हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रिपुर भैरवी हृदयं
मेरौ
गिरिवरेगौरी
शिवध्यानपरायणा
।
पार्वती
परिपप्रच्छ
परानुग्रहवाञ्छया
॥
1
॥
श्रीपार्वत्युवाच-
भगवंस्त्वन्मुखाम्भोजाच्छ्रुता
धर्मा
अनेकशः
।
पुनश्श्रोतुं
समिच्छामि
भैरवीस्तोत्रमुत्तमम्
॥
2
॥
श्रीशङ्कर
उवाच-
शृणु
देवि
प्रवक्ष्यामि
भैरवी
हृदयाह्वयं
।
स्तोत्रं
तु
परमं
पुण्यं
सर्वकल्य़ाणकारकम्
॥
3
॥
यस्य
श्रवणमात्रेण
सर्वाभीष्टं
भवेद्ध्रुवं
।
विना
ध्यानादिना
वाऽपि
भैरवी
परितुष्यति
॥
4
॥
ओं
अस्य
श्रीभैरवीहृदयमन्त्रस्य
दक्षिणामूर्तिः
ऋषिः
पंङ्क्तिश्छन्दः
–
भयविध्वंसिनी
भैरवीदेवता
–
हकारो
बीजं
–
रीं
शक्तिः
–
रैः
कीलकं
सर्वभयविध्वंसनार्थे
जपे
विनियोगः
॥
अथ
करन्यासः
।
ओं
ह्रीं
अङ्गुष्ठाभ्यां
नमः
।
ओं
श्रीं
तर्जनीभ्यां
नमः
।
ओं
ऐं
मध्यमाभ्यां
नमः
।
ओं
ह्रीं
अनामिकाभ्यां
नमः
।
ओं
श्रीं
कनिष्ठिकाभ्यां
नमः
।
ओं
ऐं
करतलकरपृष्ठाभ्यां
नमः
॥
अथाङ्गन्यासः
।
ओं
ह्रीं
हृदयाय
नमः
।
ओं
श्रीं
शिरसे
स्वाहा
।
ओं
ऐं
शिखायै
वषट्
।
ओं
ह्रीं
कवचाय
हुं
।
ओं
श्रीं
नेत्रत्रयाय
वौषट्
।
ओं
ऐं
अस्त्राय
फट्
।
ध्यानम्
।
देवैर्ध्येयां
त्रिनेत्रामसुरभटघनारण्यघोराग्नि
रूपां
रौद्रीं
रक्ताम्बराढ्यां
रति
घटघटितो
रोजयुग्मोग्ररूपाम्
।
चन्द्रार्धभ्राजि
भव्याभरण
करलसद्बालबिम्बां
भवानीं
सिन्दूरापूरिताङ्गीं
त्रिभुवनजननीं
भैरवीं
भावयामि
॥
1
॥
पञ्चचामरवृत्तम्
–
भवभ्रमत्समस्तभूत
वेदमार्गदायिनीं
दुरन्तदुःखदारिणीं
सुरद्रुहाम्
भवप्रदां
भवान्धकारभेदन
प्रभाकरां
मितप्रभां
भवच्छिदां
भजामि
भैरवीं
सदा
॥
2
॥
उरः
प्रलम्बिताहिमाल्यचन्द्रबालभूषणां
नवाम्बुदप्रभां
सरोजचारुलोचनत्रयां
सुपर्वबृन्दवन्दितां
सुरापदन्तकारकां
भवानुभावभाविनीं
भजामि
भैरवीं
सदा
॥
3
॥
अखण्डभूमि
मण्डलैक
भारधीरधारिणीं
सुभक्तिभावितात्मनां
विभूतिभव्यदायिनीं
भवप्रपञ्चकारिणीं
विहारिणीं
भवाम्बुधौ
भवस्यहृदयभाविनीं
भजामि
बैरवीं
सदा
॥
4
॥
शरच्चमत्कृतार्ध
चन्द्रचन्द्रिकाविरोधिक
प्रभावती
मुखाब्ज
मञ्जुमाधुरी
मिलद्गिरां
भुजङ्गमालया
नृमुण्डमालया
च
मण्डितां
सुभक्तिमुक्तिभूतिदां
भजामि
भैरवीं
सदा
॥
5
॥
सुधाम्शुसूर्यवह्नि
लोचनत्रयान्विताननां
नरान्तकान्तक
प्रभूति
सर्वदत्तदक्षिणां
समुण्डचण्डखण्डन
प्रचण्डचन्द्रहासिनीं
तमोमतिप्रकाशिनीं
भजामि
भैरवीं
सदा
॥
6
॥
त्रिशूलिनीं
त्रिपुण्ड्रिनीं
त्रिखण्डिनीं
त्रिदण्डिनीं
गुणत्रयातिरिक्तमप्यचिन्त्यचित्स्वरूपिणीं
सवासवाऽदितेयवैरि
बृन्दवम्शभेदिनीं
भवप्रभावभाविनीं
भजामि
भैरवीं
सदा
॥
7
॥
सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गभां
दिगन्तदारितान्धकार
भूरिपुञ्जपद्धतिं
द्विजन्मनित्यधर्मनीतिवृद्धिलग्नमानसां
सरोजरोचिराननां
भजामि
भैरवीं
सदा
॥
8
॥
चलत्सुवर्णकुण्डल
प्रभोल्लसत्कपोलरुक्
समाकुलाननाम्बुजस्थशुभ्रकीर
नासिकां
सचन्द्रभालभैरवास्य
दर्शन
स्पृहच्चकोर-
नीलकञ्जदर्शनां
भजामि
भैरवीं
सदा
॥
9
॥
इदंहृदाख्यसङ्गतस्तवं
पठन्तियेऽनिशं
पठन्ति
ते
कदापिनान्धकूपरूपवद्भवे
भवन्ति
च
प्रभूतभक्ति
मुक्तिरूप
उज्ज्वलाः
स्तुता
प्रसीदति
प्रमोदमानसा
च
भैरवी
॥
10
॥
यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलंसमो
न
तस्य
जायते
पराजयोऽञ्जसा
जगत्त्रये
सदा
स्तुतिं
शुभामिमां
पठत्यनन्यमानसो
भवन्ति
तस्य
सम्पदोऽपि
सन्ततं
सुखप्रदाः
॥
11
॥
जपपूजादिकास्सर्वाः
स्तोत्रपाठादिकाश्च
याः
भैरवीहृदयस्यास्य
कलान्नार्हन्ति
षोडशीम्
॥
12
॥
किमत्र
बहिनोक्तेन
शृणु
देवि
महेश्वरि
नातः
परतरं
किञ्चित्
पुण्यमस्ति
जगत्त्रये
॥
13
॥
इति
श्री
भैरवकुलसर्वस्वे
श्रीभैरवीहृदयस्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits