हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महा सरस्वती स्तवम्
अश्वतर
उवाच
।
जगद्धात्रीमहं
देवीमारिराधयिषुः
शुभाम्
।
स्तोष्ये
प्रणम्य
शिरसा
ब्रह्मयोनिं
सरस्वतीम्
॥
1
॥
सदसद्देवि
यत्किञ्चिन्मोक्षवच्चार्थवत्पदम्
।
तत्सर्वं
त्वय्यसंयोगं
योगवद्देवि
संस्थितम्
॥
2
॥
त्वमक्षरं
परं
देवि
यत्र
सर्वं
प्रतिष्ठितम्
।
अक्षरं
परमं
देवि
संस्थितं
परमाणुवत्
॥
3
॥
अक्षरं
परमं
ब्रह्म
विश्वञ्चैतत्क्षरात्मकम्
।
दारुण्यवस्थितो
वह्निर्भौमाश्च
परमाणवः
॥
4
॥
तथा
त्वयि
स्थितं
ब्रह्म
जगच्चेदमशेषतः
।
ओङ्काराक्षरसंस्थानं
यत्तु
देवि
स्थिरास्थिरम्
॥
5
॥
तत्र
मात्रात्रयं
सर्वमस्ति
यद्देवि
नास्ति
च
।
त्रयो
लोकास्त्रयो
वेदास्त्रैविद्यं
पावकत्रयम्
॥
6
॥
त्रीणि
ज्योतींषि
वर्णाश्च
त्रयो
धर्मागमास्तथा
।
त्रयो
गुणास्त्रयः
शब्दस्त्रयो
वेदास्तथाश्रमाः
॥
7
॥
त्रयः
कालास्तथावस्थाः
पितरोऽहर्निशादयः
।
एतन्मात्रात्रयं
देवि
तव
रूपं
सरस्वति
॥
8
॥
विभिन्नदर्शिनामाद्या
ब्रह्मणो
हि
सनातनाः
।
सोमसंस्था
हविः
संस्थाः
पाकसंस्थाश्च
सप्त
याः
॥
9
॥
तास्त्वदुच्चारणाद्देवि
क्रियन्ते
ब्रह्मवादिभिः
।
अनिर्देश्यं
तथा
चान्यदर्धमात्रान्वितं
परम्
॥
10
॥
अविकार्यक्षयं
दिव्यं
परिणामविवर्जितम्
।
तवैतत्परमं
रूपं
यन्न
शक्यं
मयोदितुम्
॥
11
॥
न
चास्येन
च
तज्जिह्वा
ताम्रोष्ठादिभिरुच्यते
।
इन्द्रोऽपि
वसवो
ब्रह्मा
चन्द्रार्कौ
ज्योतिरेव
च
॥
12
॥
विश्वावासं
विश्वरूपं
विश्वेशं
परमेश्वरम्
।
साङ्ख्यवेदान्तवादोक्तं
बहुशाखास्थिरीकृतम्
॥
13
॥
अनादिमध्यनिधनं
सदसन्न
सदेव
यत्
।
एकन्त्वनेकं
नाप्येकं
भवभेदसमाश्रितम्
॥
14
॥
अनाख्यं
षड्गुणाख्यञ्च
वर्गाख्यं
त्रिगुणाश्रयम्
।
नानाशक्तिमतामेकं
शक्तिवैभविकं
परम्
॥
15
॥
सुखासुखं
महासौख्यरूपं
त्वयि
विभाव्यते
।
एवं
देवि
त्वया
व्याप्तं
सकलं
निष्कलञ्च
यत्
।
अद्वैतावस्थितं
ब्रह्म
यच्च
द्वैते
व्यवस्थितम्
॥
16
॥
येऽर्था
नित्या
ये
विनश्यन्ति
चान्ये
ये
वा
स्थूला
ये
च
सूक्ष्मातिसूक्ष्माः
।
ये
वा
भूमौ
येऽन्तरीक्षेऽन्यतो
वा
तेषां
तेषां
त्वत्त
एवोपलब्धिः
॥
17
॥
यच्चामूर्तं
यच्च
मूर्तं
समस्तं
यद्वा
भूतेष्वेकमेकञ्च
किञ्चित्
।
यद्दिव्यस्ति
क्ष्मातले
खेऽन्यतो
वा
त्वत्सम्बन्धं
त्वत्स्वरैर्व्यञ्जनैश्च
॥
18
॥
इति
श्रीमार्कण्डेयपुराणे
त्रयोविंशोऽध्याये
अश्वतर
प्रोक्त
महासरस्वती
स्तवम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits