हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भद्रकाल्यष्टकम्
घोरे
संसारवह्नौ
प्रलयमुपगते
या
हि
कृत्वा
श्मशाने
नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं
मुण्डमालाभिरामा
।
भिद्यद्ब्रह्माण्डभाण्डं
पटुतरनिनदैरट्टहासैरुदारैः
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
1
॥
मग्ने
लोकेऽम्बुराशौ
नलिनभवनुता
विष्णुना
कारयित्वा
चक्रोत्कृत्तोरुकण्ठं
मधुमपि
भयदं
कैटभं
चातिभीमम्
।
पद्मोत्पत्तेः
प्रभूतं
भयमुत
रिपुतोयाहरत्सानुकम्पा
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
2
॥
विश्वत्राणं
विधातुं
महिषमथ
राणे
याऽसुरं
भीमरूपं
शूलेनाहत्य
वक्षस्यमरपतिनुता
पातयन्ती
च
भूमौ
।
तस्यासृग्वाहिनीभिर्जलनिधिमखिलं
शोणिताभं
च
चक्रे
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
3
॥
या
देवी
चण्डमुण्डौ
त्रिभुवननलिनीवारणौ
देवशत्रू
दृष्ट्वा
युद्धोत्सवे
तौ
द्रुततरमभियातासिना
कृत्तकण्ठौ
।
कृत्वा
तद्रक्तपानोद्भवमदमुदिता
साट्टहासातिभीमा
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
4
॥
सद्यस्तं
रक्तबीजं
समरभुवि
नता
घोररूपानसङ्ख्यान्
राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैः
सार्थमन्यांश्च
दैत्यान्
।
वक्त्रे
निक्षिप्य
दृष्ट्वा
गुरुतरदशनैरापपौ
शोणितौघं
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
5
॥
स्थानाद्भ्रष्टैश्च
देवैस्तुहिनगिरितटे
सङ्गतैः
संस्तुता
या
सङ्ख्याहीनैः
समेतं
त्रिदशरिपुगणैः
स्यन्दनेभाश्वयुक्तैः
।
युद्धे
शुम्भं
निशुम्भं
त्रिभुवनविपदं
नाशयन्ती
च
जघ्ने
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
6
॥
शम्भोर्नेत्रानले
या
जननमपि
जगत्त्राणहेतोरयासीत्
भूयस्तीक्ष्णातिधाराविदलितदनुजा
दारुकं
चापि
हत्वा
।
तस्यासृक्पानतुष्टा
मुहुरपि
कृतवत्यट्टहासं
कठोरं
सास्माकं
वैरिवर्गं
शमयतु
तरसा
भद्रदा
भद्रकाली
॥
7
॥
या
देवी
कालरात्री
तुहिनगिरसुता
लोकमाता
धरित्री
वाणी
निद्रा
च
माया
मनसिजदयिता
घोररूपातिसौम्या
।
चामुण्डा
खड्गहस्ता
रिपुहननपरा
शोणितास्वादकामा
सा
हन्याद्विश्ववन्द्या
मम
रिपुनिवहा
भद्रदा
भद्रकाली
॥
8
॥
भद्रकाल्यष्टकं
जप्यं
शत्रुसङ्क्षयकाङ्क्षिणा
।
स्वर्गापवर्गदं
पुण्यं
दुष्टग्रहनिवारणम्
॥
9
॥
इति
श्री
भद्रकाल्यष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits