Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

लक्ष्मी नृसिंह अष्टोत्तर शतनाम स्तोत्रम्

नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः ॥ 1 ॥
रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ 2 ॥
पञ्चाननः परब्रह्म चाऽघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ 3 ॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥ 4 ॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रः सुभद्रकः ॥ 5 ॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥ 6 ॥
भैरवाडम्बरो दिव्यश्चाऽच्युतः कविमाधवः ।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥ 7 ॥
विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥ 8 ॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानन्दः परन्तपः ॥ 9 ॥
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥ 10 ॥
वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥ 11 ॥
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ 12 ॥
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी ॥ 13 ॥
परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥ 14 ॥
इदं लक्ष्मीनृसिंहस्य नाम्नामष्टोत्तरं शतम् ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ 15 ॥
इति श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits