्नायै नमः । ओं पीताम्बरधरायै नमः । ओं अनन्तायै नमः । ओं भक्तवत्सलायै नमः । ओं पादपद्मायै नमः । ओं जगत्कारिण्यै नमः । 60 ओं अव्ययायै नमः । ओं लीलामानुषविग्रहायै नमः । ओं सर्वमायायै नमः । ओं मृत्युञ्जयायै नमः । ओं कोटिसूर्यसमप्रभायै नमः । ओं पवित्रायै नमः । ओं प्राणदायै नमः । ओं विमलायै नमः । ओं महाभूषायै नमः । ओं सर्वभूतहितप्रदायै नमः । 70 ओं पद्मालयायै नमः । ओं सुधायै नमः । ओं स्वाङ्गायै नमः । ओं पद्मरागकिरीटिण्यै नमः । ओं सर्वपापविनाशिन्यै नमः । ओं सकलसम्पत्प्रदायिन्यै नमः । ओं पद्मगन्धिन्यै नमः । ओं सर्वविघ्नक्लेशध्वंसिन्यै नमः । ओं हेममालिन्यै नमः । ओं विश्वमूर्त्यै नमः । 80 ओं अग्निकल्पायै नमः । ओं पुण्डरीकाक्षिण्यै नमः । ओं महाशक्त्यै नमः । ओं बुद्ध्यै नमः । ओं भूतेश्वर्यै नमः । ओं अदृश्यायै नमः । ओं शुभेक्षणायै नमः । ओं सर्वधर्मिण्यै नमः । ओं प्राणायै नमः । ओं श्रेष्ठायै नमः । 90 ओं शान्तायै नमः । ओं तत्त्वायै नमः । ओं सर्वजनन्यै नमः । ओं सर्वलोकवासिन्यै नमः । ओं कैवल्यरेखिन्यै नमः । ओं भक्तपोषणविनोदिन्यै नमः । ओं दारिद्र्यनाशिन्यै नमः । ओं सर्वोपद्रववारिण्यै नमः । ओं संहृदानन्दलहर्यै नमः । ओं चतुर्दशान्तकोणस्थायै नमः । 100 ओं सर्वात्मायै नमः । ओं सत्यवक्त्रे नमः । ओं न्यायायै नमः । ओं धनधान्यनिध्यै नमः । ओं कायकृत्यै नमः । ओं अनन्तजित्यै नमः । ओं अनन्तगुणरूपिण्यै नमः । ओं स्थिरेश्वर्यै नमः । 108 इति श्री राजराजेश्वर्यष्टोत्तरशतनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits