Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री गायत्री मन्त्र कवचम्

नारद उवाच स्वामिन् सर्वजगन्नाथ संशयोऽस्ति मम प्रभो चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर 1 मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् देहश्च देवतारूपो मन्त्ररूपो विशेषतः 2 कर्म तच्छ्रोतुमिच्छामि न्यासं विधिपूर्वकम् ऋषिश्छन्दोऽधिदैवं ध्यानम् विधिवद्विभो 3 श्रीनारायण उवाच अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते 4 सर्वान्कामानवाप्नोति देवीरूपश्च जायते गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः 5 ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद ब्रह्मरूपा देवतोक्ता गायत्री परमा कला 6 तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः कीलकं धियः प्रोक्तं मोक्षार्थे विनियोजनम् 7 चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम् 8 चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् अथ ध्यानम् प्रवक्ष्यामि साधकाभीष्टदायकम् 9 मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- -र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् गायत्रीं वरदाऽभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे 10 गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती 11 पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी यातुधानी दिशं रक्षेद्यातुधानभयङ्करी 12 पावमानी दिशं रक्षेत्पवमानविलासिनी दिशं रौद्रीं मे पातु रुद्राणी रुद्ररूपिणी 13 ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी 14 तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव 15 देवस्य मे तद्धृदयं धीमहीति गल्लयोः धियः पदं मे नेत्रे यः पदं मे ललाटकम् 16 नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् तत्पदं पातु मूर्धानं सकारः पातु भालकम् 17 चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः नासापुटं वकारार्णो रेकारस्तु मुखे तथा 18 णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् आस्यमध्ये भकारार्णो र्गोकारश्चुबुके तथा 19 देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् 20 मकारो हृदयं रक्षेद्धिकार उदरे तथा धिकारो नाभिदेशे तु योकारस्तु कटिं तथा 21 गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम् 22 दकारं गुल्फदेशे तु यकारः पदयुग्मकम् तकारव्यञ्जनं चैव सर्वाङ्गं मे सदाऽवतु 23 इदं तु कवचं दिव्यं बाधाशतविनाशनम् चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् 24 मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् 25 इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्री गायत्री मन्त्रकवचं नाम तृतीयोऽध्यायः

Recite with devotion and pure heart

Regular practice brings spiritual benefits