Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

नृसिंह सप्तकम्

अद्वैतवास्तवमतेः प्रणमज्जनानां
सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं
देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ 1 ॥
नतजनवचनऋतत्व-
प्रकाशकालस्य दैर्घ्यमसहिष्णुः ।
आविर्बभूव तरसा
यः स्तम्भान्नौमि तं महाविष्णुम् ॥ 2 ॥
वक्षोविदारणं य-
-श्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं
नरहरिवपुषं नमामि तं विष्णुम् ॥ 3 ॥
रिपुहृदयस्थितराजस-
-गुणमेवासृङ्मिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे
प्रह्लादपूर्वभाग्यनिचयमहम् ॥ 4 ॥
प्रह्लादं प्रणमज्जन-
-पङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं
चित्रं कुरुते नमामि यस्तमहम् ॥ 5 ॥
शरदिन्दुकुन्दधवलं
करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं
तरसैव ऋतं प्रकुर्वदहमीडे ॥ 6 ॥
मुखेन रौद्रो वपुषा च सौम्यः
सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवे-
-त्याख्याप्रसिद्धिर्यदसंशयाभूत् ॥ 7 ॥
इति श्री नृसिंह सप्तकम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits