Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

महागणपति त्रिशती नामावलिः

ध्यानम् –
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलश प्रोद्यात्कराम्भोरुहः ।
ध्येयोवल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नेश इष्टार्थदः ॥
नामावली –
ओं ओङ्कारगणपतये नमः ।
ओं ओङ्कारप्रणवरूपाय नमः ।
ओं ओङ्कारमूर्तये नमः ।
ओं ओङ्काराय नमः ।
ओं ओङ्कारमन्त्राय नमः ।
ओं ओङ्कारबिन्दुरूपाय नमः ।
ओं ओङ्काररूपाय नमः ।
ओं ओङ्कारनादाय नमः ।
ओं ओङ्कारमयाय नमः ।
ओं ओङ्कारमूलाधारवासाय नमः ।
ओं श्रीङ्कारगणपतये नमः ।
ओं श्रीङ्कारवल्लभाय नमः ।
ओं श्रीङ्काराय नमः ।
ओं श्रींलक्ष्म्यै नमः ।
ओं श्रींमहागणेशाय नमः ।
ओं श्रींवल्लभाय नमः ।
ओं श्रीङ्गणेशाय नमः ।
ओं श्रींवीरगणेशाय नमः ।
ओं श्रींवीरलक्ष्म्यै नमः ।
ओं श्रीन्धैर्यगणेशाय नमः । 20
ओं श्रींवीरपुरेन्द्राय नमः ।
ओं ह्रीङ्कारगणेशाय नमः ।
ओं ह्रीङ्कारमयाय नमः ।
ओं ह्रीङ्कारसिंहाय नमः ।
ओं ह्रीङ्कारबालाय नमः ।
ओं ह्रीङ्कारपीठाय नमः ।
ओं ह्रीङ्काररूपाय नमः ।
ओं ह्रीङ्कारवर्णाय नमः ।
ओं ह्रीङ्कारकलाय नमः ।
ओं ह्रीङ्कारलयाय नमः ।
ओं ह्रीङ्कारवरदाय नमः ।
ओं ह्रीङ्कारफलदाय नमः ।
ओं क्लीङ्कारगणेशाय नमः ।
ओं क्लीङ्कारमन्मथाय नमः ।
ओं क्लीङ्काराय नमः ।
ओं क्लींमूलाधाराय नमः ।
ओं क्लींवासाय नमः ।
ओं क्लीङ्कारमोहनाय नमः ।
ओं क्लीङ्कारोन्नतरूपाय नमः ।
ओं क्लीङ्कारवश्याय नमः । 40
ओं क्लीङ्कारनाथाय नमः ।
ओं क्लीङ्कारहेरम्बाय नमः ।
ओं क्लीङ्काररूपाय नमः ।
ओं ग्लौङ्गणपतये नमः ।
ओं ग्लौङ्कारबीजाय नमः ।
ओं ग्लौङ्काराक्षराय नमः ।
ओं ग्लौङ्कारबिन्दुमध्यगाय नमः ।
ओं ग्लौङ्कारवासाय नमः ।
ओं गङ्गणपतये नमः ।
ओं गङ्गणनाथाय नमः ।
ओं गङ्गणाधिपाय नमः ।
ओं गङ्गणाध्यक्षाय नमः ।
ओं गङ्गणाय नमः ।
ओं गङ्गगनाय नमः ।
ओं गङ्गङ्गाय नमः ।
ओं गङ्गमनाय नमः ।
ओं गङ्गानविद्याप्रदाय नमः ।
ओं गङ्घण्टानादप्रियाय नमः ।
ओं गङ्गकाराय नमः ।
ओं गणपतये नमः । 60
ओं गजमुखाय नमः ।
ओं गजहस्ताय नमः ।
ओं गजरूपाय नमः ।
ओं गजारूढाय नमः ।
ओं गजाय नमः ।
ओं गणेश्वराय नमः ।
ओं गन्धहस्ताय नमः ।
ओं गर्जिताय नमः ।
ओं गताय नमः ।
ओं गंवाहाय नमः ।
ओं णकारगणपतये नमः ।
ओं णलयाय नमः ।
ओं णलिङ्गाय नमः ।
ओं णलप्रियाय नमः ।
ओं णलेशाय नमः ।
ओं णलकोमलाय नमः ।
ओं णगरीशाय नमः ।
ओं णगरिकाय नमः ।
ओं णणणङ्गाय नमः ।
ओं णणीशाय नमः । 80
ओं णणीशप्रियाय नमः ।
ओं परब्रह्मणे नमः ।
ओं परहन्त्रे नमः ।
ओं परमूर्तये नमः ।
ओं पराय नमः ।
ओं परमात्मने नमः ।
ओं परानन्दाय नमः ।
ओं परमेष्ठिने नमः ।
ओं परात्पराय नमः ।
ओं पद्माक्षाय नमः ।
ओं पद्मालयपतये नमः ।
ओं पराक्रमिणे नमः ।
ओं तत्त्वगणपतये नमः ।
ओं तत्त्वगम्याय नमः ।
ओं तर्कवेत्रे नमः ।
ओं तत्त्वविदे नमः ।
ओं तत्त्वरहिताय नमः ।
ओं तमोहिताय नमः ।
ओं तत्त्वज्ञाय नमः ।
ओं तरुणाय नमः । 100
ओं तरणिभृङ्गाय नमः ।
ओं तरणिप्रभाय नमः ।
ओं यज्ञगणपतये नमः ।
ओं यज्ञकाय नमः ।
ओं यशस्विने नमः ।
ओं यज्ञकृते नमः ।
ओं यज्ञाय नमः ।
ओं यमभीतिनिवर्तकाय नमः ।
ओं यमहृते नमः ।
ओं यज्ञफलप्रदाय नमः ।
ओं यमाधाराय नमः ।
ओं यमप्रदाय नमः ।
ओं यथेष्टवरप्रदाय नमः ।
ओं वरगणपतये नमः ।
ओं वरदाय नमः ।
ओं वसुधापतये नमः ।
ओं वज्रोद्भवभयसंहर्त्रे नमः ।
ओं वल्लभारमणीशाय नमः ।
ओं वक्षःस्थलमणिभ्राजिने नमः ।
ओं वज्रधारिणे नमः । 120
ओं वश्याय नमः ।
ओं वकाररूपाय नमः ।
ओं वशिने नमः ।
ओं वरप्रदाय नमः ।
ओं रङ्गणपतये नमः ।
ओं रङ्काराय नमः ।
ओं रमानाथाय नमः ।
ओं रत्नाभरणभूषिताय नमः ।
ओं रहस्यज्ञाय नमः ।
ओं रसाधाराय नमः ।
ओं रथस्थाय नमः ।
ओं रथावासाय नमः ।
ओं रञ्जितप्रदाय नमः ।
ओं रविकोटिप्रकाशाय नमः ।
ओं रम्याय नमः ।
ओं वरदवल्लभाय नमः ।
ओं वकाराय नमः ।
ओं वरुणप्रियाय नमः ।
ओं वज्रधराय नमः ।
ओं वरदवरदाय नमः । 140
ओं वन्दिताय नमः ।
ओं वश्यकराय नमः ।
ओं वदनप्रियाय नमः ।
ओं वसवे नमः ।
ओं वसुप्रियाय नमः ।
ओं वरदप्रियाय नमः ।
ओं रविगणपतये नमः ।
ओं रत्नकिरीटाय नमः ।
ओं रत्नमोहनाय नमः ।
ओं रत्नभूषणाय नमः ।
ओं रत्नकराय नमः ।
ओं रत्नमन्त्रपाय नमः ।
ओं रसाचलाय नमः ।
ओं रसातलाय नमः ।
ओं रत्नकङ्कणाय नमः ।
ओं रवेरधीशाय नमः ।
ओं रविपानाय नमः ।
ओं रत्नासनाय नमः ।
ओं दकाररूपाय नमः ।
ओं दमनाय नमः । 160
ओं दण्डकारिणे नमः ।
ओं दयादमिताय नमः ।
ओं दैत्यगमनाय नमः ।
ओं दण्डनीत्यादिविज्ञात्रे नमः ।
ओं दयावहाय नमः ।
ओं दक्षध्वंसनकराय नमः ।
ओं दक्षाय नमः ।
ओं दन्तकाय नमः ।
ओं दमोजघ्नाय नमः ।
ओं सर्ववश्यगणपतये नमः ।
ओं सर्वात्मने नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसौख्यप्रदायिने नमः ।
ओं सर्वदुःखघ्ने नमः ।
ओं सर्वरोगहृते नमः ।
ओं सर्वजनप्रियाय नमः ।
ओं सर्वशास्त्रकलापधराय नमः ।
ओं सर्वदुःखविनाशकाय नमः ।
ओं सर्वदुष्टप्रशमनाय नमः ।
ओं जयगणपतये नमः । 180
ओं जनार्दनाय नमः ।
ओं जपाराध्याय नमः ।
ओं जगन्मान्याय नमः ।
ओं जयावहाय नमः ।
ओं जनपालाय नपः
ओं जगत्सृष्टये नमः ।
ओं जप्याय नमः ।
ओं जलजलोचनाय नमः ।
ओं जगतीपालाय नमः ।
ओं जयन्ताय नमः ।
ओं नटनगणपतये नमः ।
ओं नन्द्याय नमः ।
ओं नदीशगम्भीराय नमः ।
ओं नतभूदेवाय नमः ।
ओं नष्टद्रव्यप्रदायकाय नमः ।
ओं नयज्ञाय नमः ।
ओं नमितारये नमः ।
ओं नन्दाय नमः ।
ओं नटविद्याविशारदाय नमः ।
ओं नवध्यानसन्धात्रे नमः । 200
ओं नवाम्बरविधारणाय नमः ।
ओं मेघडम्बरगणपतये नमः ।
ओं मेघवाहनाय नमः ।
ओं मेरुवासाय नमः ।
ओं मेरुनिलयाय नमः ।
ओं मेघवर्णाय नमः ।
ओं मेघनादाय नमः ।
ओं मेघडम्बराय नमः ।
ओं मेघगर्जिताय नमः ।
ओं मेघरूपाय नमः ।
ओं मेघघोषाय नमः ।
ओं मेघवाहनाय नमः ।
ओं वश्यगणपतये नमः ।
ओं वज्रेश्वराय नमः ।
ओं वरप्रदाय नमः ।
ओं वज्रदन्ताय नमः ।
ओं वश्यप्रदाय नमः ।
ओं वश्याय नमः ।
ओं वशिने नमः ।
ओं वटुकेशाय नमः । 220
ओं वराभयाय नमः ।
ओं वसुमते नमः ।
ओं वटवे नमः ।
ओं शरगणपतये नमः ।
ओं शर्मधाम्ने नमः ।
ओं शरणाय नमः ।
ओं शर्मवद्वसुघनाय नमः ।
ओं शरधाराय नमः ।
ओं शशिधराय नमः ।
ओं शतक्रतुवरप्रदाय नमः ।
ओं शतानन्दादिसेव्याय नमः ।
ओं शमितदेवाय नमः ।
ओं शराय नमः ।
ओं शशिनाथाय नमः ।
ओं महाभयविनाशनाय नमः ।
ओं महेश्वरप्रियाय नमः ।
ओं मत्तदण्डकराय नमः ।
ओं महाकीर्तये नमः ।
ओं महाभुजाय नमः ।
ओं महोन्नतये नमः । 240
ओं महोत्साहाय नमः ।
ओं महामायाय नमः ।
ओं महामदाय नमः ।
ओं महाकोपाय नमः ।
ओं नागगणपतये नमः ।
ओं नागाधीशाय नमः ।
ओं नायकाय नमः ।
ओं नाशितारातये नमः ।
ओं नामस्मरणपापघ्ने नमः ।
ओं नाथाय नमः ।
ओं नाभिपदार्थपद्मभुवे नमः ।
ओं नागराजवल्लभप्रियाय नमः ।
ओं नाट्यविद्याविशारदाय नमः ।
ओं नाट्यप्रियाय नमः ।
ओं नाट्यनाथाय नमः ।
ओं यवनगणपतये नमः ।
ओं यमनिषूदनाय नमः ।
ओं यमविजिताय नमः ।
ओं यज्वने नमः ।
ओं यज्ञपतये नमः । 260
ओं यज्ञनाशनाय नमः ।
ओं यज्ञप्रियाय नमः ।
ओं यज्ञवाहाय नमः ।
ओं यज्ञाङ्गाय नमः ।
ओं यज्ञसखाय नमः ।
ओं यज्ञप्रियाय नमः ।
ओं यज्ञरूपाय नमः ।
ओं यज्ञवन्दिताय नमः ।
ओं यतिरक्षकाय नमः ।
ओं यतिपूजिताय नमः ।
ओं स्वामिगणपतये नमः ।
ओं स्वर्णवरदाय नमः ।
ओं स्वर्णाकर्षणाय नमः ।
ओं स्वाश्रयाय नमः ।
ओं स्वस्तिकृते नमः ।
ओं स्वस्तिकाय नमः ।
ओं स्वर्णकक्षाय नमः ।
ओं स्वर्णताटङ्कभूषिताय नमः ।
ओं स्वाहासभाजिताय नमः ।
ओं स्वरशास्त्रस्वरूपकृते नमः । 280
ओं हादिविद्याय नमः ।
ओं हादिरूपाय नमः ।
ओं हरिहरप्रियाय नमः ।
ओं हरिण्यधिपतये नमः ।
ओं हाहाहूहूगणपतये नमः ।
ओं हरिगणपतये नमः ।
ओं हाटकप्रियाय नमः ।
ओं हतगजाधिपाय नमः ।
ओं हयाश्रयाय नमः ।
ओं हंसप्रियाय नमः ।
ओं हंसाय नमः ।
ओं हंसपूजिताय नमः ।
ओं हनुमत्सेविताय नमः ।
ओं हकाररूपाय नमः ।
ओं हरिस्तुताय नमः ।
ओं हराङ्कवास्तव्याय नमः ।
ओं हरिनीलप्रभाय नमः ।
ओं हरिद्राबिम्बपूजिताय नमः ।
ओं हरिहयमुखदेववासाय नमः ।
ओं हंसमन्त्रस्वरूपाय नमः । 300
ओं सर्वाभीष्टफलप्रदाय श्रीमहागणपतये नमः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits