Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

मातङ्गिनी कवचम् - त्रैलोक्यमङ्गल

श्रीदेव्युवाच ।
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचं दिव्यं सर्वसिद्धिकरं नृणाम् ॥ 1 ॥
श्री ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ॥ 2 ॥
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिः विराट् छन्दः मातङ्गी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
ओं शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदनं मम ॥ 3 ॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥ 4 ॥
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥ 5 ॥
अङ्गं प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥ 6 ॥
रक्षेन्नित्यं ललाटे सा महापिशाचिनीति च ।
नेत्रायोः सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥ 7 ॥
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मां दन्तान् चोष्ठौ सम्मार्जनीकरी ॥ 8 ॥
चिबुके कण्ठदेशे तु ठकारत्रितयं पुनः ।
सविसर्गं महादेवि हृदयं पातु सर्वदा ॥ 9 ॥
नाभिं रक्षतु मां लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥ 10 ॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ॥ 11 ॥
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥ 12 ॥
नैरृत्यां सुदया रक्षेद्वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षेन्मां देवी मातङ्गी शुभकारिणी ॥ 13 ॥
रक्षेत्सुरेशी चाग्नेय्यां बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवी देवानां हितकारिणी ॥ 14 ॥
पाताले पातु मा नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च तमोमाया कामबीजं च कूर्चकम् ॥ 15 ॥
मातङ्गिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥ 16 ॥
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमङ्गलं नाम कवचं देवदुर्लभम् ॥ 17 ॥
य इदं प्रपठेन्नित्यं जायते सम्पदालयम् ।
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः ॥ 18 ॥
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वं च वाक्सिद्धिं लभते ध्रुवम् ॥ 19 ॥
नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ 20 ॥
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ 21 ॥
कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद्ध्रुवम् ।
राजानोऽपि च दासाः स्युः षट्कर्माणि च साधयेत् ॥ 22 ॥
सिद्धो भवति सर्वत्र किमन्यैर्बहुभाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीं यो भजेन्नरः ॥ 23 ॥
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥ 24 ॥
तस्मै मातङ्गिनी देवी सर्वसिद्धिं प्रयच्छति ॥ 25 ॥
इति नन्द्यावर्ते उत्तरखण्डे मातङ्गिनी कवचम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits