Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

त्रिपुर भैरवी कवचम्

श्रीपार्वत्युवाच देवदेव महादेव सर्वशास्त्रविशारद कृपां कुरु जगन्नाथ धर्मज्ञोसि महामते 1 भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका तस्यास्तु कवचं दिव्यं मह्यं कथय तत्त्वतः 2 तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः अद्भुतं कवचं देव्या भैरव्या दिव्यरूपि वै 3 ईश्वर उवाच कथयामि महाविद्याकवचं सर्वदुर्लभम् शृणुष्व त्वं विधिना श्रुत्वा गोप्यं तवापि तत् 4 यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयम् यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति 5 माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी सिद्धिदात्री सिद्धास्स्यादसिद्धा दुष्टजन्तुषु 6 सर्वभूतप्रियङ्करी सर्वभूतस्वरूपिणी ककारी पातु मां देवी कामिनी कामदायिनी 7 एकारी पातु मां देवी मूलाधारस्वरूपिणी ईकारी पातु मां देवी भूरिसर्वसुखप्रदा 8 लकारी पातु मां देवी इन्द्राणीवरवल्लभा ह्रीङ्कारी पातु मां देवी सर्वदा शम्भुसुन्दरी 9 एतैर्वर्णैर्महामाया शाम्भवी पातु मस्तकम् ककारी पातु मां देवी शर्वाणी हरगेहिनी 10 मकारी पातु मां देवी सर्वपापप्रणाशिनी ककारी पातु मां देवी कामरूपधरा सदा 11 काकारी पातु मां देवी शम्बरारिप्रिया सदा पकारी पातु मां देवी धराधरणिरूपधृक् 12 ह्रीङ्कारी पातु मां देवी आकारार्धशरीरिणी एतैर्वर्णैर्महामाया कामराहुप्रियाऽवतु 13 मकारः पातु मां देवी सावित्री सर्वदायिनी ककारः पातु सर्वत्र कलाम्बा सर्वरूपिणी 14 लकारः पातु मां देवी लक्ष्मीः सर्वसुलक्षणा ओं ह्रीं मां पातु सर्वत्र देवी त्रिभुवनेश्वरी 15 एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी वाग्भवा मस्तकं पातु वदनं कामराजिता 16 शक्तिस्वरूपिणी पातु हृदयं यन्त्रसिद्धिदा सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु 17 रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी नानालङ्कारसम्युक्ता सुन्दरी पातु सर्वदा 18 सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदायिनी जगदाह्लादजननी शम्भुरूपा मां सदा 19 सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी सर्वलक्ष्मीमयी देवी परमानन्ददायिनी 20 पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी 21 पातु मां दक्षिणामूर्ति ऋषिः सर्वत्र मस्तके पङ्क्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी 22 गन्धाष्टकात्मिका पातु हृदयं शङ्करी सदा सर्वसंमोहिनी पातु पातु सङ्क्षोभिणी सदा 23 सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु 24 आकर्षिणी सदा पातु सदा संमोहिनी तथा रतिदेवी सदा पातु भगाङ्गा सर्वदावतु 25 माहेश्वरी सदा पातु कौमारी सर्वदावतु सर्वाह्लादनकारी मां पातु सर्ववशङ्करी 26 क्षेमङ्करी सदा पातु सर्वाङ्गं सुन्दरी तथा सर्वाङ्गं युवती सर्वं सर्वसौभाग्यदायिनी 27 वाग्देवी सर्वदा पातु वाणी मां सर्वदावतु वशिनी सर्वदा पातु महासिद्धिप्रदावतु 28 सर्वविद्राविणी पातु गणनाथा सदावतु दुर्गादेवी सदा पातु वटुकः सर्वदावतु 29 क्षेत्रपालः सदा पातु पातु चाशान्तिदा अनन्तः सर्वदा पातु वराहः सर्वदावतु 30 पृथिवी सर्वदा पातु स्वर्णसिंहासनस्तथा रक्तामृतश्च सततं पातु मां सर्वकालतः 31 सुधार्णवः सदा पातु कल्पवृक्षः सदावतु श्वेतच्छत्रं सदा पातु रत्नदीपः सदावतु 32 सततं नन्दनोद्यानं पातु मां सर्वसिद्धये दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा 33 वाहनानि सदा पान्तु सर्वदाऽस्त्राणि पान्तु मां शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा 34 सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु सर्वाङ्गसुन्दरी देवी सर्वदावतु मां तथा 35 आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी 36 पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ अरण्ये प्रान्तरे वाऽपि पातु मां सुन्दरी सदा 37 इदं कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति यः पठेत्प्रयतो भूत्वा त्रिसन्ध्यं नियतः शुचिः 38 तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा 39 स्वयम्भूकुसुमैश्शुक्लैः भूमिपुत्रे शनौ सुरे श्मशाने प्रान्तरे वापि शून्यागारे शिवालये 40 स्वशक्त्या गुरुणा यन्त्रं पूजयित्वा कुमारिकां तन्मनुं पूजयित्वा गुरुपङ्क्तिं तथैव 41 देव्यै बलिं निवेद्याथ नरमार्जारसूकरैः नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः 42 धृत्वा सुवर्णमध्यस्थं कण्ठे वा दक्षिणे भुजे सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा 43 धारयित्वा कवचं सर्वसिद्धिं लभेन्नरः कवचस्य माहात्म्यं नाहं वर्षशतैरपि 44 शक्नोमि तु महेशानि वक्तुं तस्य फलं तु यत् दुर्भिक्षफलं तत्र शत्रोः पीडनं तथा 45 सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् 46 यत्र कुत्र वक्तव्यं दातव्यं कदाचन मन्त्रप्राप्य विधानेन पूजयेत्सततं सुधीः 47 तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् 48 तत्रापि कवचं दिव्यं दुर्लभं भुवनत्रये श्लोकं वा स्तवमेकं वा यः पठेत्प्रयतः शुचिः 49 तस्य सर्वार्थसिद्धिः स्याच्छङ्करेण प्रभाषितम् गुरुर्देवो हरः साक्षात्पत्नी तस्य पार्वती 50 अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः 51 इति श्री रुद्रयामले भैरवभैरवीसंवादे श्री त्रिपुरभैरवी कवचम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits