Haindavam Logo - Lord Ganesha
हैंदवम्
📍
Font Size:

काली सहस्र नामावलिः

ओं श्मशानकालिकायै नमः । ओं काल्यै नमः । ओं भद्रकाल्यै नमः । ओं कपालिन्यै नमः । ओं गुह्यकाल्यै नमः । ओं महाकाल्यै नमः । ओं कुरुकुल्लायै नमः । ओं अविरोधिन्यै नमः । ओं कालिकायै नमः । ओं कालरात्र्यै नमः । ओं महाकालनितम्बिन्यै नमः । ओं कालभैरवभार्यायै नमः । ओं कुलवर्त्मप्रकाशिन्यै नमः । ओं कामदायै नमः । ओं कामिन्यै नमः । ओं काम्यायै नमः । ओं कमनीयसुभाविन्यै नमः । ओं कस्तूरीरसनीलाङ्ग्यै नमः । ओं कुञ्जरेश्वरगामिन्यै नमः । ओं ककारवर्णसर्वाङ्ग्यै नमः । 20 ओं कामिन्यै नमः । ओं कामसुन्दर्यै नमः । ओं कामार्तायै नमः । ओं कामरूपायै नमः । ओं कामधेनवे नमः । ओं कलावत्यै नमः । ओं कान्तायै नमः । ओं कामस्वरूपायै नमः । ओं कामाख्यायै नमः । ओं कुलपालिन्यै नमः । ओं कुलीनायै नमः । ओं कुलवत्यै नमः । ओं अम्बायै नमः । ओं दुर्गायै नमः । ओं दुर्गार्तिनाशिन्यै नमः । ओं कौमार्यै नमः । ओं कुलजायै नमः । ओं कृष्णाकृष्णदेहायै नमः । ओं कृशोदर्यै नमः । ओं कृशाङ्ग्यै नमः । 40 ओं कुलिशाङ्ग्यै नमः । ओं क्रीङ्कार्यै नमः । ओं कमलायै नमः । ओं कलायै नमः । ओं करालास्यायै नमः । ओं कराल्यै नमः । ओं कुलकान्तायै नमः । ओं अपराजितायै नमः । ओं उग्रायै नमः । ओं उग्रप्रभायै नमः । ओं दीप्तायै नमः । ओं विप्रचित्तायै नमः । ओं महाबलायै नमः । ओं नीलायै नमः । ओं घनायै नमः । ओं बलाकायै नमः । ओं मात्रामुद्रापितायै नमः । ओं असितायै नमः । ओं ब्राह्म्यै नमः । ओं नारायण्यै नमः । 60 ओं भद्रायै नमः । ओं सुभद्रायै नमः । ओं भक्तवत्सलायै नमः । ओं माहेश्वर्यै नमः । ओं चामुण्डायै नमः । ओं वाराह्यै नमः । ओं नारसिंहिकायै नमः । ओं वज्राङ्ग्यै नमः । ओं वज्रकङ्काल्यै नमः । ओं नृमुण्डस्रग्विण्यै नमः । ओं शिवायै नमः । ओं मालिन्यै नमः । ओं नरमुण्डाल्यै नमः । ओं गलद्रक्तविभूषणायै नमः । ओं रक्तचन्दनसिक्ताङ्ग्यै नमः । ओं सिन्दूरारुणमस्तकायै नमः । ओं घोररूपायै नमः । ओं घोरदंष्ट्रायै नमः । ओं घोराघोरतरायै नमः । ओं शुभायै नमः । 80 ओं महादंष्ट्रायै नमः । ओं महामायायै नमः । ओं सुदत्यै नमः । ओं युगदन्तुरायै नमः । ओं सुलोचनायै नमः । ओं विरूपाक्ष्यै नमः । ओं विशालाक्ष्यै नमः । ओं त्रिलोचनायै नमः । ओं शारदेन्दुप्रसन्नास्यायै नमः । ओं स्फुरत्स्मेराम्बुजेक्षणायै नमः । ओं अट्टहासायै नमः । ओं प्रसन्नास्यायै नमः । ओं स्मेरवक्त्रायै नमः । ओं सुभाषिण्यै नमः । ओं प्रसन्नपद्मवदनायै नमः । ओं स्मितास्यायै नमः । ओं प्रियभाषिण्यै नमः । ओं कोटराक्ष्यै नमः । ओं कुलश्रेष्ठायै नमः । ओं महत्यै नमः । 100 ओं बहुभाषिण्यै नमः । ओं सुमत्यै नमः । ओं कुमत्यै नमः । ओं चण्डायै नमः । ओं चण्डमुण्डायै नमः । ओं अतिवेगिन्यै नमः । ओं प्रचण्डायै नमः । ओं चण्डिकायै नमः । ओं चण्ड्यै नमः । ओं चर्चिकायै नमः । ओं चण्डवेगिन्यै नमः । ओं सुकेश्यै नमः । ओं मुक्तकेश्यै नमः । ओं दीर्घकेश्यै नमः । ओं महत्कचायै नमः । ओं प्रेतदेहाकर्णपूरायै नमः । ओं प्रेतपाणीसुमेखलायै नमः । ओं प्रेतासनायै नमः । ओं प्रियप्रेतायै नमः । ओं प्रेतभूमिकृतालयायै नमः । 120 ओं श्मशानवासिन्यै नमः । ओं पुण्यायै नमः । ओं पुण्यदायै नमः । ओं कुलपण्डितायै नमः । ओं पुण्यालयायै नमः । ओं पुण्यदेहायै नमः । ओं पुण्यश्लोक्यै नमः । ओं पावन्यै नमः । ओं पुत्रायै नमः । ओं पवित्रायै नमः । ओं परमायै नमः । ओं पुरायै नमः । ओं पुण्यविभूषणायै नमः । ओं पुण्यनाम्न्यै नमः । ओं भीतिहरायै नमः । ओं वरदायै नमः । ओं खड्गपाणिन्यै नमः । ओं नृमुण्डहस्तशस्तायै नमः । ओं छिन्नमस्तायै नमः । ओं सुनासिकायै नमः । 140 ओं दक्षिणायै नमः । ओं श्यामलायै नमः । ओं श्यामायै नमः । ओं शान्तायै नमः । ओं पीनोन्नतस्तन्यै नमः । ओं दिगम्बरायै नमः । ओं घोररावायै नमः । ओं सृक्कान्तायै नमः । ओं रक्तवाहिन्यै नमः । ओं घोररावायै नमः । ओं शिवायै नमः । ओं खड्गायै नमः । ओं विशङ्कायै नमः । ओं मदनातुरायै नमः । ओं मत्तायै नमः । ओं प्रमत्तायै नमः । ओं प्रमदायै नमः । ओं सुधासिन्धुनिवासिन्यै नमः । ओं अतिमत्तायै नमः । ओं महामत्तायै नमः । 160 ओं सर्वाकर्षणकारिण्यै नमः । ओं गीतप्रियायै नमः । ओं वाद्यरतायै नमः । ओं प्रेतनृत्यपरायणायै नमः । ओं चतुर्भुजायै नमः । ओं दशभुजायै नमः । ओं अष्टादशभुजायै नमः । ओं कात्यायन्यै नमः । ओं जगन्मात्रे नमः । ओं जगत्यै नमः । ओं परमेश्वर्यै नमः । ओं जगद्बन्धवे नमः । ओं जगद्धात्र्यै नमः । ओं जगदानन्दकारिण्यै नमः । ओं जगन्मय्यै नमः । ओं हैमवत्यै नमः । ओं महामायायै नमः । ओं महामहायै नमः । ओं नागयज्ञोपवीताङ्ग्यै नमः । ओं नागिन्यै नमः । 180 ओं नागशायिन्यै नमः । ओं नागकन्यायै नमः । ओं देवकन्यायै नमः । ओं गन्धर्व्यै नमः । ओं किन्नरेश्वर्यै नमः । ओं मोहरात्र्यै नमः । ओं महारात्र्यै नमः । ओं दारुणायै नमः । ओं भासुराम्बरायै नमः । ओं विद्याधर्यै नमः । ओं वसुमत्यै नमः । ओं यक्षिण्यै नमः । ओं योगिन्यै नमः । ओं जरायै नमः । ओं राक्षस्यै नमः । ओं डाकिन्यै नमः । ओं वेदमय्यै नमः । ओं वेदविभूषणायै नमः । ओं श्रुत्यै नमः । ओं स्मृत्यै नमः । 200 ओं महाविद्यायै नमः । ओं गुह्यविद्यायै नमः । ओं पुरातन्यै नमः । ओं चिन्त्यायै नमः । ओं अचिन्त्यायै नमः । ओं सुधायै नमः । ओं स्वाहायै नमः । ओं निद्रायै नमः । ओं तन्द्रायै नमः । ओं पार्वत्यै नमः । ओं अपर्णायै नमः । ओं निश्चलायै नमः । ओं लोलायै नमः । ओं सर्वविद्यायै नमः । ओं तपस्विन्यै नमः । ओं गङ्गायै नमः । ओं काश्यै नमः । ओं शच्यै नमः । ओं सीतायै नमः । ओं सत्यै नमः । 220 ओं सत्यपरायणायै नमः । ओं नीत्यै नमः । ओं सुनीत्यै नमः । ओं सुरुच्यै नमः । ओं तुष्ट्यै नमः । ओं पुष्ट्यै नमः । ओं धृत्यै नमः । ओं क्षमायै नमः । ओं वाण्यै नमः । ओं बुद्ध्यै नमः । ओं महालक्ष्म्यै नमः । ओं लक्ष्म्यै नमः । ओं नीलसरस्वत्यै नमः । ओं स्रोतस्वत्यै नमः । ओं सरस्वत्यै नमः । ओं मातङ्ग्यै नमः । ओं विजयायै नमः । ओं जयायै नमः । ओं नद्यै नमः । ओं सिन्धवे नमः । 240 ओं सर्वमय्यै नमः । ओं तारायै नमः । ओं शून्यनिवासिन्यै नमः । ओं शुद्धायै नमः । ओं तरङ्गिण्यै नमः । ओं मेधायै नमः । ओं लाकिन्यै नमः । ओं बहुरूपिण्यै नमः । ओं स्थूलायै नमः । ओं सूक्ष्मायै नमः । ओं सूक्ष्मतरायै नमः । ओं भगवत्यै नमः । ओं अनुरूपिण्यै नमः । ओं परमाणुस्वरूपायै नमः । ओं चिदानन्दस्वरूपिण्यै नमः । ओं सदानन्दमय्यै नमः । ओं सत्यायै नमः । ओं सर्वानन्दस्वरूपिण्यै नमः । ओं सुनन्दायै नमः । ओं नन्दिन्यै नमः । 260 ओं स्तुत्यायै नमः । ओं स्तवनीयस्वभाविन्यै नमः । ओं रङ्गिण्यै नमः । ओं टङ्किन्यै नमः । ओं चित्रायै नमः । ओं विचित्रायै नमः । ओं चित्ररूपिण्यै नमः । ओं पद्मायै नमः । ओं पद्मालयायै नमः । ओं पद्ममुख्यै नमः । ओं पद्मविभूषणायै नमः । ओं डाकिन्यै नमः । ओं शाकिन्यै नमः । ओं क्षान्तायै नमः । ओं राकिण्यै नमः । ओं रुधिरप्रियायै नमः । ओं भ्रान्त्यै नमः । ओं भवान्यै नमः । ओं रुद्राण्यै नमः । ओं मृडान्यै नमः । 280 ओं शत्रुमर्दिन्यै नमः । ओं उपेन्द्राण्यै नमः । ओं महेन्द्राण्यै नमः । ओं ज्योत्स्नायै नमः । ओं चन्द्रस्वरूपिण्यै नमः । ओं सूर्यात्मिकायै नमः । ओं रुद्रपत्न्यै नमः । ओं रौद्र्यै नमः । ओं स्त्रियै नमः । ओं प्रकृत्यै नमः । ओं पुंसे नमः । ओं शक्त्यै नमः । ओं मुक्त्यै नमः । ओं मत्यै नमः । ओं मात्रे नमः । ओं भक्त्यै नमः । ओं मुक्त्यै नमः । ओं पतिव्रतायै नमः । ओं सर्वेश्वर्यै नमः । ओं सर्वमात्रे नमः । 300 ओं शर्वाण्यै नमः । ओं हरवल्लभायै नमः । ओं सर्वज्ञायै नमः । ओं सिद्धिदायै नमः । ओं सिद्धायै नमः । ओं भव्याभव्यायै नमः । ओं भयापहायै नमः । ओं कर्त्र्यै नमः । ओं हर्त्र्यै नमः । ओं पालयित्र्यै नमः । ओं शर्वर्यै नमः । ओं तामस्यै नमः । ओं दयायै नमः । ओं तमिस्रातामस्यै नमः । ओं स्थास्नवे नमः । ओं स्थिरायै नमः । ओं धीरायै नमः । ओं तपस्विन्यै नमः । ओं चार्वङ्ग्यै नमः । ओं चञ्चलायै नमः । 320 ओं लोलजिह्वायै नमः । ओं चारुचरित्रिण्यै नमः । ओं त्रपायै नमः । ओं त्रपावत्यै नमः । ओं लज्जायै नमः । ओं विलज्जायै नमः । ओं हरयौवत्यै नमः । ओं सत्यवत्यै नमः । ओं धर्मनिष्ठायै नमः । ओं श्रेष्ठायै नमः । ओं निष्ठुरवादिन्यै नमः । ओं गरिष्ठायै नमः । ओं दुष्टसंहन्त्र्यै नमः । ओं विशिष्टायै नमः । ओं श्रेयस्यै नमः । ओं घृणायै नमः । ओं भीमायै नमः । ओं भयानकायै नमः । ओं भीमनादिन्यै नमः । ओं भिये नमः । 340 ओं प्रभावत्यै नमः । ओं वागीश्वर्यै नमः । ओं श्रिये नमः । ओं यमुनायै नमः । ओं यज्ञकर्त्र्यै नमः । ओं यजुःप्रियायै नमः । ओं ऋक्सामाथर्वनिलयायै नमः । ओं रागिण्यै नमः । ओं शोभनायै नमः । ओं सुरायै नमः । ओं कलकण्ठ्यै नमः । ओं कम्बुकण्ठ्यै नमः । ओं वेणुवीणापरायणायै नमः । ओं वंशिन्यै नमः । ओं वैष्णव्यै नमः । ओं स्वच्छायै नमः । ओं धात्र्यै नमः । ओं त्रिजगदीश्वर्यै नमः । ओं मधुमत्यै नमः । ओं कुण्डलिन्यै नमः । 360 ओं ऋद्ध्यै नमः । ओं शुद्ध्यै नमः । ओं शुचिस्मितायै नमः । ओं रम्भोर्वशीरतीरामायै नमः । ओं रोहिण्यै नमः । ओं रेवत्यै नमः । ओं मघायै नमः । ओं शङ्खिन्यै नमः । ओं चक्रिण्यै नमः । ओं कृष्णायै नमः । ओं गदिन्यै नमः । ओं पद्मिन्यै नमः । ओं शूलिन्यै नमः । ओं परिघास्त्रायै नमः । ओं पाशिन्यै नमः । ओं शार्ङ्गपाणिन्यै नमः । ओं पिनाकधारिण्यै नमः । ओं धूम्रायै नमः । ओं सुरभ्यै नमः । ओं वनमालिन्यै नमः । 380 ओं रथिन्यै नमः । ओं समरप्रीतायै नमः । ओं वेगिन्यै नमः । ओं रणपण्डितायै नमः । ओं जटिन्यै नमः । ओं वज्रिण्यै नमः । ओं नीललावण्याम्बुधिचन्द्रिकायै नमः । ओं बलिप्रियायै नमः । ओं सदापूज्यायै नमः । ओं दैत्येन्द्रमथिन्यै नमः । ओं महिषासुरसंहर्त्र्यै नमः । ओं कामिन्यै नमः । ओं रक्तदन्तिकायै नमः । ओं रक्तपायै नमः । ओं रुधिराक्ताङ्ग्यै नमः । ओं रक्तखर्परधारिण्यै नमः । ओं रक्तप्रियायै नमः । ओं मांसरुचये नमः । ओं वासवासक्तमानसायै नमः । ओं गलच्छोणितमुण्डाल्यै नमः । 400 ओं कण्ठमालाविभूषणायै नमः । ओं शवासनायै नमः । ओं चितान्तस्स्थायै नमः । ओं माहेश्यै नमः । ओं वृषवाहिन्यै नमः । ओं व्याघ्रत्वगम्बरायै नमः । ओं चीनचैलिन्यै नमः । ओं सिंहवाहिन्यै नमः । ओं वामदेव्यै नमः । ओं महादेव्यै नमः । ओं गौर्यै नमः । ओं सर्वज्ञभामिन्यै नमः । ओं बालिकायै नमः । ओं तरुण्यै नमः । ओं वृद्धायै नमः । ओं वृद्धमात्रे नमः । ओं जरातुरायै नमः । ओं सुभ्रुवे नमः । ओं विलासिन्यै नमः । ओं ब्रह्मवादिन्यै नमः । 420 ओं ब्राह्मण्यै नमः । ओं सत्यै नमः । ओं सुप्तवत्यै नमः । ओं चित्रलेखायै नमः । ओं लोपामुद्रायै नमः । ओं सुरेश्वर्यै नमः । ओं अमोघायै नमः । ओं अरुन्धत्यै नमः । ओं तीक्ष्णायै नमः । ओं भोगवत्यै नमः । ओं अनुरागिण्यै नमः । ओं मन्दाकिन्यै नमः । ओं मन्दहासायै नमः । ओं ज्वालामुख्यै नमः । ओं असुरान्तकायै नमः । ओं मानदायै नमः । ओं मानिनीमान्यायै नमः । ओं माननीयायै नमः । ओं मदातुरायै नमः । ओं मदिरायै नमः । 440 ओं मेदुरायै नमः । ओं उन्मादायै नमः । ओं मेध्यायै नमः । ओं साध्यायै नमः । ओं प्रसादिन्यै नमः । ओं सुमध्यायै नमः । ओं अनन्तगुणिन्यै नमः । ओं सर्वलोकोत्तमोत्तमायै नमः । ओं जयदायै नमः । ओं जित्वरायै नमः । ओं जैत्र्यै नमः । ओं जयश्रिये नमः । ओं जयशालिन्यै नमः । ओं सुखदायै नमः । ओं शुभदायै नमः । ओं सत्यायै नमः । ओं सख्यै नमः । ओं सङ्क्षोभकारिण्यै नमः । ओं शिवदूत्यै नमः । ओं भूतिमत्यै नमः । 460 ओं विभूत्यै नमः । ओं भूषणाननायै नमः । ओं कौमार्यै नमः । ओं कुलजायै नमः । ओं कुन्त्यै नमः । ओं कुलस्त्रीकुलपालिकायै नमः । ओं कीर्त्यै नमः । ओं यशस्विन्यै नमः । ओं भूषायै नमः । ओं भूष्ठायै नमः । ओं भूतपतिप्रियायै नमः । ओं सुगुणायै नमः । ओं निर्गुणायै नमः । ओं अधिष्ठायै नमः । ओं निष्ठायै नमः । ओं काष्ठायै नमः । ओं प्रकाशिन्यै नमः । ओं धनिष्ठायै नमः । ओं धनदायै नमः । ओं धन्यायै नमः । 480 ओं वसुधायै नमः । ओं सुप्रकाशिन्यै नमः । ओं उर्वीगुर्व्यै नमः । ओं गुरुश्रेष्ठायै नमः । ओं षड्गुणायै नमः । ओं त्रिगुणात्मिकायै नमः । ओं राज्ञामाज्ञायै नमः । ओं महाप्राज्ञायै नमः । ओं सुगुणायै नमः । ओं निर्गुणात्मिकायै नमः । ओं महाकुलीनायै नमः । ओं निष्कामायै नमः । ओं सकामायै नमः । ओं कामजीवनायै नमः । ओं कामदेवकलायै नमः । ओं रामायै नमः । ओं अभिरामायै नमः । ओं शिवनर्तक्यै नमः । ओं चिन्तामण्यै नमः । ओं कल्पलतायै नमः । 500 ओं जाग्रत्यै नमः । ओं दीनवत्सलायै नमः । ओं कार्तिक्यै नमः । ओं कृत्तिकायै नमः । ओं कृत्यायै नमः । ओं अयोध्यायै नमः । ओं विषमायै नमः । ओं समायै नमः । ओं सुमन्त्रायै नमः । ओं मन्त्रिण्यै नमः । ओं घूर्णायै नमः । ओं ह्लादिन्यै नमः । ओं क्लेशनाशिन्यै नमः । ओं त्रैलोक्यजनन्यै नमः । ओं हृष्टायै नमः । ओं निर्मांसामलरूपिण्यै नमः । ओं तडागनिम्नजठरायै नमः । ओं शुष्कमांसास्थिमालिन्यै नमः । ओं अवन्त्यै नमः । ओं मधुरायै नमः । 520 ओं हृद्यायै नमः । ओं त्रैलोक्यपावनक्षमायै नमः । ओं व्यक्ताव्यक्तायै नमः । ओं अनेकमूर्त्यै नमः । ओं शरभ्यै नमः । ओं भीमनादिन्यै नमः । ओं क्षेमङ्कर्यै नमः । ओं शाङ्कर्यै नमः । ओं सर्वसम्मोहकारिण्यै नमः । ओं ऊर्ध्वतेजस्विन्यै नमः । ओं क्लिन्नायै नमः । ओं महातेजस्विन्यै नमः । ओं अद्वैतायै नमः । ओं योगिन्यै नमः । ओं पूज्यायै नमः । ओं सुरभ्यै नमः । ओं सर्वमङ्गलायै नमः । ओं सर्वप्रियङ्कर्यै नमः । ओं भोग्यायै नमः । ओं धनिन्यै नमः । 540 ओं पिशिताशनायै नमः । ओं भयङ्कर्यै नमः । ओं पापहरायै नमः । ओं निष्कलङ्कायै नमः । ओं वशङ्कर्यै नमः । ओं आशायै नमः । ओं तृष्णायै नमः । ओं चन्द्रकलायै नमः । ओं निद्राणायै नमः । ओं वायुवेगिन्यै नमः । ओं सहस्रसूर्यसङ्काशायै नमः । ओं चन्द्रकोटिसमप्रभायै नमः । ओं निशुम्भशुम्भसंहर्त्र्यै नमः । ओं रक्तबीजविनाशिन्यै नमः । ओं मधुकैटभसंहर्त्र्यै नमः । ओं महिषासुरघातिन्यै नमः । ओं वह्निमण्डलमध्यस्थायै नमः । ओं सर्वसत्त्वप्रतिष्ठितायै नमः । ओं सर्वाचारवत्यै नमः । ओं सर्वदेवकन्याऽतिदेवतायै नमः । 560 ओं दक्षकन्यायै नमः । ओं दक्षयज्ञनाशिन्यै नमः । ओं दुर्गतारिण्यै नमः । ओं इज्यायै नमः । ओं पूज्यायै नमः । ओं विभायै नमः । ओं भूत्यै नमः । ओं सत्कीर्त्यै नमः । ओं ब्रह्मचारिण्यै नमः । ओं रम्भोर्वै नमः । ओं चतुरायै नमः । ओं राकायै नमः । ओं जयन्त्यै नमः । ओं वरुणायै नमः । ओं कुह्वै नमः । ओं मनस्विन्यै नमः । ओं देवमात्रे नमः । ओं यशस्यायै नमः । ओं ब्रह्मवादिन्यै नमः । ओं सिद्धिदायै नमः । 580 ओं वृद्धिदायै नमः । ओं वृद्ध्यै नमः । ओं सर्वाद्यायै नमः । ओं सर्वदायिन्यै नमः । ओं आधाररूपिण्यै नमः । ओं ध्येयायै नमः । ओं मूलाधारनिवासिन्यै नमः । ओं आज्ञायै नमः । ओं प्रज्ञायै नमः । ओं पूर्णमनसे नमः । ओं चन्द्रमुख्यै नमः । ओं अनुकूलिन्यै नमः । ओं वावदूकायै नमः । ओं निम्ननाभ्यै नमः । ओं सत्यसन्धायै नमः । ओं दृढव्रतायै नमः । ओं आन्वीक्षिक्यै नमः । ओं दण्डनीत्यै नमः । ओं त्रय्यै नमः । ओं त्रिदिवसुन्दर्यै नमः । 600 ओं ज्वालिन्यै नमः । ओं ज्वलिन्यै नमः । ओं शैलतनयायै नमः । ओं विन्ध्यवासिन्यै नमः । ओं प्रत्ययायै नमः । ओं खेचर्यै नमः । ओं धैर्यायै नमः । ओं तुरीयायै नमः । ओं विमलातुरायै नमः । ओं प्रगल्भायै नमः । ओं वारुण्यै नमः । ओं क्षामायै नमः । ओं दर्शिन्यै नमः । ओं विस्फुलिङ्गिन्यै नमः । ओं भक्त्यै नमः । ओं सिद्ध्यै नमः । ओं सदाप्राप्त्यै नमः । ओं प्रकाम्यायै नमः । ओं महिम्ने नमः । ओं अणिम्ने नमः । 620 ओं ईक्षायै नमः । ओं सिद्ध्यै नमः । ओं वशित्वायै नमः । ओं ईशित्वायै नमः । ओं ऊर्ध्वनिवासिन्यै नमः । ओं लघिम्ने नमः । ओं सावित्र्यै नमः । ओं गायत्र्यै नमः । ओं भुवनेश्वर्यै नमः । ओं मनोहरायै नमः । ओं चितायै नमः । ओं दिव्यायै नमः । ओं देव्युदारायै नमः । ओं मनोरमायै नमः । ओं पिङ्गलायै नमः । ओं कपिलायै नमः । ओं जिह्वायै नमः । ओं रसज्ञायै नमः । ओं रसिकायै नमः । ओं रसायै नमः । 640 ओं सुषुम्नेडायोगवत्यै नमः । ओं गान्धार्यै नमः । ओं नवकान्तकायै नमः । ओं पाञ्चालीरुक्मिणीराधाराध्यायै नमः । ओं भीमायै नमः । ओं राधिकायै नमः । ओं अमृतायै नमः । ओं तुलसीबृन्दायै नमः । ओं कैटभ्यै नमः । ओं कपटेश्वर्यै नमः । ओं उग्रचण्डेश्वर्यै नमः । ओं वीरजनन्यै नमः । ओं वीरसुन्दर्यै नमः । ओं उग्रतारायै नमः । ओं यशोदाख्यायै नमः । ओं देवक्यै नमः । ओं देवमानितायै नमः । ओं निरञ्जनायै नमः । ओं चित्रदेव्यै नमः । ओं क्रोधिन्यै नमः । 660 ओं कुलदीपिकायै नमः । ओं कुलरागीश्वर्यै नमः । ओं ज्वालायै नमः । ओं मात्रिकायै नमः । ओं द्राविण्यै नमः । ओं द्रवायै नमः । ओं योगीश्वर्यै नमः । ओं महामार्यै नमः । ओं भ्रामर्यै नमः । ओं बिन्दुरूपिण्यै नमः । ओं दूत्यै नमः । ओं प्राणेश्वर्यै नमः । ओं गुप्तायै नमः । ओं बहुलायै नमः । ओं डामर्यै नमः । ओं प्रभायै नमः । ओं कुब्जिकायै नमः । ओं ज्ञानिन्यै नमः । ओं ज्येष्ठायै नमः । ओं भुशुण्ड्यै नमः । 680 ओं प्रकटाकृत्यै नमः । ओं द्राविण्यै नमः । ओं गोपिन्यै नमः । ओं मायाकामबीजेश्वर्यै नमः । ओं प्रियायै नमः । ओं शाकम्भर्यै नमः । ओं कोकनदायै नमः । ओं सुसत्यायै नमः । ओं तिलोत्तमायै नमः । ओं अमेयायै नमः । ओं विक्रमायै नमः । ओं क्रूरायै नमः । ओं सम्यक्छीलायै नमः । ओं त्रिविक्रमायै नमः । ओं स्वस्त्यै नमः । ओं हव्यवहायै नमः । ओं प्रीतिरुक्मायै नमः । ओं धूम्रार्चिरङ्गदायै नमः । ओं तपिन्यै नमः । ओं तापिन्यै नमः । 700 ओं विश्वभोगदायै नमः । ओं धरणीधरायै नमः । ओं त्रिखण्डायै नमः । ओं रोधिन्यै नमः । ओं वश्यायै नमः । ओं सकलायै नमः । ओं शब्दरूपिण्यै नमः । ओं बीजरूपायै नमः । ओं महामुद्रायै नमः । ओं वशिन्यै नमः । ओं योगरूपिण्यै नमः । ओं अनङ्गकुसुमायै नमः । ओं अनङ्गमेखलायै नमः । ओं अनङ्गरूपिण्यै नमः । ओं अनङ्गमदनायै नमः । ओं अनङ्गरेखायै नमः । ओं अनङ्गाङ्कुशेश्वर्यै नमः । ओं अनङ्गमालिन्यै नमः । ओं कामेश्वर्यै नमः । ओं सर्वार्थसाधिकायै नमः । 720 ओं सर्वतन्त्रमय्यै नमः । ओं सर्वमोदिन्यै नमः । ओं आनन्दरूपिण्यै नमः । ओं वज्रेश्वर्यै नमः । ओं जयिन्यै नमः । ओं सर्वदुःखक्षयङ्कर्यै नमः । ओं षडङ्गयुवत्यै नमः । ओं योगयुक्तायै नमः । ओं ज्वालांशुमालिन्यै नमः । ओं दुराशयायै नमः । ओं दुराधारायै नमः । ओं दुर्जयायै नमः । ओं दुर्गरूपिण्यै नमः । ओं दुरन्तायै नमः । ओं दुष्कृतिहरायै नमः । ओं दुर्ध्येयायै नमः । ओं दुरतिक्रमायै नमः । ओं हंसेश्वर्यै नमः । ओं त्रिलोकस्थायै नमः । ओं शाकम्भर्यै नमः । 740 ओं अनुरागिण्यै नमः । ओं त्रिकोणनिलयायै नमः । ओं नित्यायै नमः । ओं परमामृतरञ्जितायै नमः । ओं महाविद्येश्वर्यै नमः । ओं श्वेतायै नमः । ओं भेरुण्डायै नमः । ओं कुलसुन्दर्यै नमः । ओं त्वरितायै नमः । ओं भक्तिसंयुक्तायै नमः । ओं भक्तिवश्यायै नमः । ओं सनातन्यै नमः । ओं भक्तानन्दमय्यै नमः । ओं भक्तभावितायै नमः । ओं भक्तशङ्कर्यै नमः । ओं सर्वसौन्दर्यनिलयायै नमः । ओं सर्वसौभाग्यशालिन्यै नमः । ओं सर्वसम्भोगभवनायै नमः । ओं सर्वसौख्यानुरूपिण्यै नमः । ओं कुमारीपूजनरतायै नमः । 760 ओं कुमारीव्रतचारिण्यै नमः । ओं कुमारीभक्तिसुखिन्यै नमः । ओं कुमारीरूपधारिण्यै नमः । ओं कुमारीपूजकप्रीतायै नमः । ओं कुमारीप्रीतिदप्रियायै नमः । ओं कुमारीसेवकासङ्गायै नमः । ओं कुमारीसेवकालयायै नमः । ओं आनन्दभैरव्यै नमः । ओं बालभैरव्यै नमः । ओं वटुभैरव्यै नमः । ओं श्मशानभैरव्यै नमः । ओं कालभैरव्यै नमः । ओं पुरभैरव्यै नमः । ओं महाभैरवपत्न्यै नमः । ओं परमानन्दभैरव्यै नमः । ओं सुरानन्दभैरव्यै नमः । ओं उन्मदानन्दभैरव्यै नमः । ओं यज्ञानन्दभैरव्यै नमः । ओं तरुणभैरव्यै नमः । ओं ज्ञानानन्दभैरव्यै नमः । 780 ओं अमृतानन्दभैरव्यै नमः । ओं महाभयङ्कर्यै नमः । ओं तीव्रायै नमः । ओं तीव्रवेगायै नमः । ओं तरस्विन्यै नमः । ओं त्रिपुरापरमेशान्यै नमः । ओं सुन्दर्यै नमः । ओं पुरसुन्दर्यै नमः । ओं त्रिपुरेश्यै नमः । ओं पञ्चदश्यै नमः । ओं पञ्चम्यै नमः । ओं पुरवासिन्यै नमः । ओं महासप्तदश्यै नमः । ओं षोडश्यै नमः । ओं त्रिपुरेश्वर्यै नमः । ओं महाङ्कुशस्वरूपायै नमः । ओं महाचक्रेश्वर्यै नमः । ओं नवचक्रेश्वर्यै नमः । ओं चक्रेश्वर्यै नमः । ओं त्रिपुरमालिन्यै नमः । 800 ओं राजचक्रेश्वर्यै नमः । ओं राज्ञ्यै नमः । ओं महात्रिपुरसुन्दर्यै नमः । ओं सिन्दूरपूररुचिरायै नमः । ओं श्रीमत्त्रिपुरसुन्दर्यै नमः । ओं सर्वाङ्गसुन्दर्यै नमः । ओं रक्तारक्तवस्त्रोत्तरीयकायै नमः । ओं यवायावकसिन्दूररक्तचन्दनधारिण्यै नमः । ओं यवायावकसिन्दूररक्तचन्दनरूपधृषे नमः । ओं चमरीवालकुटिलायै नमः । ओं निर्मलश्यामकेशिन्यै नमः । ओं वज्रमौक्तिकरत्नाढ्यायै नमः । ओं किरीटकुण्डलोज्ज्वलायै नमः । ओं रत्नकुण्डलसंयुक्तायै नमः । ओं स्फुरद्गण्डमनोरमायै नमः । ओं कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिकायै नमः । ओं मुक्ताविद्रुममाणिक्यहीराढ्यस्तनमण्डलायै नमः । ओं सूर्यकान्तेन्दुकान्ताढ्यायै नमः । ओं स्पर्शाश्मगलभूषणायै नमः । ओं बीजपूरस्फुरद्बीजदन्तपङ्क्तये नमः । 820 ओं अनुत्तमायै नमः । ओं कामकोदण्डकाभग्नभ्रूकटाक्षप्रवर्षिण्यै नमः । ओं मातङ्गकुम्भवक्षोजायै नमः । ओं लसत्कनकदक्षिणायै नमः । ओं मनोज्ञशष्कुलीकर्णायै नमः । ओं हंसीगतिविडम्बिन्यै नमः । ओं पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिन्यै नमः । ओं कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपितायै नमः । ओं विचित्ररत्नपृथिवीकल्पशाखितलस्थितायै नमः । ओं रत्नद्वीपस्फुरद्रत्नसिंहासननिवासिन्यै नमः । ओं षट्चक्रभेदनकर्यै नमः । ओं परमानन्दरूपिण्यै नमः । ओं सहस्रदलपद्मान्तायै नमः । ओं चन्द्रमण्डलवर्तिन्यै नमः । ओं ब्रह्मरूपायै नमः । ओं शिवक्रोडायै नमः । ओं नानासुखविलासिन्यै नमः । ओं हरविष्णुविरिञ्चीन्द्रग्रहनायकसेवितायै नमः । ओं शिवायै नमः । ओं शैवायै नमः । 840 ओं रुद्राण्यै नमः । ओं शिवनादिन्यै नमः । ओं महादेवप्रियायै नमः । ओं देव्यै नमः । ओं अनङ्गमेखलायै नमः । ओं डाकिन्यै नमः । ओं योगिन्यै नमः । ओं उपयोगिन्यै नमः । ओं मतायै नमः । ओं माहेश्वर्यै नमः । ओं वैष्णव्यै नमः । ओं भ्रामर्यै नमः । ओं शिवरूपिण्यै नमः । ओं अलम्बुसायै नमः । ओं भोगवत्यै नमः । ओं क्रोधरूपायै नमः । ओं सुमेखलायै नमः । ओं गान्धार्यै नमः । ओं हस्तिजिह्वायै नमः । ओं इडायै नमः । 860 ओं शुभङ्कर्यै नमः । ओं पिङ्गलायै नमः । ओं दक्षसूत्र्यै नमः । ओं सुषुम्नायै नमः । ओं गन्धिन्यै नमः । ओं भगात्मिकायै नमः । ओं भगाधारायै नमः । ओं भगेश्यै नमः । ओं भगरूपिण्यै नमः । ओं लिङ्गाख्यायै नमः । ओं कामेश्यै नमः । ओं त्रिपुरायै भैरव्यै नमः । ओं लिङ्गगीत्यै नमः । ओं सुगीत्यै नमः । ओं लिङ्गस्थायै नमः । ओं लिङ्गरूपधृषे नमः । ओं लिङ्गमालायै नमः । ओं लिङ्गभवायै नमः । ओं लिङ्गलिङ्गायै नमः । ओं पावक्यै नमः । 880 ओं भगवत्यै नमः । ओं कौशिक्यै नमः । ओं प्रेमरूपायै नमः । ओं प्रियंवदायै नमः । ओं गृध्ररूप्यै नमः । ओं शिवारूपायै नमः । ओं चक्रेश्यै नमः । ओं चक्ररूपधृषे नमः । ओं आत्मयोन्यै नमः । ओं ब्रह्मयोन्यै नमः । ओं जगद्योन्यै नमः । ओं अयोनिजायै नमः । ओं भगरूपायै नमः । ओं भगस्थात्र्यै नमः । ओं भगिन्यै नमः । ओं भगमालिन्यै नमः । ओं भगात्मिकायै नमः । ओं भगाधाररूपिण्यै नमः । ओं भगशालिन्यै नमः । ओं लिङ्गाभिधायिन्यै नमः । 900 ओं लिङ्गप्रियायै नमः । ओं लिङ्गनिवासिन्यै नमः । ओं लिङ्गस्थायै नमः । ओं लिङ्गिन्यै नमः । ओं लिङ्गरूपिण्यै नमः । ओं लिङ्गसुन्दर्यै नमः । ओं लिङ्गरीत्यै नमः । ओं महाप्रीत्यै नमः । ओं भगगीत्यै नमः । ओं महासुखायै नमः । ओं लिङ्गनामसदानन्दायै नमः । ओं भगनामसदारत्यै नमः । ओं भगनामसदानन्दायै नमः । ओं लिङ्गनामसदारत्यै नमः । ओं लिङ्गमालाकराभूषायै नमः । ओं भगमालाविभूषणायै नमः । ओं भगलिङ्गामृतवृतायै नमः । ओं भगलिङ्गामृतात्मिकायै नमः । ओं भगलिङ्गार्चनप्रीतायै नमः । ओं भगलिङ्गस्वरूपिण्यै नमः । 920 ओं भगलिङ्गस्वरूपायै नमः । ओं भगलिङ्गसुखावहायै नमः । ओं स्वयम्भूकुसुमप्रीतायै नमः । ओं स्वयम्भूकुसुमार्चितायै नमः । ओं स्वयम्भूकुसुमप्राणायै नमः । ओं स्वयम्भूकुसुमोत्थितायै नमः । ओं स्वयम्भूकुसुमस्नातायै नमः । ओं स्वयम्भूपुष्पतर्पितायै नमः । ओं स्वयम्भूपुष्पघटितायै नमः । ओं स्वयम्भूपुष्पधारिण्यै नमः । ओं स्वयम्भूपुष्पतिलकायै नमः । ओं स्वयम्भूपुष्पचर्चितायै नमः । ओं स्वयम्भूपुष्पनिरतायै नमः । ओं स्वयम्भूकुसुमाग्रहायै नमः । ओं स्वयम्भूपुष्पयज्ञेशायै नमः । ओं स्वयम्भूकुसुममालिकायै नमः । ओं स्वयम्भूपुष्पनिचितायै नमः । ओं स्वयम्भूकुसुमप्रियायै नमः । ओं स्वयम्भूकुसुमादानलालसोन्मत्तमानसायै नमः । ओं स्वयम्भूकुसुमानन्दलहरीस्निग्धदेहिन्यै नमः । 940 ओं स्वयम्भूकुसुमाधारायै नमः । ओं स्वयम्भूकुसुमाकुलायै नमः । ओं स्वयम्भूपुष्पनिलयायै नमः । ओं स्वयम्भूपुष्पवासिन्यै नमः । ओं स्वयम्भूकुसुमस्निग्धायै नमः । ओं स्वयम्भूकुसुमात्मिकायै नमः । ओं स्वयम्भूपुष्पकरिण्यै नमः । ओं स्वयम्भूपुष्पमालिकायै नमः । ओं स्वयम्भूकुसुमन्यासायै नमः । ओं स्वयम्भूकुसुमप्रभायै नमः । ओं स्वयम्भूकुसुमज्ञानायै नमः । ओं स्वयम्भूपुष्पभोगिन्यै नमः । ओं स्वयम्भूकुसुमोल्लासायै नमः । ओं स्वयम्भूपुष्पवर्षिण्यै नमः । ओं स्वयम्भूकुसुमानन्दायै नमः । ओं स्वयम्भूपुष्पपुष्पिण्यै नमः । ओं स्वयम्भूकुसुमोत्साहायै नमः । ओं स्वयम्भूपुष्परूपिण्यै नमः । ओं स्वयम्भूकुसुमोन्मादायै नमः । ओं स्वयम्भूपुष्पसुन्दर्यै नमः । 960 ओं स्वयम्भूकुसुमाराध्यायै नमः । ओं स्वयम्भूकुसुमोद्भवायै नमः । ओं स्वयम्भूकुसुमव्यग्रायै नमः । ओं स्वयम्भूपुष्पपूजितायै नमः । ओं स्वयम्भूपूजकप्राज्ञायै नमः । ओं स्वयम्भूहोतृमात्रिकायै नमः । ओं स्वयम्भूदातृरक्षित्र्यै नमः । ओं स्वयम्भूभक्तभाविकायै नमः । ओं स्वयम्भूकुसुमप्रीतायै नमः । ओं स्वयम्भूपूजकप्रियायै नमः । ओं स्वयम्भूवन्दकाधारायै नमः । ओं स्वयम्भूनिन्दकान्तकायै नमः । ओं स्वयम्भूप्रदसर्वस्वायै नमः । ओं स्वयम्भूप्रदपुत्रिण्यै नमः । ओं स्वयम्भूप्रदसस्मेरायै नमः । ओं स्वयम्भूतशरीरिण्यै नमः । ओं सर्वलोकोद्भवप्रीतायै नमः । ओं सर्वलोकोद्भवात्मिकायै नमः । ओं सर्वकालोद्भवोद्भावायै नमः । ओं सर्वकालोद्भवोद्भवायै नमः । 980 ओं कुण्डपुष्पसमप्रीत्यै नमः । ओं कुण्डपुष्पसमारत्यै नमः । ओं कुण्डगोलोद्भवप्रीतायै नमः । ओं कुण्डगोलोद्भवात्मिकायै नमः । ओं स्वयम्भुवे नमः । ओं शिवायै नमः । ओं शक्तायै नमः । ओं पावन्यै नमः । ओं लोकपावन्यै नमः । ओं कीर्त्यै नमः । ओं यशस्विन्यै नमः । ओं मेधायै नमः । ओं विमेधायै नमः । ओं सुरसुन्दर्यै नमः । ओं अश्विन्यै नमः । ओं कृत्तिकायै नमः । ओं पुष्यायै नमः । ओं तेजस्विचन्द्रमण्डलायै नमः । ओं सूक्ष्मासूक्ष्मप्रदायै नमः । ओं सूक्ष्मासूक्ष्मभयविनाशिन्यै नमः । 1000 ओं वरदायै नमः । ओं अभयदायै नमः । ओं मुक्तिबन्धविनाशिन्यै नमः । ओं कामुक्यै नमः । ओं कामदायै नमः । ओं क्षान्तायै नमः । ओं कामाख्यायै नमः । ओं कुलसुन्दर्यै नमः । ओं सुखदायै नमः । ओं दुःखदायै नमः । ओं मोक्षायै नमः । ओं मोक्षदार्थप्रकाशिन्यै नमः । ओं दुष्टादुष्टमत्यै नमः । ओं सर्वकार्यविनाशिन्यै नमः । ओं शुक्राधारायै नमः । ओं शुक्ररूपायै नमः । ओं शुक्रसिन्धुनिवासिन्यै नमः । ओं शुक्रालयायै नमः । ओं शुक्रभोगायै नमः । ओं शुक्रपूजासदारत्यै नमः । 1020 ओं शुक्रपूज्यायै नमः । ओं शुक्रहोमसन्तुष्टायै नमः । ओं शुक्रवत्सलायै नमः । ओं शुक्रमूर्त्यै नमः । ओं शुक्रदेहायै नमः । ओं शुक्रपूजकपुत्रिण्यै नमः । ओं शुक्रस्थायै नमः । ओं शुक्रिण्यै नमः । ओं शुक्रसंस्पृहायै नमः । ओं शुक्रसुन्दर्यै नमः । ओं शुक्रस्नातायै नमः । ओं शुक्रकर्यै नमः । ओं शुक्रसेव्यायै नमः । ओं अतिशुक्रिण्यै नमः । ओं महाशुक्रायै नमः । ओं शुक्रभवायै नमः । ओं शुक्रवृष्टिविधायिन्यै नमः । ओं शुक्राभिधेयायै नमः । ओं शुक्रार्हायै नमः । ओं शुक्रवन्दकवन्दितायै नमः । 1040 ओं शुक्रानन्दकर्यै नमः । ओं शुक्रसदानन्दविधायिन्यै नमः । ओं शुक्रोत्साहायै नमः । ओं सदाशुक्रपूर्णायै नमः । ओं शुक्रमनोरमायै नमः । ओं शुक्रपूजकसर्वस्वायै नमः । ओं शुक्रनिन्दकनाशिन्यै नमः । ओं शुक्रात्मिकायै नमः । ओं शुक्रसम्पदे नमः । ओं शुक्राकर्षणकारिण्यै नमः । ओं रक्ताशयायै नमः । ओं रक्तभोगायै नमः । ओं रक्तपूजासदारत्यै नमः । ओं रक्तपूज्यायै नमः । ओं रक्तहोमायै नमः । ओं रक्तस्थायै नमः । ओं रक्तवत्सलायै नमः । ओं रक्तपूर्णारक्तदेहायै नमः । ओं रक्तपूजकपुत्रिण्यै नमः । ओं रक्ताख्यायै नमः । 1060 ओं रक्तिन्यै नमः । ओं रक्तसंस्कृतायै नमः । ओं रक्तसुन्दर्यै नमः । ओं रक्ताभिदेहायै नमः । ओं रक्तार्हायै नमः । ओं रक्तवन्दकवन्दितायै नमः । ओं महारक्तायै नमः । ओं रक्तभवायै नमः । ओं रक्तवृष्टिविधायिन्यै नमः । ओं रक्तस्नातायै नमः । ओं रक्तप्रीतायै नमः । ओं रक्तसेव्यातिरक्तिन्यै नमः । ओं रक्तानन्दकर्यै नमः । ओं रक्तसदानन्दविधायिन्यै नमः । ओं रक्तारक्तायै नमः । ओं रक्तपूर्णायै नमः । ओं रक्तसव्येक्षणीरमायै नमः । ओं रक्तसेवकसर्वस्वायै नमः । ओं रक्तनिन्दकनाशिन्यै नमः । ओं रक्तात्मिकायै नमः । 1080 ओं रक्तरूपायै नमः । ओं रक्ताकर्षणकारिण्यै नमः । ओं रक्तोत्साहायै नमः । ओं रक्तव्यग्रायै नमः । ओं रक्तपानपरायणायै नमः । ओं शोणितानन्दजनन्यै नमः । ओं कल्लोलस्निग्धरूपिण्यै नमः । ओं साधकान्तर्गतायै नमः । ओं देव्यै नमः । ओं पार्वत्यै नमः । ओं पापनाशिन्यै नमः । ओं साधूनां हृदि संस्थात्र्यै नमः । ओं साधकानन्दकारिण्यै नमः । ओं साधकानां जनन्यै नमः । ओं साधकप्रियकारिण्यै नमः । ओं साधकप्रचुरानन्दसम्पत्तिसुखदायिन्यै नमः । ओं साधकासाधकप्राणायै नमः । ओं साधकासक्तमानसायै नमः । ओं साधकोत्तमसर्वस्वायै नमः । ओं साधकायै नमः । 1100 ओं भक्तरक्तपायै नमः । ओं साधकानन्दसन्तोषायै नमः । ओं साधकारिविनाशिन्यै नमः । ओं आत्मविद्यायै नमः । ओं ब्रह्मविद्यायै नमः । ओं परब्रह्मकुटुम्बिन्यै नमः । ओं त्रिकूटस्थायै नमः । ओं पञ्चकूटायै नमः । ओं सर्वकूटशरीरिण्यै नमः । ओं सर्ववर्णमय्यै नमः । ओं वर्णजपमालाविधायिन्यै नमः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits