ऋतं कर्तुमेवाशु नम्रस्य वाक्यं
सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 1 ॥
इनान्तर्दृगन्तश्च गाङ्गेयदेहं
सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 2 ॥
शिवं शैववर्या हरिं वैष्णवाग्र्याः
पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 3 ॥
कृपासागरं क्लिष्टरक्षाधुरीणं
कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 4 ॥
जगन्नेति नेतीति वाक्यैर्निषिद्ध्या-
-वशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 5 ॥
नतान्भोगसक्तानपीहाशु भक्तिं
विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 6 ॥
नरो यन्मनोर्जापतो भक्तिभावा-
-च्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 7 ॥
यदङ्घ्र्यब्जसेवापराणां नराणां
विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूतपूर्णेन्दुकोटिं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 8 ॥
रथाङ्गं पिनाकं वरं चाभयं यो
विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 9 ॥
पिनाकं रथाङ्गं वरं चाभयं च
प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 10 ॥
विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 11 ॥
सदा नन्दिनीतीरवासैकलोलं
मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताः स्युर्यदङ्घ्रौ
नमस्कुर्महे शैलवासं नृसिंहम् ॥ 12 ॥
यदीयस्वरूपं शिखा वेदराशे-
-रजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं
चिदानन्दरूपं तमीडे नृसिंहम् ॥ 13 ॥
यमाहुर्हि देहं हृषीकाणि केचि-
-त्परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः
सदानन्दरूपं तमीडे नृसिंहम् ॥ 14 ॥
सदानन्दचिद्रूपमाम्नायशीर्षै-
-र्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः
सदानन्दचिद्रूपमीडे नृसिंहम् ॥ 15 ॥
पुरा स्तम्भमध्याद्य आविर्बभूव
स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ 16 ॥
पुरा शङ्करार्या धराधीशभृत्यै-
-र्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं
बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ 17 ॥
सदेमानि भक्त्याख्यसूत्रेण दृब्धा-
-न्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते
सखीभिर्वृता शान्तिदान्त्यदिमाभिः ॥