हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गणेश अष्टकम्
सर्वे
उचुः
–
यतोऽनंतशक्तेरनंताश्च
जीवा
यतो
निर्गुणादप्रमेया
गुणास्ते
।
यतो
भाति
सर्वं
त्रिधा
भेदभिन्नं
सदा
तं
गणेशं
नमामो
भजामः
॥
1
॥
यतश्चाविरासीज्जगत्सर्वमेत-
-त्तथाब्जासनो
विश्वगो
विश्वगोप्ता
।
तथेंद्रादयो
देवसंघा
मनुष्याः
सदा
तं
गणेशं
नमामो
भजामः
॥
2
॥
यतो
वह्निभानू
भवो
भूर्जलं
च
यतः
सागराश्चंद्रमा
व्योम
वायुः
।
यतः
स्थावरा
जंगमा
वृक्षसंघाः
सदा
तं
गणेशं
नमामो
भजामः
॥
3
॥
यतो
दानवाः
किन्नरा
यक्षसंघा
यतश्चारणा
वारणाः
श्वापदाश्च
।
यतः
पक्षिकीटा
यतो
वीरुधश्च
सदा
तं
गणेशं
नमामो
भजामः
॥
4
॥
यतो
बुद्धिरज्ञाननाशो
मुमुक्षो-
-र्यतः
संपदो
भक्तसंतोषदाः
स्युः
।
यतो
विघ्ननाशो
यतः
कार्यसिद्धिः
सदा
तं
गणेशं
नमामो
भजामः
॥
5
॥
यतः
पुत्रसंपद्यतो
वांछितार्थो
यतोऽभक्तविघ्नास्तथाऽनेकरूपाः
।
यतः
शोकमोहौ
यतः
काम
एव
सदा
तं
गणेशं
नमामो
भजामः
॥
6
॥
यतोऽनंतशक्तिः
स
शेषो
बभूव
धराधारणेऽनेकरूपे
च
शक्तः
।
यतोऽनेकधा
स्वर्गलोका
हि
नाना
सदा
तं
गणेशं
नमामो
भजामः
॥
7
॥
यतो
वेदवाचो
विकुंठा
मनोभिः
सदा
नेति
नेतीति
यत्ता
गृणंति
।
परब्रह्मरूपं
चिदानंदभूतं
सदा
तं
गणेशं
नमामो
भजामः
॥
8
॥
श्रीगणेश
उवाच
–
पुनरूचे
गणाधीशः
स्तोत्रमेतत्पठेन्नरः
।
त्रिसंध्यं
त्रिदिनं
तस्य
सर्वकार्यं
भविष्यति
॥
9
॥
यो
जपेदष्टदिवसं
श्लोकाष्टकमिदं
शुभम्
।
अष्टवारं
चतुर्थ्यां
तु
सोऽष्टसिद्धीरवाप्नुयात्
॥
10
॥
यः
पठेन्मासमात्रं
तु
दशवारं
दिने
दिने
।
स
मोचयेद्बंधगतं
राजवध्यं
न
संशयः
॥
11
॥
विद्याकामो
लभेद्विद्यां
पुत्रार्थी
पुत्रमाप्नुयात्
।
वांछिताँल्लभते
सर्वानेकविंशतिवारतः
॥
12
॥
यो
जपेत्परया
भक्त्या
गजाननपरो
नरः
।
एवमुक्त्वा
ततो
देवश्चांतर्धानं
गतः
प्रभुः
॥
13
॥
इति
श्रीगणेशपुराणे
उपासनाखंडे
श्रीगणेशाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits