हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सरस्वती स्तोत्रम्
या
कुंदेंदु
तुषारहारधवला
या
शुभ्रवस्त्रावृता
या
वीणावरदंडमंडितकरा
या
श्वेतपद्मासना
।
या
ब्रह्माच्युत
शंकरप्रभृतिभिर्देवैस्सदा
पूजिता
सा
मां
पातु
सरस्वती
भगवती
निश्शेषजाड्यापहा
॥
1
॥
दोर्भिर्युक्ता
चतुर्भिः
स्फटिकमणिनिभै
रक्षमालांदधाना
हस्तेनैकेन
पद्मं
सितमपिच
शुकं
पुस्तकं
चापरेण
।
भासा
कुंदेंदुशंखस्फटिकमणिनिभा
भासमानाzसमाना
सा
मे
वाग्देवतेयं
निवसतु
वदने
सर्वदा
सुप्रसन्ना
॥
2
॥
सुरासुरैस्सेवितपादपंकजा
करे
विराजत्कमनीयपुस्तका
।
विरिंचिपत्नी
कमलासनस्थिता
सरस्वती
नृत्यतु
वाचि
मे
सदा
॥
3
॥
सरस्वती
सरसिजकेसरप्रभा
तपस्विनी
सितकमलासनप्रिया
।
घनस्तनी
कमलविलोललोचना
मनस्विनी
भवतु
वरप्रसादिनी
॥
4
॥
सरस्वति
नमस्तुभ्यं
वरदे
कामरूपिणि
।
विद्यारंभं
करिष्यामि
सिद्धिर्भवतु
मे
सदा
॥
5
॥
सरस्वति
नमस्तुभ्यं
सर्वदेवि
नमो
नमः
।
शांतरूपे
शशिधरे
सर्वयोगे
नमो
नमः
॥
6
॥
नित्यानंदे
निराधारे
निष्कलायै
नमो
नमः
।
विद्याधरे
विशालाक्षि
शुद्धज्ञाने
नमो
नमः
॥
7
॥
शुद्धस्फटिकरूपायै
सूक्ष्मरूपे
नमो
नमः
।
शब्दब्रह्मि
चतुर्हस्ते
सर्वसिद्ध्यै
नमो
नमः
॥
8
॥
मुक्तालंकृत
सर्वांग्यै
मूलाधारे
नमो
नमः
।
मूलमंत्रस्वरूपायै
मूलशक्त्यै
नमो
नमः
॥
9
॥
मनोन्मनि
महाभोगे
वागीश्वरि
नमो
नमः
।
वाग्म्यै
वरदहस्तायै
वरदायै
नमो
नमः
॥
10
॥
वेदायै
वेदरूपायै
वेदांतायै
नमो
नमः
।
गुणदोषविवर्जिन्यै
गुणदीप्त्यै
नमो
नमः
॥
11
॥
सर्वज्ञाने
सदानंदे
सर्वरूपे
नमो
नमः
।
संपन्नायै
कुमार्यै
च
सर्वज्ञे
ते
नमो
नमः
॥
12
॥
योगानार्य
उमादेव्यै
योगानंदे
नमो
नमः
।
दिव्यज्ञान
त्रिनेत्रायै
दिव्यमूर्त्यै
नमो
नमः
॥
13
॥
अर्धचंद्रजटाधारि
चंद्रबिंबे
नमो
नमः
।
चंद्रादित्यजटाधारि
चंद्रबिंबे
नमो
नमः
॥
14
॥
अणुरूपे
महारूपे
विश्वरूपे
नमो
नमः
।
अणिमाद्यष्टसिद्धायै
आनंदायै
नमो
नमः
॥
15
॥
ज्ञान
विज्ञान
रूपायै
ज्ञानमूर्ते
नमो
नमः
।
नानाशास्त्र
स्वरूपायै
नानारूपे
नमो
नमः
॥
16
॥
पद्मजा
पद्मवंशा
च
पद्मरूपे
नमो
नमः
।
परमेष्ठ्यै
परामूर्त्यै
नमस्ते
पापनाशिनी
॥
17
॥
महादेव्यै
महाकाल्यै
महालक्ष्म्यै
नमो
नमः
।
ब्रह्मविष्णुशिवायै
च
ब्रह्मनार्यै
नमो
नमः
॥
18
॥
कमलाकरपुष्पा
च
कामरूपे
नमो
नमः
।
कपालिकर्मदीप्तायै
कर्मदायै
नमो
नमः
॥
19
॥
सायं
प्रातः
पठेन्नित्यं
षण्मासात्सिद्धिरुच्यते
।
चोरव्याघ्रभयं
नास्ति
पठतां
शृण्वतामपि
॥
20
॥
इत्थं
सरस्वती
स्तोत्रमगस्त्यमुनि
वाचकम्
।
सर्वसिद्धिकरं
नॄणां
सर्वपापप्रणाशनम्
॥
21
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits