Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मनसा देवी स्तोत्रम् - महेन्द्र कृतम्

देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् परात्परां परमां हि स्तोतुं क्षमोऽधुना 1 स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते 2 शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता शप्तो मुनिस्तेन त्यक्तया त्वया यतः 3 त्वं मया पूजिता साध्वी जननी यथाऽदितिः दयारूपा भगिनी क्षमारूपा यथा प्रसूः 4 त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते 5 नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके तथापि तव पूजां वै वर्धयामि पुनः पुनः 6 ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने 7 पुत्रपौत्रादयस्तेषां वर्धन्ते धनानि यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः 8 ये त्वां पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा 9 त्वं स्वर्गलक्ष्मीः स्वर्गे वैकुण्ठे कमलाकला नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः 10 तपसा तेजसा त्वां मनसा ससृजे पिता अस्माकं रक्षणायैव तेन त्वं मनसाभिधा 11 मनसा देवि तु शक्ता चात्मना सिद्धयोगिनी तेन त्वं मनसादेवी पूजिता वन्दिता भवे 12 यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः 13 सत्त्वरूपा देवी त्वं शश्वत्सत्त्वनिषेवया यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् 14 इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य यः पठेत् तस्य नागभयं नास्ति तस्य वंशोद्भवस्य 15 विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः 16 इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशोऽध्याये महेन्द्र कृत श्री मनसादेवी स्तोत्रम् आस्तीकमुनि मन्त्रः सर्पापसर्प भद्रं ते गच्छ सर्प महाविष जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर

Recite with devotion and pure heart

Regular practice brings spiritual benefits