हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
मातङ्गी हृदयम्
एकदा
कौतुकाविष्टा
भैरवं
भूतसेवितम्
।
भैरवी
परिपप्रच्छ
सर्वभूतहिते
रता
॥
1
॥
श्रीभैरव्युवाच
।
भगवन्
सर्वधर्मज्ञ
भूतवात्सल्यभावन
।
अहं
तु
वेत्तुमिच्छामि
सर्वभूतोपकारम्
॥
2
॥
केन
मन्त्रेण
जप्तेन
स्तोत्रेण
पठितेन
च
।
सर्वथा
श्रेयसां
प्राप्तिर्भूतानां
भूतिमिच्छताम्
॥
3
॥
श्रीभैरव
उवाच
।
शृणु
देवि
तव
स्नेहात्प्रायो
गोप्यमपि
प्रिये
।
कथयिष्यामि
तत्सर्वं
सुखसम्पत्करं
शुभम्
॥
4
॥
पठतां
शृण्वतां
नित्यं
सर्वसम्पत्तिदायकम्
।
विद्यैश्वर्यसुखावाप्ति
मङ्गलप्रदमुत्तमम्
॥
5
॥
मातङ्ग्या
हृदयं
स्तोत्रं
दुःखदारिद्र्यभञ्जनम्
।
मङ्गलं
मङ्गलानां
च
ह्यस्ति
सर्वसुखप्रदम्
॥
6
॥
अस्य
श्रीमातङ्गी
हृदयस्तोत्र
मन्त्रस्य
दक्षिणामूर्तिरृषिः
विराट्
छन्दः
मातङ्गी
देवता
ह्रीं
बीजं
हूं
शक्तिः
क्लीं
कीलकं
सर्ववाञ्छितार्थसिद्ध्यर्थे
पाठे
विनियोगः
॥
ऋष्यादिन्यासः
–
ओं
दक्षिणामूर्तिरृषये
नमः
शिरसि
।
विराट्छन्दसे
नमो
मुखे
।
मातङ्गीदेवतायै
नमः
हृदि
।
ह्रीं
बीजाय
नमः
गुह्ये
।
हूं
शक्तये
नमः
पादयोः
।
क्लीं
कीलकाय
नमो
नाभौ
।
विनियोगाय
नमः
सर्वाङ्गे
॥
करन्यासः
–
ओं
ह्रीं
अङ्गुष्ठाभ्यां
नमः
।
ओं
क्लीं
तर्जनीभ्यां
नमः
।
ओं
हूं
मध्यमाभ्यां
नमः
।
ओं
ह्रीं
अनामिकाभ्यां
नमः
।
ओं
क्लीं
कनिष्ठिकाभ्यां
नमः
।
ओं
हूं
करतलकरपृष्ठाभ्यां
नमः
।
अङ्गन्यासः
–
ओं
ह्रीं
हृदयाय
नमः
।
ओं
क्लीं
शिरसे
स्वाहा
।
ओं
हूं
शिखायै
वषट्
।
ओं
ह्रीं
नेत्रत्रयाय
वौषट्
।
ओं
क्लीं
कवचाय
हुम्
।
ओं
हूं
अस्त्राय
फट्
।
ध्यानम्
।
श्यामां
शुभ्रांशुभालां
त्रिकमलनयनां
रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं
सुरनिकरकरासेव्यकञ्जाङ्घ्रियुग्माम्
।
नीलाम्भोजांशुकान्तिं
निशिचरनिकरारण्यदावाग्निरूपां
मातङ्गीमावहन्तीमभिमतफलदां
मोदिनीं
चिन्तयामि
॥
7
॥
नमस्ते
मातङ्ग्यै
मृदुमुदिततन्वै
तनुमतां
परश्रेयोदायै
कमलचरणध्यानमनसाम्
।
सदा
संसेव्यायै
सदसि
विबुधैर्दिव्यधिषणै-
-र्दयार्द्रायै
देव्यै
दुरितदलनोद्दण्डमनसे
॥
8
॥
परं
मातस्ते
यो
जपति
मनुमव्यग्रहृदयः
कवित्वं
कल्पानां
कलयति
सुकल्पः
प्रतिपदम्
।
अपि
प्रायो
रम्याऽमृतमयपदा
तस्य
ललिता
नटीं
मन्या
वाणी
नटति
रसनायां
च
फलिता
॥
9
॥
तव
ध्यायन्तो
ये
वपुरनुजपन्ति
प्रवलितं
सदा
मन्त्रं
मातर्नहि
भवति
तेषां
परिभवः
।
कदम्बानां
मालाः
शिरसि
युञ्जन्ति
सदये
भवन्ति
प्रायस्ते
युवतिजनयूथस्ववशगाः
॥
10
॥
सरोजैः
साहस्रैः
सरसिजपदद्वन्द्वमपि
ये
सहस्रं
नामोक्त्वा
तदपि
तव
ङेन्तं
मनुमितम्
।
पृथङ्नाम्ना
तेनायुतकलितमर्चन्ति
खलु
ते
सदा
देवव्रातप्रणमितपदाम्भोजयुगलाः
॥
11
॥
तव
प्रीत्यै
मातर्ददति
बलिमाधाय
बलिना
समत्स्यं
मांसं
वा
सुरुचिरसितं
राजरुचितम्
।
सुपुण्या
ये
स्वान्तस्तव
चरणमोदैकरसिका
अहो
भाग्यं
तेषां
त्रिभुवनमलं
वश्यमखिलम्
॥
12
॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं
[
मितस्मित्यापन्नप्रतिभितममन्नं
विकरितम्
]
मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितम्
।
मुखाम्भोजं
मातस्तव
परिलुठद्भ्रूमधुकरं
रमा
ये
ध्यायन्ति
त्यजति
न
हि
तेषां
सुभवनम्
॥
13
॥
परः
श्रीमातङ्ग्या
जपति
हृदयाख्यः
सुमनसा-
-मयं
सेव्यः
सद्योऽभिमतफलदश्चातिललितः
।
नरा
ये
शृण्वन्ति
स्तवमपि
पठन्तीममनिशं
न
तेषां
दुष्प्राप्यं
जगति
यदलभ्यं
दिविषदाम्
॥
14
॥
धनार्थी
धनमाप्नोति
दारार्थी
सुन्दरीं
प्रियाम्
।
सुतार्थी
लभते
पुत्रं
स्तवस्यास्य
प्रकीर्तनात्
॥
15
॥
विद्यार्थी
लभते
विद्यां
विविधां
विभवप्रदाम्
।
जयार्थी
पठनादस्य
जयं
प्राप्नोति
निश्चितम्
॥
16
॥
नष्टराज्यो
लभेद्राज्यं
सर्वसम्पत्समाश्रितम्
।
कुबेरसमसम्पत्तिः
स
भवेद्धृदयं
पठन्
॥
17
॥
किमत्र
बहुनोक्तेन
यद्यदिच्छति
मानवः
।
मातङ्गीहृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात्
॥
18
॥
इति
श्री
दक्षिणामूर्तिसंहितायां
श्री
मातङ्गी
हृदय
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits