हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
तारा कवचम्
ईश्वर
उवाच
।
कोटितन्त्रेषु
गोप्या
हि
विद्यातिभयमोचिनी
।
दिव्यं
हि
कवचं
तस्याः
शृणुष्व
सर्वकामदम्
॥
1
॥
अस्य
श्रीताराकवचस्य
अक्षोभ्य
ऋषिः
त्रिष्टुप्
छन्दः
भगवती
तारा
देवता
सर्वमन्त्रसिद्धि
समृद्धये
जपे
विनियोगः
।
कवचम्
।
प्रणवो
मे
शिरः
पातु
ब्रह्मरूपा
महेश्वरी
।
ललाटे
पातु
ह्रीङ्कारो
बीजरूपा
महेश्वरी
॥
2
॥
स्त्रीङ्कारो
वदने
नित्यं
लज्जारूपा
महेश्वरी
।
हूङ्कारः
पातु
हृदये
भवानीरूपशक्तिधृक्
॥
3
॥
फट्कारः
पातु
सर्वाङ्गे
सर्वसिद्धिफलप्रदा
।
खर्वा
मां
पातु
देवेशी
गण्डयुग्मे
भयापहा
॥
4
॥
निम्नोदरी
सदा
स्कन्धयुग्मे
पातु
महेश्वरी
।
व्याघ्रचर्मावृता
कट्यां
पातु
देवी
शिवप्रिया
॥
5
॥
पीनोन्नतस्तनी
पातु
पार्श्वयुग्मे
महेश्वरी
।
रक्तवर्तुलनेत्रा
च
कटिदेशे
सदाऽवतु
॥
6
॥
ललज्जिह्वा
सदा
पातु
नाभौ
मां
भुवनेश्वरी
।
करालास्या
सदा
पातु
लिङ्गे
देवी
हरप्रिया
॥
7
॥
पिङ्गोग्रैकजटा
पातु
जङ्घायां
विघ्ननाशिनी
।
प्रेतखर्परभृद्देवी
जानुचक्रे
महेश्वरी
॥
8
॥
नीलवर्णा
सदा
पातु
जानुनी
सर्वदा
मम
।
नागकुण्डलधर्त्री
च
पातु
पादयुगे
ततः
॥
9
॥
नागहारधरा
देवी
सर्वाङ्गं
पातु
सर्वदा
।
नागकङ्कधरा
देवी
पातु
प्रान्तरदेशतः
॥
10
॥
चतुर्भुजा
सदा
पातु
गमने
शत्रुनाशिनी
।
खड्गहस्ता
महादेवी
श्रवणे
पातु
सर्वदा
॥
11
॥
नीलाम्बरधरा
देवी
पातु
मां
विघ्ननाशिनी
।
कर्त्रिहस्ता
सदा
पातु
विवादे
शत्रुमध्यतः
॥
12
॥
ब्रह्मरूपधरा
देवी
सङ्ग्रामे
पातु
सर्वदा
।
नागकङ्कणधर्त्री
च
भोजने
पातु
सर्वदा
॥
13
॥
शवकर्णा
महादेवी
शयने
पातु
सर्वदा
।
वीरासनधरा
देवी
निद्रायां
पातु
सर्वदा
॥
14
॥
धनुर्बाणधरा
देवी
पातु
मां
विघ्नसङ्कुले
।
नागाञ्चितकटी
पातु
देवी
मां
सर्वकर्मसु
॥
15
॥
छिन्नमुण्डधरा
देवी
कानने
पातु
सर्वदा
।
चितामध्यस्थिता
देवी
मारणे
पातु
सर्वदा
॥
16
॥
द्वीपिचर्मधरा
देवी
पुत्रदारधनादिषु
।
अलङ्कारान्विता
देवी
पातु
मां
हरवल्लभा
॥
17
॥
रक्ष
रक्ष
नदीकुञ्जे
हूं
हूं
फट्
सुसमन्विते
।
बीजरूपा
महादेवी
पर्वते
पातु
सर्वदा
॥
18
॥
मणिभृद्वज्रिणी
देवी
महाप्रतिसरे
तथा
।
रक्ष
रक्ष
सदा
हूं
हूं
ओं
ह्रीं
स्वाहा
महेश्वरी
॥
19
॥
पुष्पकेतुरजार्हेति
कानने
पातु
सर्वदा
।
ओं
ह्रीं
वज्रपुष्पं
हुं
फट्
प्रान्तरे
सर्वकामदा
॥
20
॥
ओं
पुष्पे
पुष्पे
महापुष्पे
पातु
पुत्रान्महेश्वरी
।
हूं
स्वाहा
शक्तिसम्युक्ता
दारान्
रक्षतु
सर्वदा
॥
21
॥
ओं
आं
हूं
स्वाहा
महेशानी
पातु
द्यूते
हरप्रिया
।
ओं
ह्रीं
सर्वविघ्नोत्सारिणी
देवी
विघ्नान्मां
सदाऽवतु
॥
22
॥
ओं
पवित्रवज्रभूमे
हुं
फट्
स्वाहा
समन्विता
।
पूरिका
पातु
मां
देवी
सर्वविघ्नविनाशिनी
॥
23
॥
ओं
आः
सुरेखे
वज्ररेखे
हुं
फट्
स्वाहा
समन्विता
।
पाताले
पातु
सा
देवी
लाकिनी
नामसञ्ज्ञिका
॥
24
॥
ह्रीङ्कारी
पातु
मां
पूर्वे
शक्तिरूपा
महेश्वरी
।
स्त्रीङ्कारी
पातु
देवेशी
वधूरूपा
महेश्वरी
॥
25
॥
हूंस्वरूपा
महादेवी
पातु
मां
क्रोधरूपिणी
।
फट्
स्वरूपा
महामाया
उत्तरे
पातु
सर्वदा
॥
26
॥
पश्चिमे
पातु
मां
देवी
फट्
स्वरूपा
हरप्रिया
।
मध्ये
मां
पातु
देवेशी
हूं
स्वरूपा
नगात्मजा
॥
27
॥
नीलवर्णा
सदा
पातु
सर्वतो
वाग्भवा
सदा
।
भवानी
पातु
भवने
सर्वैश्वर्यप्रदायिनी
॥
28
॥
विद्यादानरता
देवी
वक्त्रे
नीलसरस्वती
।
शास्त्रे
वादे
च
सङ्ग्रामे
जले
च
विषमे
गिरौ
॥
29
॥
भीमरूपा
सदा
पातु
श्मशाने
भयनाशिनी
।
भूतप्रेतालये
घोरे
दुर्गमा
श्रीघनाऽवतु
॥
30
॥
पातु
नित्यं
महेशानी
सर्वत्र
शिवदूतिका
।
कवचस्य
माहात्म्यं
नाहं
वर्षशतैरपि
॥
31
॥
शक्नोमि
गदितुं
देवि
भवेत्तस्य
फलं
च
यत्
।
पुत्रदारेषु
बन्धूनां
सर्वदेशे
च
सर्वदा
॥
32
॥
न
विद्यते
भयं
तस्य
नृपपूज्यो
भवेच्च
सः
।
शुचिर्भूत्वाऽशुचिर्वापि
कवचं
सर्वकामदम्
॥
33
॥
प्रपठन्
वा
स्मरन्मर्त्यो
दुःखशोकविवर्जितः
।
सर्वशास्त्रे
महेशानि
कविराड्भवति
ध्रुवम्
॥
34
॥
सर्ववागीश्वरो
मर्त्यो
लोकवश्यो
धनेश्वरः
।
रणे
द्यूते
विवादे
च
जयस्तत्र
भवेद्ध्रुवम्
॥
35
॥
पुत्रपौत्रान्वितो
मर्त्यो
विलासी
सर्वयोषिताम्
।
शत्रवो
दासतां
यान्ति
सर्वेषां
वल्लभः
सदा
॥
36
॥
गर्वी
खर्वी
भवत्येव
वादी
स्खलति
दर्शनात्
।
मृत्युश्च
वश्यतां
याति
दासास्तस्यावनीभुजः
॥
37
॥
प्रसङ्गात्कथितं
सर्वं
कवचं
सर्वकामदम्
।
प्रपठन्वा
स्मरन्मर्त्यः
शापानुग्रहणे
क्षमः
॥
38
॥
आनन्दवृन्दसिन्धूनामधिपः
कविराड्भवेत्
।
सर्ववागीश्वरो
मर्त्यो
लोकवश्यः
सदा
सुखी
॥
39
॥
गुरोः
प्रसादमासाद्य
विद्यां
प्राप्य
सुगोपिताम्
।
तत्रापि
कवचं
देवि
दुर्लभं
भुवनत्रये
॥
40
॥
गुरुर्देवो
हरः
साक्षात्तत्पत्नी
तु
हरप्रिया
।
अभेदेन
भजेद्यस्तु
तस्य
सिद्धिरदूरतः
॥
41
॥
मन्त्राचारा
महेशानि
कथिताः
पूर्ववत्प्रिये
।
नाभौ
ज्योतिस्तथा
रक्तं
हृदयोपरि
चिन्तयेत्
॥
42
॥
ऐश्वर्यं
सुकवित्वं
च
महावागीश्वरो
नृपः
।
नित्यं
तस्य
महेशानि
महिलासङ्गमं
चरेत्
॥
43
॥
पञ्चाचाररतो
मर्त्यः
सिद्धो
भवति
नान्यथा
।
शक्तियुक्तो
भवेन्मर्त्यः
सिद्धो
भवति
नान्यथा
॥
44
॥
ब्रह्मा
विष्णुश्च
रुद्रश्च
ये
देवासुरमानुषाः
।
तं
दृष्ट्वा
साधकं
देवि
लज्जायुक्ता
भवन्ति
ते
॥
45
॥
स्वर्गे
मर्त्ये
च
पाताले
ये
देवाः
सिद्धिदायकाः
।
प्रशंसन्ति
सदा
देवि
तं
दृष्ट्वा
साधकोत्तमम्
॥
46
॥
विघ्नात्मकाश्च
ये
देवाः
स्वर्गे
मर्त्ये
रसातले
।
प्रशंसन्ति
सदा
सर्वे
तं
दृष्ट्वा
साधकोत्तमम्
॥
47
॥
इति
ते
कथितं
देवि
मया
सम्यक्प्रकीर्तितम्
।
भुक्तिमुक्तिकरं
साक्षात्कल्पवृक्षस्वरूपकम्
॥
48
॥
आसाद्याद्यगुरुं
प्रसाद्य
य
इदं
कल्पद्रुमालम्बनं
मोहेनापि
मदेन
चापि
रहितो
जाड्येन
वा
युज्यते
।
सिद्धोऽसौ
भुवि
सर्वदुःखविपदां
पारं
प्रयात्यन्तके
मित्रं
तस्य
नृपाश्च
देवि
विपदो
नश्यन्ति
तस्याशु
च
॥
49
॥
तद्गात्रं
प्राप्य
शस्त्राणि
ब्रह्मास्त्रादीनि
वै
भुवि
।
तस्य
गेहे
स्थिरा
लक्ष्मीर्वाणी
वक्त्रे
वसेद्ध्रुवम्
॥
50
॥
इदं
कवचमज्ञात्वा
तारां
यो
भजते
नरः
।
अल्पायुर्निर्धनो
मूर्खो
भवत्येव
न
संशयः
॥
51
॥
लिखित्वा
धारयेद्यस्तु
कण्ठे
वा
मस्तके
भुजे
।
तस्य
सर्वार्थसिद्धिः
स्याद्यद्यन्मनसि
वर्तते
॥
52
॥
गोरोचना
कुङ्कुमेन
रक्तचन्दनकेन
वा
।
यावकैर्वा
महेशानि
लिखेन्मन्त्रं
समाहितः
॥
53
॥
अष्टम्यां
मङ्गलदिने
चतुर्दश्यामथापि
वा
।
सन्ध्यायां
देवदेवेशि
लिखेद्यन्त्रं
समाहितः
॥
54
॥
मघायां
श्रवणे
वापि
रेवत्यां
वा
विशेषतः
।
सिंहराशौ
गते
चन्द्रे
कर्कटस्थे
दिवाकरे
॥
55
॥
मीनराशौ
गुरौ
याते
वृश्चिकस्थे
शनैश्चरे
।
लिखित्वा
धारयेद्यस्तु
उत्तराभिमुखो
भवेत्
॥
56
॥
श्मशाने
प्रान्तरे
वापि
शून्यागारे
विशेषतः
।
निशायां
वा
लिखेन्मन्त्रं
तस्य
सिद्धिरचञ्चला
॥
57
॥
भूर्जपत्रे
लिखेन्मन्त्रं
गुरुणा
च
महेश्वरि
।
ध्यान
धारण
योगेन
धारयेद्यस्तु
भक्तितः
।
अचिरात्तस्य
सिद्धिः
स्यान्नात्र
कार्या
विचारणा
॥
58
॥
इति
श्री
रुद्रयामले
तन्त्रे
उग्रताराकवचं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits