Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री कामाख्या स्तोत्रं

जय कामेशि चामुंडे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1 ॥ विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2 ॥ मालाजये जये जंभे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3 ॥ भीमाक्षि भीषणे देवि सर्वभूतक्षयंकरि । कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 3 ॥ कालि करालविक्रांते कामेश्वरि हरप्रिये । सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 4 ॥ कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुंभशुंभमथनि कामेश्वरि नमोऽस्तु ते ॥ 5 ॥ कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 6 ॥ वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि । महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 7 ॥ छागतुष्टे महाभीमे कामाख्ये सुरवंदिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 8 ॥ भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ 9 ॥ संवत्सरेण लभते राज्यं निष्कंटकं पुनः । य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 10 ॥ श्रीकामरूपेश्वरि भास्करप्रभेप्रकाशितांभोजनिभायतानने । सुरारिरक्षःस्तुतिपातनोत्सुकेत्रयीमये देवनुते नमामि ॥ 11 ॥ सितासिते रक्तपिशंगविग्रहेरूपाणि यस्याः प्रतिभांति तानि । विकाररूपा च विकल्पितानिशुभाशुभानामपि तां नमामि ॥ 12 ॥ कामरूपसमुद्भूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 13 ॥ अव्यक्तविग्रहे शांते संतते कामरूपिणि । कालगम्ये परे शांते कामेश्वरि नमोऽस्तु ते ॥ 14 ॥ या सुषुम्नांतरालस्था चिंत्यते ज्योतिरूपिणी । प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ 15 ॥ दंष्ट्राकरालवदने मुंडमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 16 ॥ चामुंडे च महाकालि कालि कपालहारिणी । पाशहस्ते दंडहस्ते कामेश्वरि नमोऽस्तु ते ॥ 17 ॥ चामुंडे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले । शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ 18 ॥ इति श्री कामाख्या स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits