हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भद्रकाली स्तुतिः
ब्रह्मविष्णु
ऊचतुः
।
नमामि
त्वां
विश्वकर्त्रीं
परेशीं
नित्यामाद्यां
सत्यविज्ञानरूपाम्
।
वाचातीतां
निर्गुणां
चातिसूक्ष्मां
ज्ञानातीतां
शुद्धविज्ञानगम्याम्
॥
1
॥
पूर्णां
शुद्धां
विश्वरूपां
सुरूपां
देवीं
वन्द्यां
विश्ववन्द्यामपि
त्वाम्
।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
-मीडे
कालीं
विश्वसम्पालयित्रीम्
॥
2
॥
मायातीतां
मायिनीं
वापि
मायां
भीमां
श्यामां
भीमनेत्रां
सुरेशीम्
।
विद्यां
सिद्धां
सर्वभूताशयस्था-
-मीडे
कालीं
विश्वसंहारकर्त्रीम्
॥
3
॥
नो
ते
रूपं
वेत्ति
शीलं
न
धाम
नो
वा
ध्यानम्
नापि
मन्त्रं
महेशि
।
सत्तारूपे
त्वां
प्रपद्ये
शरण्ये
विश्वाराध्ये
सर्वलोकैकहेतुम्
॥
4
॥
द्यौस्ते
शीर्षं
नाभिदेशो
नभश्च
चक्षूंषि
ते
चन्द्रसूर्यानलास्ते
।
उन्मेषास्ते
सुप्रबोधो
दिवा
च
रात्रिर्मातश्चक्षुषोस्ते
निमेषम्
॥
5
॥
वाक्यं
देवा
भूमिरेषा
नितम्बं
पादौ
गुल्फं
जानुजङ्घस्त्वधस्ते
।
प्रीतिर्धर्मोऽधर्मकार्यं
हि
कोपः
सृष्टिर्बोधः
संहृतिस्ते
तु
निद्रा
॥
6
॥
अग्निर्जिह्वा
ब्राह्मणास्ते
मुखाब्जं
सन्ध्ये
द्वे
ते
भ्रूयुगं
विश्वमूर्तिः
।
श्वासो
वायुर्बाहवो
लोकपालाः
क्रीडा
सृष्टिः
संस्थितिः
संहृतिस्ते
॥
7
॥
एवम्भूतां
देवि
विश्वात्मिकां
त्वां
कालीं
वन्दे
ब्रह्मविद्यास्वरूपाम्
।
मातः
पूर्णे
ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे
साररूपे
प्रसीद
॥
8
॥
इति
श्री
महाभागवते
महापुराणे
ब्रह्मविष्णुकृता
श्री
भद्रकाली
स्तुतिः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits